अक्षर आकार:

श्रीराघवेन्द्रसुप्रभातस्तोत्रम्

Shri Raghavendrasuprabhata Stotram

श्रीराघवेन्द्रसुप्रभातस्तोत्रम्

श्रीमते राघवेन्द्राय सर्वाभीष्टप्रदायिने । मन्त्रालयनिवासाय गुरुराजाय मङ्गलम् ॥ १॥ सीतापते विधिकरार्चितकूर्मराज भण्डारितो नृहरितीर्थमुनीन्द्रलब्ध आनन्दतीर्थमुनिवंश्ययतीन्द्रपूज्य श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २॥ श्रीरामदूतहनुमान् यदुनाथदूत श्रीभीमसेनवररौप्यपुरावतार । श्रीव्यासहृत्प्रियतमामितशुद्धबुद्धे श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३॥ ब्रह्माज्ञया दितिकुले बहुदोषपूर्णे जातोऽपि भक्तिभरितो भुवनं समस्तम् । यो पीपवो दिविषदां वर शङ्कुकर्ण श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ४॥ दैत्येश्वरं हरिविरोधि हिरण्यकं तं यो नीनयो हरिपदं पितरं स्वभक्त्या । प्रह्लादमृत्युहरिसम्भवकारणात्मन् श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ५॥ सोमान्वयोद्भव समस्तसुराजमौले भूभारसंहरणतोषितकृष्णमूर्ते । बाह्लीकराज बहुराज सुधर्मधामन् श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ६॥ श्रीकृष्णदेवनृपतिस्सकलं स्वराज्यं यस्मिन् स्वमप्यमलमर्पयदात्मभक्त्या । श्रीव्यासराज विदुषां वर दिव्यमूर्ते श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ७॥ श्रीमूलरामपदपङ्कजलोलभृङ्ग श्रीपूर्णबोधमतरम्यसुधाब्धिचन्द्र । श्रीगौतमान्वयविभासकभव्यसूर्य श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ८॥ स्वीयान् समस्तनिगमान् प्रविलोक्य सूक्ष्मैः सद्भाष्यसङ्ग्रहमिषे यदुवर्यवक्त्रे । श्रीजैमिनिर्यमभिपूजयतेऽतिमोदात् श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ९॥ स्पष्टार्थकैरनतिविस्तृतसूक्ष्मवाक्यैः सूत्रार्थभाष्यमवेक्ष्य च तन्त्रदीपम् । व्यासो यशोभिरभिपूरयते दसायं(?) श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १०॥ स्वस्वीयशास्त्रगतमर्थमतोऽधिकं च दृष्ट्वा यतीन्द्रकृतिषु प्रणयातिनम्राम् । अर्चन्ति पाणिनिमुखा यमगाधबोधाः श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ११॥ रम्या सुधापरिमलोल्लसिता चकास्ते सच्चन्द्रिकापि शुशुभे विलसत्प्रकाशा । टीकास्थलेषु रमितैः स्फुटभावदीपैः श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १२॥ रम्यार्थरत्नपरिभूषितसर्वगात्र सर्वाश्श्रुतीस्स्वशिरसा सहितेन्दिरा यम् । आरोप्य रक्षति सदा निगमान्तराज्ये श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १४॥ श्रीवेङ्कटार्यवरतिम्मनगोपिकाम्बा- दम्पत्यनुत्तमतपःफलवैणिकाग्र्यः । दारिद्र्यदुःखभयभञ्जनपुण्यमूर्ते श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १४॥ आनन्दतीर्थजयतीर्थकवीन्द्रतीर्थां श्रीरामचन्द्रविबुधेन्द्रजयेन्द्रतीर्थाम् । आशीश्शतं प्रददति स्पृहयन्ति यस्मै श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १५॥ वादीन्द्रतीर्थसुमतीन्द्रमूखां स्तुवन्ति कर्मादिनो गुणगणस्तवनैरुदारैः । त्वां पश्यता ननु गृहाण दयार्द्रदृष्ट्या श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १६॥ गार्हस्थ्यमुत्तममयाचितलब्धवृत्त्या कष्टो नयो निरनयो ह्यधुनाऽऽश्रितान् स्वान् । सर्वेष्टलाभपुरिपुष्टतमान्करोषि श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १७॥ श्रीमत्सुधीन्द्रवरयोगिसरस्वतीभ्यां संप्रेरितो यतिरभूर्बहुना श्रमेण । मन्त्रान् वहस्यनुदिनं स्वगतीन् पुनासि श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १८॥ गङ्गादिपुण्यसरितः प्रणयातिबद्धाः सद्रत्नहेमजलकुम्भशतैरिदानीम् । त्वां स्नापयन्ति विधिवत्त्यज योगनिद्रां श्रीमूलराम भवतात्तव सुप्रभातम् ॥ १९॥ मन्दारपुष्पदधिकुङ्कुममुख्यवस्तु प्रत्यर्प्य मङ्गलकरं वनिता मुनीनाम् । नीराजनं विदधतेऽद्य सुरत्नदीपैः श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २०॥ एते च कश्यपमुखा मुनयः श्रुतिस्थैः आशीर्वचोभिरधुनाऽऽशिषमर्पयन्ति । लब्धाशिषं वरमथार्थिजनाय दद्याः श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २१॥ एते नृपा धनचयं बहुवाहनस्था- मानीय दर्शनकृते बहिरावसन्ति । तान्पावयाद्य कृपया निरपेक्षयोगिन् श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २२॥ एषा समस्तजनता पररात्रकाले शीतार्दितापि दधती वसनं जलार्द्रम् । त्वां सेवतेऽथ परिपूरय तत्तदिष्टं श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २३॥ श्रीमूलराम जय दिग्विजयाख्य राम वैकुण्ठवासमथ पूजयितुं समेहि । सर्वेऽप्यमी विधिकरा विहितात्मकृत्यां श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २४॥ धन्या इमे तव गुणस्तवनैरसङ्ख्यैः कण्ठोद्गतैर्दशदिशामशुभं हरन्ति । श‍ृण्वन्ति देवसुजना नतकन्धरेण श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २५॥ छात्त्रा इमे परिमलादिनिबन्धपाठ्य- भागावलोकनकृतः पठनाय सज्जाम् । उत्तिष्ठ पाठय सुधामधुरारवेण श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २६॥ शास्त्रेषु पूर्णधिषणा अपि पण्डितास्ते द्वार्यासते स्वबहुसंशययापनाय । उत्तिष्ठ छिन्धि हृदयस्थितसंशयांस्तान् श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २७॥ मन्त्रालये सुरुचिरे वरतुङ्गभद्रा- तीरं गते सकलदैवतसन्निधाने । वृन्दावने निवसते गुरवेऽर्पितोऽहं श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २८॥ सन्तानसम्पदतिशुद्धविरक्तिभक्ति- विज्ञानमुक्तिमुखसर्पफलप्रदातः । वाग्देहसौष्ठवकरातिपवित्रमूर्ते श्रीमूलराम भवतात्तव सुप्रभातम् ॥ २९॥ चिन्तामणिस्सुरतरुस्सुरधेनुपूर्वा भक्तेष्टदानकुशले त्वयि नम्रनम्राम् । स्वीये पदे समभिषिच्य समर्चयन्ति श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३०॥ नानर्ति भक्तिभरपूरितदासगोष्ठी विस्मृत्य देहमुत लोकमिमं स्मरन्ती । त्वां स्मारयन्त्यतुलनारदगानगोष्ठीं श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३१॥ खञ्जोऽपि रावति जडः कवितां विधत्ते मूकोऽपि वक्ति बहु पश्यति सर्वमन्धः । एडश्श‍ृणोति कृपया तव पश्य लीलां श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३२॥ वृन्दावनेषु जगतीतलमध्यगेषु सर्वेषु सन्निहितया बहुरम्यमूर्त्या । सर्वेष्टमाकलय सन्त्यज भूमिशय्यां श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३३॥ श्रीकृष्णभक्तिमतुलामवलम्बमाने सर्वास्ति शक्तिरिति डिण्डिमघोषपूर्वम् । यो बूबुधः(?) स्वमहिमातिशयप्रकाशैः श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३४॥ तं त्वत्समं विदधतो भवतः प्रभावं दृष्ट्वा जहाति जनता खलु नास्तिकत्वम् । आस्तिक्यवर्धन जगद्गुरुवर्य भूम्ना श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३५॥ ऐरावतप्रमुखदैवतवाहनानि सिद्धानि सर्वविबुधैरभियापितानि । तेषु स्थितो महिगतो दिश भक्तकामान् श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३६॥ एत्येति भक्तिभरितास्सुजयेन्द्रतीर्था वृन्दावनोद्भवसमात्रिशते महेऽस्मिन् । अञ्चन्ति हेमकवचेन गुरो समेहि श्रीमूलराम भवतात्तव सुप्रभातम् ॥ ३७॥ श्रीराघवेन्द्र भवतात्तव सुप्रभातं त्वत्सुप्रभातपठनस्य सुखं प्रभातम् । भूयात्त्वदीयकृपया मम सुप्रभातं त्वत्सुप्रभातकवनस्य च सुप्रभातम् ॥ ३८॥ येनोद्धृतः पापकूपाल्लक्ष्मीनारायणाभिधः । अञ्चाम्यहमुपाध्यायस्सुप्रभातेन तं गुरुम् ॥ ३९॥ इति श्रीराघवेन्द्रसुप्रभातं समाप्तम् ।