अक्षर आकार:

श्रीराघवेन्द्रगुरुस्तोत्रम्

Shri Raghavendraguru Stotram

श्रीराघवेन्द्रगुरुस्तोत्रम्

श्रीपूर्णबोधगुरुतीर्थपयोब्बिपारा कामारिमाक्षविषमाक्षशिरःस्पृशन्ती । पूर्वोत्तरामिततरङ्गचरत्सुहंसा देवालिसेवितपदाम्फ्रिपयोजलग्ना ॥ १॥ जीवेशभेदगुणपूर्तिजगत्सुसत्वा नीचोच्छभावमुखनक्रगणैः समेता । दुर्वाद्यजापतिगिलैर्गुरुराघवेन्द्र वाग्देवतासरिदमुं विमलीकरोतु ॥ २॥ श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्भ्यः । अघाद्रिसम्भेदनदृष्टिवज्रः क्षमासुरेन्द्रोवतु मां सदायम् ॥ ३॥ श्रीराघवेन्द्रोहरिपादकञ्ज- निषेवणाल्लब्ध समस्तसम्पत् । देवस्वभावो दिविजद्रुमोयं इष्टप्रदो मे सततं स भूयात् ॥ ४॥ भव्यस्वरूपो भवदुःखतूलसङ्घाग्निचर्यः सुखधैर्यशाली । समस्तदुष्टग्रहनिग्रहेशो दुरत्ययोपप्लवसिन्धुसेतुः ॥ ५॥ निरस्तदोषो निरवद्यवेषः प्रत्यर्थिमूकत्वनिदानभाषः । विद्वत्परिज्ञेयमहाविशेषो वाग्ग्वैखरीनिर्जितभव्यशेषः ॥ ६॥ सन्तानसम्पत्परिशुद्ध भक्तिविज्ञानवाग्देहसुपाटवादीन्ग् । दत्वा शरीरोत्थसमस्तदोषान् हत्वा स नोव्यात्ग् गुरुराघवेन्द्रः ॥ ७॥ यत्पादोदकसञ्चयः सुरनदीमुख्यापगासादिता- सङ्ख्यानुत्तमपुण्यसङ्घविलसत्प्रख्यातपुण्यावहः । दुस्तापत्रयनाशनो भुवि महावन्ध्यासुपुत्रप्रदो व्यङ्गस्वङ्गसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥ ८॥ यत्पादकञ्जरजसा परिभूषिताङ्गा यत्पादपद्ममधुपायितमानसा ये । यत्पादपद्मपरिकीर्तनजीर्णवाचः तद्दर्शनं दुरितकाननदावभूतम् ॥ ९॥ सर्वतन्त्रस्वतन्त्रोसौ श्रीमध्वमतवर्धनः । विजयीन्द्रकराब्जोत्थ सुधीन्द्र वरपुत्रकः ॥ १०॥ श्रीराघवेन्द्रो यतिराट् गुरुर्मे स्याद्ग्भयापहः । ज्ञानभक्तिसुपुत्रा युर्यशः श्रीपुण्यवर्धनः ॥ ११॥ प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः । सर्वविद्याप्रवीणोन्यो राघवेन्द्रान् न विद्यते ॥ १२॥ अपरोक्षीकृतश्रीशः समुपेक्षित भावजः । अपेक्षितप्रदातान्यो राघवेन्द्रान् न विद्यते ॥ १३॥ दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्कितः । शापानुग्रहशक्तोन्यो राघवेन्द्रान् न विद्यते ॥ १४॥ अज्ञानविस्मृतिर्भ्रान्तिसंशयापस्मृतिक्षयाः । तन्द्राकम्पवचः कौण्ठ्यमुखा ये चेन्द्रियोद्भवाः । दोषास्ते नाशमायान्ति राघवेन्द्र प्रसादतः ॥ १५॥ ``श्रीराघवेन्द्राय नमः'' इत्यष्टाक्षरमन्त्रतः । जपिताद्भावितान्ग् नित्यं इष्टार्था स्युर्न संशयः ॥ १६॥ हन्तु नः कायजान् दोषान्ग् आत्मात्मीयसमुद्भवान् । सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् ॥ १७॥ इति कालत्रये नित्यं प्रार्थनां यः करोति सः । इहामुत्राप्तसर्वेष्टो मोदते नात्र संशयः ॥ १८॥ अगम्यमहिमा लोके राघवेन्द्रो महायशाः । श्रीमध्वमतदुग्धाब्धिचन्द्रोवतु सदानघः ॥ १९॥ सर्वयात्राफलावाप्त्यै यथाशक्ति प्रदक्षिणम् । करोमि तव सिद्धस्य वृन्दावनगतं जलम् । शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ॥ २०॥ सर्वाभीष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् । तव सङ्कीर्तनं वेदशास्त्रार्थज्ञानसिद्दये ॥ २१॥ संसारेक्षयसागरे प्रकृतितोगाधे सदा दुस्तरे सर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुले । नानाविभ्रमदुर्भ्रमेमितभयस्तोमाधिघेनोत्कटे दुःखोत्क्रष्टविषे समुद्धर गुरो मां मग्नरूपं सदा ॥ २२॥ राघवेन्द्र गुरुस्तोत्रं यः पठेत् भक्तिपूर्वकम्ग् । तस्य कुष्ठादिरोगाणां निवृत्तिःः त्वरया भवेत् ॥ २३॥ अन्धोपि दिव्यदृष्टिः स्याद् एडमूकोपि वाक्पतिः । पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्यास्य जपाद्भवेत् ॥ २४॥ यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् । तस्य कुक्षगता दोषाः सर्वे नश्यन्ति तत् क्षणात्ग् ॥ २५॥ यद्वृन्दावनमासाद्य पङ्गुः खञ्जोपि वा जनः । स्तोत्रेणानेन यः कुर्यात् प्रदक्षिणनमस्क्रती । स जङ्घालो भवेदेव गुरुराजप्रसादतः ॥ २६॥ सोमसूर्योपरागे च पुष्यार्कादिसमागमे । योनुत्तममिदं स्तोत्रं अष्टोत्तरशतं जपेत् । भूतप्रेतपिशाचादि पीडा तस्य न जायते ॥ २७॥ एतत् स्तोत्रं समुच्चार्य गुरोर्वृन्दावनान्तिके । दीपसंयोजनात् ज्ञानं पुत्र लाभो भवेद्धृवम्ग् ॥ २८॥ परवादि जयो दिव्य ज्ञानभक्त्यादि वर्धनम् । सर्वाभीष्टप्रवृद्दिः स्यान्नात्र कार्या विचारणा ॥ २९॥ राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् । न जायतेस्य स्तोत्रस्य प्रभावान् नात्र संशयः ॥ ३०॥ यो भक्त्या गुरुराघवेन्द्रचरणद्वन्द्वं स्मरन् यः पठेत्ग् स्तोत्रं दिव्यमिदं सदा न हि भवेत् तस्या सुखं किञ्चन । किं त्विष्टार्थसमृद्धिरेव कमलानाथप्रसादो दयात् कीर्तिर्दिग्विदिता विभूतिरतुला ``साक्षीहयास्तोत्र हि'' ॥ ३१॥ इति श्रीराघवेन्द्रार्यगुरुराजप्रसादतः । कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिध्यः ॥ ३२॥ पूज्याय राघवेन्द्राय सत्यधर्मरताय च । भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ ३३॥ दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे । श्रीराघवेन्द्रगुरवे नमोत्यन्त दयालवे ॥ ३४॥ इति श्रीअप्पणाचार्यविरचितं श्रीराघवेन्द्रगुरुस्तोत्रं सम्पूर्णम् ।