अक्षर आकार:

परब्रह्मस्तोत्रम्

Parabrahmastotram

परब्रह्मस्तोत्रम्

अद्य स्वस्थाय देवाय नित्याय हतपाप्मने । त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥ १॥ अनन्तनामधेयाय सर्वाकारविधायिने । समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ २॥ दिक्कालाद्यनवच्छिन्नाऽनन्त-चिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ ३॥ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ ४॥ नमो वाङ्मनसातीत-महिम्ने परमेष्ठिने । त्रिगुणाष्टगुणानन्त-गुणनिर्गुणमूर्तये ॥ ५॥ यथा तथाऽपि यः पूज्यो यत्र तत्रापि योऽर्चितः । योऽपि वासोऽपि वा योऽसौ देवस्तस्यै नमोऽस्तु ते ॥ ६॥ नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये । अव्यक्त-व्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥ ७॥ चराऽचर-जगतस्फार-स्फुरत्तामात्रधर्मिणे । दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥ ८॥ इति परब्रह्मस्तोत्रं समाप्तम् ।