अक्षर आकार:

श्रीरामानुजचतुःश्लोकी

Shri Ramanujachatuhshloki

श्रीरामानुजचतुःश्लोकी

श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ अनिशं भजतामनन्यभाजां चरणाम्भोरुहमादरेण पुंसाम् । वितरन्निभृतं विभूतिमिष्टां जय रामानुज रङ्गधाम्नि नित्यम् ॥ १॥ भुवि नो विमतांस्त्वदीयसूक्तिः कुलिशीभूयः कुदृष्टिभिस्समेतान् । शकलीकुरुते विपश्चिदीड्या जय रामानुज शेषशैलश‍ृङ्गे ॥ २॥ श्रुतिषु स्मृतिषु प्रमाणतत्त्वं कृपयाऽऽलोक्य विशुद्धया हि बुद्ध्या । अकृथाः स्वत एव भाष्यरत्नं जय रामानुज हस्तिधाम्नि नित्यम् ॥ ३॥ जय मायिमतान्धकारभानो जय बाह्यप्रमुखाटवीकृशानो । जय संश्रितसिन्धुशीतभानो जय रामानुज यादवाद्रिश‍ृङ्गे ॥ ४॥ रामानुजचतुःश्लोकीं यः पठेन्नियतः सदा । प्राप्नुयात् परमां भक्तिं यतिराजपदाब्जयोः ॥ इति श्रीरामानुजचतुःश्लोकी समाप्ता ।