अक्षर आकार:

पूर्वाचार्यवन्दना

pUrvAchAryavandanA

पूर्वाचार्यवन्दना

नमामि रामानुजपादपङ्कजं, वदामि रामानुजनाम निर्मलम् । स्मरामि रामानुजदिव्यविग्रहं करोमि रामानुजदासदासताम् ॥ १॥ रामानुजस्य पदपङ्कजमाश्रयामि रामानुजस्य करुणां मनसा दधामि । रामानुजस्य जनपादरजो वहामि रामानुजाय नम इत्यनिशं वदामि ॥ २॥ बौद्धान्धकारपरिहारदिवाकराय श्रीवैष्णवाम्बुनिधिपूर्णनिशाकराय । अद्वैतवादिकरियूथमृगाधिपाय तस्मैनमोऽस्तु सततं यतिपुङ्गवाय ॥ ३॥ लोकानुद्धर्तुकामो धृतमनुजवपुर्भूतले योऽवतीर्णो निर्जित्याशिष्य दुष्टान् कुमतिमति रां वैष्णवं कर्म तेने । ब्रह्मेशानापदि लभ्यं निखिलप्रतिपदं दत्तवांश्चाश्रितानां श्रीमान् रामानुजो यो भवभुजगमुखात् पातु नित्यं दयालुः ॥ ४॥ इति पूर्वाचार्य वन्दना ॥