अक्षर आकार:

नमामो वयं मातृभूः पुण्यभूस्त्वां

Namamo Vayam Matribhuh PunyabhustvAm

नमामो वयं मातृभूः पुण्यभूस्त्वां

नमामो वयं मातृभूः पुण्यभूस्त्वां त्वया वर्धिताः संस्कृतास्त्वत्सुताः अये वत्सले मङ्गले हिन्दुभूमे स्वयं जीवितान्यर्पयामस्त्वयि ॥ १॥ नमो विश्वशक्त्यै नमस्ते नमस्ते त्वया निर्मितं हिन्दुराष्ट्रं महत् प्रसादात्तवैवात्र सज्जाः समेत्य समालम्बितुं दिव्यमार्गं वयम् ॥ २॥ समुन्नामितं येन राष्ट्रं न एतत् पुरो यस्य नम्रं समग्रं जगत् तदादर्शयुक्तं पवित्रं सतीत्वं प्रियाभ्यः सुताभ्यः प्रयच्छाम्ब ते ॥ ३॥ समुत्पादयास्मासु शक्तिं सुदिव्यां दुराचार-दुर्वृत्ति-विध्वंसिनीं पिता-पुत्र-भ्रातृंश्च भर्तारमेवं सुमार्गं प्रति प्रेरयन्तीमिह ॥ ४॥ सुशीलाः सुधीराः समर्थाः समेताः स्वधर्मे स्वमार्गे परं श्रद्धया वयं भावि-तेजस्वि-राष्ट्रस्य धन्याः जनन्यो भवेमेति देह्याशिषम् ॥ ५॥ भारतमाता की जय ॥