अक्षर आकार:

पुण्योदयप्रशस्त्यष्टकम्

Punyodaya Prashasti Ashtakam

पुण्योदयप्रशस्त्यष्टकम्

पुण्यमूर्तिः पुण्यचेताः पुण्यधीः पुण्यवाङ्महाः । पुण्यकर्मा पुण्यशर्मा श्रीपुण्यविजयो मुनिः ॥ १॥ निसर्गवत्सलो धीरो विशालहृदयस्तथा । परोपकारप्रवणो नम्नसौम्यस्वभावभाक् ॥ २॥ उदात्तचिन्तनो दीप्रप्रज्ञो वाचंयमस्तथा । निर्भीकः सत्यसामर्थ्यप्रभाप्रसृमरोदयः ॥ ३॥ जैन-वैदिक-बौद्धानां शास्त्रेषु सुविशारदः । सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ॥ ४॥ यदीयो व्यवसायश्च मुख्यरूपेण वर्तते । श्रेष्ठपद्धतितः प्राच्यशास्त्राणां परिशोधनम् ॥ ५॥ बहुप्राचीनशास्त्राढ्यभाण्डागारावलोकनम् । कृत्वा श्रमेण योऽकार्षीत् तेषामुद्धारमुत्तमम् ॥ ६॥ महामेधाविना येन प्राचीना बहुगौरवाः । ग्रन्थाः सम्पादिताः सन्ति विद्वदान्दकारिणः ॥ ७॥ विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः श्रेष्ठाचारविचारपूतविकसद्वैदुष्यनिष्पादितम् । भव्यश्लोकमनल्पधाममहिमा विभ्रन्महासात्त्विको जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाशं दिशन् ॥ ८॥ इति मुनि न्यायविजयविरचितं पुण्योदयप्रशस्त्यष्टकम् समाप्तम् ।