अक्षर आकार:

रामानुजाष्टोत्तरशतनामावलिः

rAmAnujAShTottarashatanAmAvaliH

रामानुजाष्टोत्तरशतनामावलिः

ॐ रामानुजाय नमः । पुष्कराक्षाय । यतीन्द्राय । करुणाकराय । कान्तिमत्यात्मजाय । श्रीमते । लीलामानुषविग्रहाय । सर्वशास्त्रार्थतत्त्वज्ञाय । सर्वज्ञाय । सज्जनप्रियाय । नारायणकृपापात्राय । श्रीभूतपुरनायकाय । अनघाय । भक्तमन्दाराय । केशवानन्दवर्धनाय । काञ्चिपूर्णप्रियसखाय । प्रणतार्तिविनाशकाय । पुण्यसङ्कीर्तनाय । पुण्याय । ब्रह्मराक्षसमोचकाय नमः ॥ २०॥ ॐ यादवपादितापार्थवृक्षछेदकुठारकाय नमः । अमोघाय । लक्ष्मणमुनये । शारदाषोकनाशनाय । निरन्तरजनाज्ञानविमोचनविचक्षणाय । वेदान्तद्वयसारज्ञाय । वरदाम्बुप्रदायकाय । पराभिप्रायतत्त्वज्ञाय । यामुनाङ्गुलिमोचकाय । देवराजकृपालब्धषड्वाक्यार्थमहोदधये । पूर्णार्यलब्धसन्मन्त्राय । शौरिपादाब्जषट्पदाय । त्रिदण्डधारिणे । ब्रह्मज्ञाय । ब्रह्मज्ञानपरायणाय । रङ्गेशकैङ्कर्यरथाय । विभूतिद्वयनायकाय । गोष्ठिपूर्णकृपालब्धमन्त्रराजप्रकाशकाय । वररङ्गानुकम्पात्तद्राविडाम्नायपारगाय । मालाधरार्यसुज्ञातद्राविडाम्नायतत्त्वधिये नमः ॥ ४०॥ ॐ चतुस्सप्तशिष्याढ्याय नमः । पञ्चाचार्यपदाश्रयाय । प्रपीतविषतीर्थाम्बुप्रकटीकृतवैभवाय । प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनाय । पवित्रीकृतकूरेशाय । भागिनेयत्रिदण्डकाय । कूरेशदाशरथ्यादिचरमार्थप्रकाशकाय । रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवाय । देवराजार्चनरताय । मूकमुक्तिप्रदायकाय । यज्ञमूर्तिप्रतिष्ठात्रे । मन्नाथाय । धरणीधराय । वरदाचार्यसद्भक्ताय । यज्ञेशार्तिविनाशकाय । अनन्ताभिष्टफलदाय । विट्टलेशप्रपूजिताय । श्रीशैलपूर्णकरुणालब्धरामायणार्थकाय । प्रपत्तिधर्मैकरताय । गोविन्दार्यप्रियानुजाय नमः ॥ ६०॥ ॐ व्याससूत्रार्थतत्त्वज्ञाय नमः । बोधायनमतानुगाय । श्रीभाष्यादिमहाग्रन्थकारकाय । कलिनाशनाय । अद्वैतमतविच्छेत्रे । विशिष्टाद्वैतपारगाय । कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशिकाय । विनाशितेतरमताय । शेषीकृतरमापतये । पुत्रीकृत शठारातये । शठजिते । ऋणमोचकाय । भाषादत्तहयग्रीवाय । भाष्यकाराय । महायशसे । पवित्रीकृतभूभागाय । कूर्मनाथप्रकाशकाय । श्रीवेङ्कटाचलाधीश-शङ्खचक्रप्रदायकाय । श्रीवेङ्कटेशश्वशुराय । श्रीरामसकखदेशिकाय नमः ॥ ८०॥ ॐ कृपामात्रप्रसन्नार्याय नमः । गोपिकामोक्षदायकाय । समीचीनार्यसच्छिष्यसत्कृताय । वैष्णवप्रियाय । कृमिकाण्टनृपध्वंसीने । सर्वमन्त्रमहोदधये । अङ्गीकृतान्ध्रपूर्णार्याय । शालग्रामप्रतिष्ठिताय । श्रीभक्तग्रामपूर्णेशाय । विष्णुवर्धनरक्षकाय । बौद्धध्वान्तसहस्रांशवे । शेषरूपप्रदर्शकाय । नगरीकृतवेदाद्रये । दिल्लीश्वरसमर्चिताय । नारायणप्रतिष्ठात्रे । सम्पत्पुत्रविमोचकाय । सम्पत्कुमारजनकाय । साधुलोकशिखामणये । सुप्रतिष्ठितगोविन्दराजाय । पूर्णमनोरथाय नमः ॥ १००॥ ॐ गोदाग्रजाय नमः । दिग्विजेत्रे । गोदाभीष्टप्रपूरकाय । सर्वसंशयविच्छेत्रे । विष्णुलोकप्रदायकाय । अव्याहतमहद्वर्त्मने । यतिराजाय । जगद्गुरवे नमः ॥ १०८॥ इति रामानुजाष्टोत्तरशतनामावलिः समाप्ता ।