अक्षर आकार:

श्रीरामकृष्णपरमहंसोपदेशावलिः २

Shri Ramakrishnopadeshavalih 2

श्रीरामकृष्णपरमहंसोपदेशावलिः २

यथा विलिप्ते तु रसैः प्रकाशते काचस्य पृष्ठे प्रतिरूपसञ्चयः । हृल्लग्नशुक्रे च तथोर्ध्वरेतसा- मादर्शवत् सर्वविभुः प्रकाशते ॥ १॥ वाष्पालोका यथैवेह पुरवर्त्मगृहादिकम् । नानारुग्भिर्द्योतयन्ति ह्येककोषात् समागताः ॥ नानाजातिकुलोद्भूता अवतारास्तथा भृशम् । सर्वान् देशान् भासयति ह्यद्वयेशात् समागताः ॥ २॥ यथा स्पर्शमणिं स्पृष्ट्वा लोहः काञ्चनतां गतः । स्थापितो यत्र कुत्रापि विकृतिं नैव गच्छति ॥ तथा सद्गुरुसंसर्गाद् यदा निर्मलतां व्रजेत् । शुभान्वितो जनः कोऽपि न पुनः किल्बिषी भवेत् ॥ ३॥ यथा स्पर्शमणेः स्पर्शात् तरवारो ह्ययोमयः । हिरण्मयत्वमासाद्य न तु रूपं त्यजेत् स्वकम् ॥ तथापि पूर्ववत् नान्यद्धिंसितुं क्षमते त्वसौ । तथा हरिपदस्पर्शात् कश्चित् पुण्यवतां वरः ॥ निर्मलत्वं समासाद्य पूर्वदेहं समाश्रयेत् । तथाप्यसौ पुनर्नेह गच्छेद्वै रिपुवश्यताम् ॥ ४॥ अयस्कान्तगिरिर्गुप्तः समुद्रसलिलान्तरे । विश्लेषयत्ययः कीलान् पोतेभ्यः क्षणमात्रतः ॥ तथा हरिकृपाकर्षान् नरो विगतबन्धनः । तत्प्रेमार्णवगर्भे वै ह्यात्मारामो निमज्जति ॥ ५॥ सिद्धकन्दमूलादीनि भजन्ते मृदुतां यथा । असिद्धानि यथा तानि सन्त्येव कठिनानि च ॥ निष्ठुरोऽपि तथा सिद्धः पुरुषो जायते यदा । कोमलत्वमाप्नोति काठिन्यं संविहाय सः ॥ असिद्धः स्वल्पसिद्धो वा स्वभावाद् विकृतो भवेत् । मृषाचारी मृषाभाषी सुदुष्टो जायते ध्रुवम् ॥ ६॥ स्वप्नमन्त्र-हठकृपा-नित्यत्वादि-विभेदतः । सिद्धाः पञ्चविधा ज्ञेयाः पृथ्वीशोभाविवर्धनाः ॥ स्वप्नकाले यदा कोऽपि मन्त्रं प्राप्य तु चेतनम् । तेनैव सिद्धिमाप्नोति स्वप्नसिद्धः स उच्यते ॥ गुरुदत्तं शुभं मन्त्रं सर्वसिद्धिप्रदायकम् । यो जप्त्वा सिद्धिमाप्नोति मन्त्रसिद्धः स एव हि ॥ हठात् प्राप्य धनं दीनो भवेत्तूर्णं धनी यथा । दुष्टोऽपि साधुतामेति सहसैव क्वचिद्भुवि ॥ दीर्घकालतपस्याभिर्यत् फलं प्राप्यते नरैः । मुहूर्तेनैव तत्प्राप्य हठसिद्ध स जायते ॥ दीनं हीनं यथा दृष्ट्वा धनी कृपापरायणः । तस्यापनयति क्लेशं धनदानेन सर्वथा ॥ वीक्ष्य कञ्चिद् दीनचित्तं दुराचार नरं तथा । करोति सात्त्विकश्रेष्ठ गोविन्दो दीनवत्सलः ॥ तस्यैव नरदेवस्य सर्वपूज्यस्य वै तदा । कृपासिद्ध इति ख्यातिर्भवतीह धरातले ॥ कुष्माण्डालावुवल्लीनां यथा फलोदयात् परम् । पुष्पाणि सम्भवन्तीह फलानि च ततः परम् ॥ तथा ये नित्यसिद्धास्ते जन्मसिद्धा भवन्ति वै । तेषां त्वाजन्मसिद्धानां कर्तव्यानीह सन्ति न ॥ तथापि तेऽनुतिष्ठन्ति यानि कर्माणि सिद्धये । तान्येव लोकशिक्षार्थं नित्यसिद्धास्त एव हि ॥ ७॥ यथा दूरतो हट्टकोलाहलोऽयम् अबोध्यः सदा भाति सर्वैर्मनुष्यैः । समीपे तु वाणिज्यकार्योत्थ-शब्दाः क्रयाद्यर्थमुत्थापिता भान्ति नित्यम् ॥ तथा सृष्टिकाण्डमनन्तं विलोक्य ह्यनीशं स्वतन्त्रं वदन्तीह मूढाः । सुधीः सूक्ष्मदर्शी तु जानाति नित्यं विधातास्य नेता प्रभुर्विश्वकर्ता ॥ ८॥ इति ।