अक्षर आकार:

श्रीरामकृष्णपरमहंसोपदेशावलिः १

Shri Ramakrishnopadeshavalih 1

श्रीरामकृष्णपरमहंसोपदेशावलिः १

वियत्तले सूर्यविभाप्रभावाद् यथा दिवा खे न विभान्ति भानि । विभुन्तथा मोहबलाद्दृष्ट्वा निरीश्वरं केऽपि वदन्ति विश्वम् ॥ १॥ अप्यब्धिनीरं लवणेन पूर्णं नास्वादनात् प्रागवगम्यते कैः । इदं जगत् पूर्णमपीशशक्त्या कस्तां विजानाति विना सुचेष्टाम् ॥ २॥ उड्डीयमानो वियतीह गृध्रो दृष्टिं यथायं कुणपेषु धत्ते । दृष्टिस्तथा यात्यपि पण्डितानां निरर्थकेष्वर्थयशःसु नित्यम् ॥ ३॥ यतोऽभ्यासात् स्वभावोऽयं स्त्रीपुंसां जायते ध्रुवम् । यतः सर्वः सदैवेह स्वभावमनुवर्तते । कदभ्यासं ततः सर्वो विहाय सत्स्वभावतः । सद्भावान् समनुष्ठाय विमलानन्दभाग् भवेत् ॥ ४॥ कृपणेषु यथार्थेषु स्पृहास्ति बलवत्तमा । तथैव तव लोभोऽस्तु श्रीहरेः पादसेवने ॥ १॥ फलोदये क्षयं यान्ति यथा पुष्पदलानि वै । ज्ञानोदये तथा ह्यत्र मानमोहमदान्धताः ॥ २॥ हृदाकाशमिदं यावद् वासनातमसावृतम् । ब्रह्मसूर्योदयस्यास्मिन् तावद् वै सम्भवः कुतः ? ॥ ३॥ तावद् गुञ्जति भृङ्गोऽयं यावत् पुष्पं न गच्छति । पुष्पालिङ्गनमासाद्य निःशब्दो मधुपः सदा ॥ ४॥ तथायं पण्डितस्तावद् वादतर्कपरायणः । पाण्डित्यघोषणायोच्चैः शास्त्रार्थकथनोत्सुकः ॥ ५॥ शास्त्राणां प्रतिपाद्यस्य सर्वेषामीश्वरस्य तु । यावन्न लभते भक्तिं पादपङ्कजयुग्मयोः ॥ ६॥ यदा तु तत्कृपालेशात् तद्भक्तिं लभते पराम् । तदालोकननिर्वृत्या निश्चेष्टो जायते तदा ॥ ७॥ चित्ते मायापरिच्छिन्ने विभुर्नैव विकाशते । रूपं मलसमाच्छन्ने दर्पणे किं प्रकाशते ? ॥ ८॥ यथा घनघटाकाशे सूर्यमावृत्य तिष्ठति । महामाया तथैवेह विभुमावृत्य वर्तते ॥ ९॥ मायायां विगतायान्तु विभुः सर्वत्र भाष्यते । जलदेऽपगते सूर्यो यथा सर्वत्र दीप्यते ॥ १०॥ तरङ्गसङ्कुलेऽम्भोधौ चन्द्रबिम्बानि खण्डशः । खेलन्तीव यथा चन्द्रं संविभज्य सहस्रशः ॥ ११॥ तथा सुचञ्चले चित्ते संसाराबद्धचेतसाम् । पवित्रेऽपि ब्रह्मभावाः क्षणमायान्ति यान्ति च ॥ १२॥ सहस्रवत्सरव्यापि-तमःपूर्णगृहोदरम् । सर्वत्र द्युतिमद्भाति दीपयोगाद्यथाञ्जसा ॥ १३॥ मनोमलं किल्बिषाख्यं सहस्रजन्मसञ्चितम् । श्रीहरेः करुणालेशात् तथा तूर्णं पलायते ॥ १४॥ त्यजन्ति सात्त्विकाः सर्वं कथं गोविन्दमानसाः । धनं धान्यं यशोमानं पुत्रदारगृहादिकम् ? ॥ १५॥ विस्मृत्य निखिलान् भोगान् विहाय जीवितस्पृहा । पतङ्गोऽयं यथा याति प्रदीप्तज्वलनं प्रति ॥ १६॥ यथापि मक्षिका तूर्णं तुच्छीकृत्य स्वजीवितम् । परमानन्दमास्थाय मधुभाण्डे निमज्जति ॥ १७॥ तथेतररसान् सर्वान् विस्मृत्य संविहाय च । श्रीविष्णुमुपगच्छन्ति भगवत्परमायणाः ॥ १८॥ जलं यथा भिन्ननामभिः ब्रुवते जनाः । ``ओवाटरिति'' वा केचिद् ``आकोवा'' इति वा परे ॥ १९॥ ``पानीति'' वा वदन्त्येके त्वभिन्नं सलिलं भुवि । तथैवं सच्चिदानन्दं नामभिर्बहुभिः पृथक् । वदन्ति भिन्नपुरुषा ``अल्ला'' ``गाॅड्'' ``जिहोवे''-ति वा ॥ २०॥ ``अधुनैव मया दृष्टः कृकलासो मनोहरः । वृक्षशाखाग्र-भागेऽस्मिन् रक्तवर्णः समुज्ज्वलः ॥ २१॥ पत्रान्तरं प्रविष्टोऽसौ इदानीन्तु न दृश्यते । किं भ्रातः स त्वया दृष्टः सरटो भृशमद्भतः'' ॥ २२॥ भ्रातर्मयापि दृष्टोऽसौ नूनं पीतो न रक्तभाक् । तस्य तद्वचनं श्रुत्वाऽब्रवीत्तं प्रथमोऽध्वगः ॥ २३॥ ``किं कामलरुजा भ्रातर्दृष्टिस्ते कलुषीकृता । कथं त्वं मन्यसे पीतममुं कोकनदच्छविम्'' ॥ २४॥ परिहासमिमं श्रुत्वा तमुवाच ततोऽपरः । ``नाहं कामलवानस्मि न मे दृष्टिर्भ्रमात्मिका'' ॥ २५॥ ``पीतं द्रक्ष्यामि शोनं चेद् यास्यामि दुष्टदृष्टिताम् । पीतान् सरटनिवहान् विधाता सृष्टवान् पुरा ॥ २६॥ रक्तोऽसौ सरटो नूनं नवसृष्टिस्तवाधुना ।'' इत्थं विवदमानौ तौ तृतीयः प्राप्तवान् पथि । साग्रहं समकालञ्च तं प्राप्य पृच्छतः स्म तौ ॥ २७॥ भ्रातर्यदि विजानासि सत्यं नु वद साम्प्रतम् । ``किंवर्णः सरटो भाति पीतः किमुत लोहितः ''॥ २८॥ तयोस्तद्वचनं श्रुत्वा सस्मितं तावुवाच नः । ``युवयोर्वचने सत्यं बहुरूपः स एव हि ॥ २९॥ पत्रान्तरेऽसौ हरितोऽपि भूत्वा चापेक्षते कालवशात् प्रनेयान् । आहार्यकीटानतितीक्ष्णदृष्टिः स्वपत्रवर्णाच्च सुगुप्तदेहः ॥ ३०॥ आहार्यमाहर्तुमनेकरूपं प्रयोजनस्यानुमतं स धत्ते । स्वभावमित्यस्य निरीक्ष्य धीरा इमञ्च नित्यं बहुरूपमाहुः ॥ ३१॥ अनन्तभावस्य च विश्वमूर्तेर्दभ्रान् विभिन्नानधिगम्य भावान् । परस्परं मूढमनुष्यसङ्घाः इत्थं पृथिव्यां विवदन्त एव ॥ ३२॥ युवां ततो नार्हथ एवमेव चित्ते निधातुं खलु दीनभावम् । नान्यस्य धर्मे कुरुतञ्च निन्दां सर्वे विवादा हि तमःप्रसूताः ॥ ३३॥ इति ।