अक्षर आकार:

श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः

shrIrAghavendra aShTottarashatanAmAvaliH

श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः

॥ अथ श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः ॥ ॐ स्ववाग्देवता सरिसद्भक्तविमलीकर्त्रे नमः । ॐ श्रीराघवेन्द्राय नमः । ॐ सकलप्रदात्रे नमः । ॐ भक्ताघसञ्छेदनवृष्टिवज्राय क्षमासुरेन्द्राय नमः । ॐ हरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पदे नमः । ॐ देवस्वभावाय नमः । ॐ दिविजद्रुमाय नमः । ॐ इष्टप्रदात्रे नमः । ॐ भवस्वरूपाय नमः । ॐ भवदुःखतूलसङ्घाग्निचर्याय नमः । १० ॐ सुखधैर्यशालिने नमः । ॐ समस्तदुष्टग्रहनिग्रहेशाय नमः । ॐ दुरत्ययोपप्लवसिन्धुसेतवे नमः । ॐ निरस्तदोषाय नमः । ॐ निरवद्यवेषाय नमः । ॐ प्रत्यर्थिमूकत्वनिधानभाषाय नमः । ॐ विद्वत्परिज्ञेयमहाविशेषाय नमः । ॐ वाग्वैखरीनिर्जितभव्यशेषाय नमः । ॐ सन्तानसम्पत्परिशुद्धभक्तिविज्ञानवाग्देहसुपाटवादित्रे नमः । ॐ शरीरोत्थसमस्तदोषहन्त्रे नमः । २० ॐ श्रीगुरवे राघवेन्द्राय नमः । ॐ तिरस्कृतसुरनदीजलपादोदकमहिमावते नमः । ॐ दुस्तापत्रयनाशनाय नमः । ॐ महावन्ध्यासुपुत्रप्रदाय नमः । ॐ व्यङ्गस्वङ्गसमृद्धिदाय नमः । ॐ ग्रहमहापापाघहाय नमः । ॐ दुरितकाननदावभूतस्वभक्तदर्शनाय नमः । ॐ सर्वतन्त्रस्वतन्त्राय नमः । ॐ श्रीमाध्वमतवर्धनाय नमः । ॐ विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकाय नमः । ३० ॐ यतिराजे नमः । ॐ गुरवे नमः । ॐ भयापहाय नमः । ॐ ज्ञानभक्तिसुपुत्रायुर्यशःश्रीपुण्यवर्धनाय नमः । ॐ प्रतिवादिजयस्वान्तभेदचिह्नादराय नमः । ॐ सर्वविद्याप्रवीणाय नमः । ॐ अपरोक्षिकृतश्रीशाय नमः । ॐ समुपेक्षिकृतभावजाय नमः । ॐ अपेक्षितप्रदात्रे नमः । ॐ दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्किताय नमः । ४० ॐ शापानुग्रहशक्ताय नमः । ॐ अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयादिदोषनाशकाय नमः । ॐ अष्टाक्षरजपेष्टार्थप्रदात्रे नमः । ॐ आत्माऽऽत्मीयसमुद्भवकायजदोषहन्त्रे नमः । ॐ सर्वपुमर्थप्रदात्रे नमः । ॐ कालत्रयप्रार्थनाकर्त्रे नमः । ॐ ऐहिकामुस्मिकसर्वेष्टप्रदात्रे नमः । ॐ अगम्यमहिम्ने नमः । ॐ महायशसे नमः । ॐ श्रीमाध्वमतदुग्धाब्धिचन्द्राय नमः । ॐ अनघाय नमः । ५० ॐ यथाशक्तिप्रदक्षिणकर्तृसर्वयात्राफलदात्रे नमः । ॐ शिरोधारणसर्वतीर्थस्नानफलदातृस्ववृन्दावनगतजलाय नमः । ॐ करणसर्वाभीष्टदात्रे नमः । ॐ सङ्कीर्तनेन वेदाद्यर्थज्ञानदात्रे नमः । ॐ संसारमग्नजनोद्धारकर्त्रे नमः । ॐ कुष्ठादिरोगनिवर्तकाय नमः । ॐ अन्धदिव्यदृष्टिदात्रे नमः । ॐ एडमूकवाक्पतित्वप्रदात्रे नमः । ॐ पूर्णायुःप्रदात्रे नमः । ॐ पूर्णसम्पत्तिदात्रे नमः । ६० ॐ कुक्षिगतसर्वदोषघ्ने नमः । ॐ पङ्गुखञ्जसमीचीनावयवदात्रे नमः । ॐ भूतप्रेतपिशाचादिपीडाघ्ने नमः । ॐ दीपसंयोजनात् ज्ञानपुत्रदात्रे नमः । ॐ दिव्यज्ञानभक्त्यादिवर्धनाय नमः । ॐ सर्वाभीष्टदाय नमः । ॐ राजचोरमहाव्याघ्रसर्पनक्रादिपीडाघ्ने नमः । ॐ स्वस्तोत्रपठनेष्टार्थसमृद्धिदाय नमः । ॐ उद्यत्प्रद्योतनद्योतधर्मकूर्मासनस्थिताय नमः । ॐ खद्यखद्योतनप्रतापाय नमः । ७० ॐ श्रीराममानसाय नमः । ॐ धृतकाषायवसनाय नमः । ॐ तुलसीहारवक्षसे नमः । ॐ दोर्दण्डविलसद्दण्डकमण्डलुविराजिताय नमः । ॐ अभयज्ञानमुद्राक्षमालाशीलकराम्बुजाय नमः । ॐ योगेन्द्रवन्द्यपादाब्जाय नमः । ॐ पापाद्रिपाटनवज्राय नमः । ॐ क्षमासुरगणाधीशाय नमः । ॐ हरिसेवालब्धसर्वसम्पदे नमः । ॐ तत्त्वप्रदर्शकाय नमः । ८० ॐ इष्टप्रदानकल्पद्रुमाय नमः । ॐ श्रुत्यर्थबोधकाय नमः । ॐ भव्यकृते नमः । ॐ बहुवादिविजयिने नमः । ॐ पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयाय नमः । ॐ द्युनदीतुल्यसद्गुणाय नमः । ॐ भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकाय नमः । ॐ जगद्गुरवे नमः । ॐ कृपानिधये नमः । ॐ सर्वशास्त्रविशारदाय नमः । ९० ॐ निखिलेन्द्रियदोषघ्नाय नमः । ॐ अष्टाक्षरमनूदिताय नमः । ॐ सर्वसौख्यकृते नमः । ॐ मृतपोतप्राणदात्रे नमः । ॐ वेदिस्थपुरषोज्जीविने नमः । ॐ वह्निस्थमालिकोद्धर्त्रे नमः । ॐ समग्रटीकाव्याख्यात्रे नमः । ॐ भाट्टसङ्ग्रहकृते नमः । ॐ सुधापरिमलोद्धर्त्रे नमः । ॐ अपस्मारापहर्त्रे नमः । १०० ॐ उपनिषत्खण्डार्थकृते नमः । ॐ ऋग्व्याख्यानकृदाचार्याय नमः । ॐ मन्त्रालयनिवासिने नमः । ॐ न्यायमुक्तावलीकर्त्रे नमः । ॐ चन्द्रिकाव्याख्याकर्त्रे नमः । ॐ सुतन्त्रदीपिकाकर्त्रे नमः । ॐ गीतार्थसङ्ग्रहकृते नमः । ॐ श्रीराघवेन्द्रसद्गुरवे नमः । १०८ सिद्धार्थौ गुरुवासरे हरिदिने श्रीश्रावणे मासके पक्षे चेन्दुविवर्धने शुभदिने श्रीराघवेन्द्रार्पिता । रामार्यस्य सुतेन मन्त्रसदने श्रीराघवेन्द्रार्पिता वेदव्याससुनामकेन च गुरोः प्रीत्यै कृतं श्रीशयोः ॥ इति श्रीराघवेन्द्राष्टोत्तरशतनामावलिः ॥