अक्षर आकार:

श्रीमत्पतञ्जल्यष्टोत्तरशतनामावलिः

Patanjali Ashtottarashata Namavali

श्रीमत्पतञ्जल्यष्टोत्तरशतनामावलिः

श्रीमत्पतञ्जलिमहामुनये नमः । ॥ अथ श्रीमद्भगवत्पतञ्जल्यष्टोत्तरशतनामावलिः ॥ ध्यानम् योगशास्त्रप्रणेतारं शब्दविद्याप्रकाशकम् । आयुर्विद्याप्रवक्तारं प्रणमामि पतञ्जलिम् ॥ चेतःशब्दशरीराणां शोधकं देशिकोत्तमम् । भक्त्या नत्वा मुनिं नाम्नामष्टोत्तरशतं ब्रुवे ॥ ॐ श्रीमत्पतञ्जलिमहामुनये नमः । ॐ योगिवर्याय नमः । ॐ योगोपदेशकाय नमः । ॐ योगपदव्याख्यात्रे नमः । ॐ वृत्तिभेदबोधकाय नमः । ॐ ईश्वरप्रणिहितचित्ताय नमः । ॐ प्रणवोपासकाय नमः । ॐ प्रणवतत्त्वदर्शिने नमः । ॐ जपविधायिने नमः । ॐ योगसाधनोपदेशकाय नमः । १० ॐ शब्दतत्त्वप्रकाशकाय नमः । ॐ शब्दविद्याफलवक्त्रे नमः । ॐ वाग्योगविदे नमः । ॐ श्रुत्यर्थानुग्राहकाय नमः । ॐ सूत्रवाक्यार्थसेतवे नमः । ॐ धर्मनियमावगमकाय नमः । ॐ शब्दोपलब्धिदर्शकाय नमः । ॐ दृष्टान्तोपकल्पकाय नमः । ॐ न्यायकदम्बाख्यात्रे नमः । ॐ सूत्राक्षरमर्मविदे नमः । २० ॐ आयुर्विद्यादेशिकाय नमः । ॐ क्लेशपञ्चकविदूराय नमः । ॐ अविद्यापदशोधकाय नमः । ॐ कर्मफलनिवृत्त्यै नमः । ॐ हेयोपादेयज्ञात्रे नमः । ॐ योगाङ्गोपदेशकाय नमः । ॐ योगाङ्गफलवक्त्रे नमः । ॐ योगसाधनसन्देशाय नमः । ॐ योगपथानुवृत्ताय नमः । ॐ योगीश्वराय नमः । ३० ॐ वाग्दोषविदे नमः । नमः ॐ पाणिन्याहितभावाय नमः । ॐ लोकभाषणविदुषे नमः । ॐ श्रुत्यर्थाभिधात्रे नमः । ॐ शब्दलक्षणवक्त्रे नमः । ॐ गुरुलाघवविदे नमः । ॐ सर्वशाखाविज्ञात्रे नमः । ॐ सूत्रविवेचकाय नमः । ॐ शब्दग्रन्तोपजीव्याय नमः । ॐ अक्षरानुव्याख्यात्रे नमः । ४० ॐ सूत्रानर्थक्यनिराकर्त्रे नमः । ॐ विशेषप्रतिपत्तिहेतुदर्शिने नमः । ॐ पदसम्बन्धज्ञाय नमः । ॐ बहुकल्पप्रदर्शकाय नमः । ॐ सर्वलक्ष्याभिज्ञाय नमः । ॐ वाक्याशयवर्णनपराय नमः । ॐ सहस्रजिह्वाय नमः । ॐ आदिशेषावतरय नमः । ॐ विचारधाराधराय नमः । ॐ शब्दार्थभेदाभेददर्शिने नमः । ५० ॐ समाधिभेदभृते नमः । ॐ प्रशान्तसिद्धिदायकाय नमः । ॐ चित्तैकाग्रतापरिणामवक्त्रे नमः । ॐ अध्यासभेदनिरूपकाय नमः । ॐ योगभेदोपबृंहकाय नमः । ॐ योगविभूतये नमः । ॐ योगसोपानकल्पकाय नमः । ॐ अणिमादिसिद्धिद्दय नमः । ॐ कैवल्यपथदर्शिने नमः । ॐ वैराग्यहेतुबोधकाय नमः । ६० ॐ मुनिश्रेष्ठाय नमः । ॐ मुनिवन्दिताय नमः । ॐ दोषत्रयापहर्त्रे नमः । ॐ गोनर्दीयाय नमः । ॐ गोणिकापुत्राय नमः । ॐ योगसूत्रकृते नमः । ॐ महाभाष्यनिर्मात्रे नमः । ॐ वैद्यशास्त्रप्रवर्तकाय नमः । ॐ व्याख्यानिपुणाय नमः । ॐ योगिगम्याय नमः । ७० ॐ अखण्डार्थविदे नमः । ॐ क्रियास्वरूपबोधकाय नमः । ॐ सङ्ख्यातत्त्वविदे नमः । ॐ कालविभागदर्शकाय नमः । ॐ सूक्ष्मकालवेदिने नमः । ॐ कारकपदव्याख्यात्रे नमः । ॐ द्रव्यपदनिर्वाचकाय नमः । ॐ स्फोटभेदाभिधायिने नमः । ॐ शब्दगुणवक्त्रे नमः । ॐ ध्वनिभेददर्शकाय नमः । ८० ॐ कुणिदर्शनाश्रिताय नमः । ॐ विधिनिपातार्थवक्त्रे नमः । ॐ सूक्ष्मविचारशीलाय नमः । ॐ लोकवाक्यविशारदाय नमः । ॐ लोकवन्दिताय नमः । ॐ ध्यानमग्नाय नमः । ॐ प्रसन्नचित्ताय नमः । ॐ प्रसन्नवदनाय नमः । ॐ प्रसन्नवपुषे नमः । ॐ पूतान्तःकरणाय नमः । ९० ॐ कैवल्यदर्शिने नमः । ॐ सिद्धिभेददर्शिने नमः । ॐ ध्यानस्वरूपाभिधायकाय नमः । ॐ चित्तसङ्करविदूराय नमः । ॐ चित्तप्रसादनदर्शकाय नमः । ॐ योगपटलाभिधात्रे नमः । ॐ क्लेशकर्मनिवर्तकाय नमः । ॐ स्वरूपस्थिताय नमः । ॐ परमकारुणिकाय नमः । ॐ विवेकख्यातये नमः । १०० ॐ महर्षये नमः । ॐ महायोगिने नमः । ॐ मोक्षपथदर्शकाय नमः । ॐ मुमुक्षुजनवन्दिताय नमः । ॐ अमोघफलदात्रे नमः । ॐ अतजनवत्सलाय नमः । ॐ त्रिकरणशुद्धिदाय नमः । ॐ महायोगीश्वरेश्वराय नमः । १०८ ॐ श्रीपातञ्जलमिदं नाम्नामष्टोत्तरशतं तु ये । भक्त्या युक्ताः पठेयुस्ते प्राप्नुवन्ति परं पदम् ॥ ॥ इति श्रीमद्भगवत्पतञ्जल्यष्टोत्तरशतनामावलिः ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥