अक्षर आकार:

प्रणामप्रणयस्तवम्

praNAmapraNayastavam

प्रणामप्रणयस्तवम्

कन्दर्पकोटिरम्याय स्फुरदिन्दीवरत्विषे । जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे॥ १॥ कृष्णलाकृतहाराय कृष्णलावण्यशालिने । कृष्णाकूलकरीन्द्राय कृष्णाय करवै नमः ॥ २॥ सर्वानन्दकदम्बाय कदम्बकुसुमस्रजे । नमः प्रेमावलम्बाय प्रलम्बारिकनीयसे ॥ ३॥ कुण्डलस्फुरदंसाय वंशायत्तमुखश्रिये । राधामानसहंसाय व्रजोत्तंसाय ते नमः ॥ ४॥ नमः शिखण्डचूडाय दण्डमण्डितपाणये । कुण्डलीकृतपुष्पाय पुण्डरीकेक्षणाय ते ॥ ५॥ राधिकाप्रेममाध्वीकमाधुरीमुदितान्तरम्। कन्दर्पवृन्दसौन्दर्यं गोविन्दमभिवादये ॥ ६॥ श‍ृङ्गाररसश‍ृङ्गारं कर्णिकारात्तकर्णिम् । वन्दे श्रिया नवाभ्राणां बिभ्राणां विभ्रमं हरिम् ॥ ७॥ साध्वीव्रतमणिव्रातपश्यतोहरवेणवे । कल्हारकृतचूडाय शङ्खचूडभिदे नमः ॥ ८॥ राधिकाधरबन्धूकमकरन्दमधुव्रजम् । दैत्यसिन्धुरपारीन्द्रं वन्दे गोपेन्द्रनन्दनम् ॥ ९॥ बर्हेन्द्रायुधरम्याय जगज्जीवनदायिने । राधाविद्युद्वृताङ्गाय कृष्णाम्भोदाय तै नमः ॥ १०॥ प्रेमान्धवल्लवीवृन्दलोचनेन्दीवरेन्दवे । काश्मीरतिलकाढ्याय नमः पीताम्बराय ते ॥ ११॥ गीर्वाणेशमदोद्दामदावनिर्वाणनीरदम् । कुन्दुकीकृतशैलेन्द्रं वन्दे गोकुलबान्धवम् ॥ १२॥ दैन्यार्णवे निमग्नोऽस्मि मन्तुग्रावमदार्दितः । दुष्टे कारुण्यपारीण मयि कृष्ण कृपां कुरु ॥ १३॥ आधारोऽप्यपराधानामविवेकहतोऽप्यहम् । त्वत्कारुण्यप्रतीक्षोऽस्मि प्रसीद मयि माधव ॥ १४॥ इति प्रमाणप्रणयस्तवं समाप्तम् ॥