अक्षर आकार:

श्रीपार्श्वनाथस्तवनम्

Shri Parshvanathastavanam

श्रीपार्श्वनाथस्तवनम्

अथ श्रीपार्श्वनाथस्तवनम् । ध्यानं ह्रीं देवं पार्श्वनाथं धरणिपतिनुतं देवदेवेन्द्रवन्द्यं ह्रीङ्कारं बीजमन्त्रं जगदकलिमलं सर्वोपद्रव्यहारी । ॐ ह्रां ह्रीं ह्रूँकारनादं अघहरति महाभक्तिरूपं जनानाम् । व्यालीढं पादपीठं कमठशठमतिं माह्वयं पार्श्वनाथम् ॥ १॥ ॐ ह्रीं अर्हं श्रीपार्श्वनाथाय अत्रावतरावतर संवौषट् स्वाहा । आह्वाननम् । ॐ ह्रीं अर्हं श्रीपार्श्वनाथाय अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा । स्थापनमन्त्रः । ॐ ह्रीं श्रीपार्श्वनायाय अत्र मम सन्निहितो भव भव वषट् स्वाहा । सन्निधापनम् । अथाष्टकम् । पूजनविधिः । ह्रींह्रींङ्कारबीजं भूरिरूपतेजं गुणाधिकराज्यं सुराधिपपूज्यम् । क्षीराब्धिसुवारिभिः काश्मीरयुक्तैर्भवकल्मषहारैर्जिनमर्चयामि ॥ ॐ ह्रीं सकलमन्त्रवीजाय ह्रींङ्काराय विश्वविध्नहरणाय ॥ जलम् ॥ १॥ हुं ह्रोङ्कारनाम्नी परं स्फोटयापं जनानां सुखदायकं विघ्नहारम् । देवरण्यश्रीखण्डकुङ्कुमयुक्तैर्वपुस्तापहारैजिनं पूजयामि ॥ गन्धम् ॥ २॥ ॐ ह्रीं देवमन्त्रं वामादेवीसुतं अखण्डं पदं निर्मितं पार्श्वनाथम् । क्षीराब्धिप्रफेनैः समं तण्डुलौघैरखण्डैरक्षतैर्गतहेमपात्रैः ॥ अक्षतम् ॥ ३॥ क्षूं हूं रक्ष रक्ष भैरवातिभीमां ह्राँ ह्रूँ ह्रः वहननस्फुटाबन्धबन्धम् । जपाजातिमोगरचम्पकपुष्पै रणद्गन्धलुब्धैर्भ्रमद्भमरवृन्दैः ॥ पुष्पम् ॥ ४॥ वमं हंसबाधं सुधाबीजमन्त्रं क्षुधावेदनिवारितं पार्श्वनाथम् । वटाखज्जकैर्मोदकैः शालिभक्तैः गतैर्हेमपात्रे बहूअन्नपाकैः ॥ नैवेद्यम् ॥ ५॥ क्ष्मां क्ष्मां बीजसारहरिद्देहवर्णं हरन्मोहध्वान्तं जिनाधिपपूज्यम् । ज्वलद्वीपघृतादिकर्पूरयुक्तैः शिखापिङ्गवर्णैर्यथावग्रनेत्रैः ॥ दीपम् ॥ ६॥ भ्रं भ्रं भ्रः प्रसूतं हतं शाकिनीनां महत्क्रूरकर्मं दहन् दग्धरूपम् । लसद्धूपधूम्रैः कृष्णागुरुधूपैः सुगन्धीकृताङ्घ्रि जिनं पूजयामि ॥ धूपम् ॥ ७॥ स्फ्रीं स्फ्रीं वसनादं जगत्पूज्यवादं हतादुष्टदुःखं गताभीष्टरूपम् । फलैर्दाडिमैर्द्राक्षकैर्मातुलिङ्गैः जिनं पूजितं श्रीफलैर्भावयुक्तैः ॥ फलम् ॥ ८॥ आपैर्गन्धैरक्षतैः पुष्पश्चारुदीपधूपैः फलैरर्घैः । काञ्चनपात्रैर्मङ्गलदानैर्दद्यादर्घ श्रीजिननाथम् ॥ इत्थं मन्त्रं नित्यं ध्यायन् तस्मिन् सिद्धिं च प्रदेयम् । वामासुतं पद्मासेव्यं भक्तिभावमर्चितं च ॥ अथ स्तोत्रम् । श्रीमद्देवेन्द्रवृन्दामलमणिमुकुटं ज्योतिषां चक्रवालै- ब्र्यालीढं पादपीठं शठकमठकृतोपद्रवाबाधितस्य । लोकालोकावभासी श्लखरुविमलज्ञानसद्दीपकं च प्रध्यस्तध्वान्तजालः स वितरतु सुखं संस्तुवे पार्श्वनाथम् ॥ १॥ ह्रां ह्रीं ह्रूँ ह्रौँ विभास्वन्मरकतमणिकाकान्तमूर्ते ! हिमं च हं सं तं बीजमन्त्रैः कृतसकलजगत्क्षेमरक्षोरुवक्षः । क्षां क्षीं क्षां क्षौं समस्तक्षितितलमहिता ज्योतिरुद्योतितार्थं क्षैं क्षां क्षौं क्षः क्षितबीजो गुरुशुभभरैः संस्तुवे पाप्नर्वनाथम् ॥ २॥ ह्रीङ्कारे रेफयुक्तं रररररररं देवसंसं प्रयुक्तं ॐ ह्रीं क्लीं क्लं(ह्रांह्रीं) समेतं विपदमदकलाकच्चकोद्भासि हुं हुम् । धुं धुं धुं धूम्रवर्णैरखिलमहिजगन्मोहिदेह्यानुकृष्टं वैषण्यन्त्रं पतन्तं त्रिजगदधिपते ! संस्तुवे पार्श्वनाथम् ॥ ३॥ आं क्रौँ ह्रीं सर्ववश्यं कुरु कुरु सरसं क्रामणं तिष्ठ तिष्ठ क्षूँ हूं हूं रक्ष रक्ष प्रबलतरमहाभैरवारातिभीमैः । ह्रां ह्रीं ह्रूं द्रावयेति द्रव हन हन फट् फट् वषट् बन्ध बन्ध स्वाहामन्त्रं पठन्तं त्रिजगदधिपते संस्तुवे पार्श्वनाथम् ॥ ४॥ हं सं झ्वीँ क्षीं सहंसः कुवलयकलितैरचिन्ताङ्गः प्रसूनै- इवीं भः हः घर्क्षहंस हरहरहहहं पक्षिपः पाक्षिकोपम् । पंवं हंसः पवम्मं सरसर सरसत्सत्सुधाबीजमन्त्रैः स्नायस्थाने परत्नैः प्रबलति विमुखं संस्तुवे पार्श्वनाथम् ॥ ५॥ क्ष्मां क्ष्मां क्ष्मूं क्षौं क्षः रेतै..aपति विनुतं रत्नदीपैः प्रदीपैः हाहाकारोग्रनादैर्ज्वलद्दहनशिखाकल्पदीर्घोर्ध्वकेशैः । पिङ्गाक्षैर्लेलिजिह्वैर्विषमविषधरालङ्कृतैस्तीक्ष्णदंष्ट्रै - र्भूतैः प्रेतैः पिशाचैरनधकृतमहोपद्रवाद्रक्षितारम् ॥ ६॥ झ्रां झ्रीं झ्रः शाकिनीनां सपदि हरपदं त्रिविंशुद्धैर्विबुद्धैः ग्लौं क्ष्मं डं दिव्यजिह्वागतिमतिकुपितं स्तम्भनं संविधेहि । फट् फट् सर्पादिरोगं ग्रहमरणभयोच्चाटनं चैव पार्श्वं त्रायस्वाशेषदोषादमरनरवरैः संस्तुवे पार्श्वनाथम् ॥ ७॥ स्फ्रां स्फ्रीं स्फ्रूं स्फ्रोँ स्फ्रः प्रबलसुफलदं मन्त्रबीजं जिनेन्द्रं रां रों रौं रूं रः प्रमह...महितं पार्श्वदेवाधिदेवम् । क्रां क्रीं क्रूं क्रौं क्रः जजजजजजरा जर्जरीकृत्य देहं धूं धूं धूं धूं धूं धुं धुं धुं ससमदुरितहं संस्तुवे पार्श्वनाथम् ॥ ८॥ इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथं सनित्यं विद्वेषोच्चाटनादिस्तभनजयवशं पापरोगापनोदि प्रोत्सर्पज्जङ्गमादिस्थविरविषमुखध्वंसनं स्वायुदीर्घै- रारोग्यैश्वर्ययुक्तो भवति यशःसुखं स्तौति तस्येष्टसिद्धिः ॥ ९॥ इति श्रीपार्श्वनाथस्तवनं सम्पूर्णम् ।