अक्षर आकार:

श्रीरामानुजप्रपत्तिः

shrIrAmAnujaprapattiH

श्रीरामानुजप्रपत्तिः

तत्त्वावबोधमिहिराभ्युदयस्य पूर्वं सन्ध्यायितैदरविनिद्रसरोजरम्यैः । आपाटलांशुपटलैः परिरभ्यमाणौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १॥ भोगापवर्गरसिकैःपुरुषैःप्रयुक्त- न्यासाङ्गपञ्चकयुगीमतिदायिनीभिः । दीर्घाङ्गुलीभिरतुलौ दशभिःसुशोभौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ २॥ वेदान्तदेशिकशिखाभरणायमानौ तस्याच्छमानससरोवरराजहंसौ । तत्प्रौढवाक्सुरनदीकमठायमानौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ३॥ निर्वापितप्रचुरगर्वविनम्रसर्व- दुर्वादिशीर्षपरिषद्बहुमानिताभ्याम् । वादाहवेषु घटितौ वरपादुकाभ्यां रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ४॥ उत्थाय योगसुखतो मीतप्रभाते सह्याद्रिजाप्लवविधौ भृशमुत्सुकस्य । चित्तस्य शीघ्रगमनेन वितीर्णसाह्यौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ५॥ रेखाध्वजाङ्कुशसरोरुहशङ्खमुख्य चिह्नैर्निजैस्तत इतो मृदुचङ्क्रमेण । सह्यात्मजापुलिनसीमनि भूषयन्तौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ६॥ निर्वर्त्तने सति च सान्ध्यविधेर्यथाव- द्भक्त्या मुहुःप्रणमतां महतां जनानाम् । द्रागर्चितो सुविहिताञ्जलिपद्मकोशैः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥ श्रीरङ्गनाथचरणाविव वेदमौलि- ष्वात्मीयवैभवविदां महतां द्विजानाम् । धन्योत्तमाङ्गवलभीषु विहारभाजौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ८॥ रङ्गाधिराजसदनाभिमुखं प्रयान्तौ रथ्यापरागपटलीं निजसङ्गभूम्ना । संसाररोगशमनौषधचूर्णयन्तौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ९॥ प्राबोधिकस्तुतिवरेण विधूतनिद्रः स्नेहार्द्रया निजदृशा पुरुषः पुराणः । यौ सिञ्चति स्म सपदि क्रमशो मुखाद्यः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १०॥ वेदान्तगह्वरनिलीनमनोहरार्थ- व्याख्यारसैकमनसो निजशिष्यवर्गे । निष्पन्दतामुपगतौ श्रवणेच्छयैव रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ११॥ भिक्षाटनस्य समये दिनयौवनेऽपि तेजोऽनलेन्धनमहं न भवेयमस्य । इत्थं धरा धृतवती शिशिरासती यौ रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १२॥ श्रीशेषशैलकरिभूधरयादवाद्रि- सिंहाचलेन्द्रबदरीवननायकानाम् । नित्यं गतागतजुषौ पदसेवनाय रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १३॥ स्नानेन पातकिजनैः परिमुक्तसक्त- दोषापनोदनकृते सुरनिम्नगायाः । तीरे नखद्युतिभिरादधताविवान्यां रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १४॥ श्रीरामसेतुपरिकर्मवतामहोर्मि- जालेन सिन्धुसविधे कलहायमानौ । श्रीपादुकास्वनमिषाद्वृजिनापनोदे रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १५॥ रामानुजप्रपत्तिं ये तत्पदाम्भोजभक्तितः । पठन्त्यनुदिनं प्रातर्मुक्तिस्तेषां करे स्थिता ॥ १६॥ इति श्रीरामानुजप्रपत्तिः ॥