अक्षर आकार:

पार्श्वनाथसहस्रनामस्तोत्रम्

pArshvanAthasahasranAmastotram

पार्श्वनाथसहस्रनामस्तोत्रम्

श्रीकल्याणसागरसूरिकृत श्रीसरस्वत्यै नमः ॥ पार्श्वनाथो जिनः श्रीमान् स्याद्वादी पार्श्वनायकः । शिवतातिर्जनत्राता दद्यान्मे सौख्यमन्वहम् ॥ १॥ नमस्यन्ति नराः सर्वे शीर्षेण भक्तिभासुराः । पापस्तोममपाकर्तुं तं पार्श्वं नौमि सर्वदम् ॥ २॥ यथार्थवादिना येनोन्मूलिताः क्लेशपादपाः । तेनानुभूयते ऋद्धिधीमता सूक्ष्मदर्शिना ॥ ३॥ शम्भवे पार्श्वनाथाय श्रीमते परमात्मने । नमः श्रीवर्द्धमानाय विश्वव्याधिहराय वै ॥ ४॥ दर्वीकरः शुभध्यानाद्धरणेन्द्रमवाप सः । यस्मात् परमतत्त्वज्ञात् सुपार्श्वाल्लोकलोचनात् ॥ ५॥ प्रतिपूर्णं ध्रुवं ज्ञानं निरावरणमुत्तमम् । विद्यते यस्य पार्श्वस्य निखिलार्थावभासकम् ॥ ६॥ यस्मिनतीन्द्रिये सौख्यमनन्तं वर्तते खलु । स श्रद्धेयः स चाराध्यो ध्येयः सैव निरन्तरम् ॥ ७॥ सप्तविभक्तीनां श्लोकाः । तव स्तोत्रेण कुर्वे स्वां जिह्वां दोषशताकुलाम् । पूतामिदं भवारण्ये जन्तूतां जन्मनः फलम् ॥ ८॥ वरदाय नमस्तुभ्यं नमः क्षीणाष्टकर्मणे । सारदाय नमस्तुभ्यं नमोऽभीष्टार्थदायिने ॥ ९॥ शङ्कराय नमस्तुभ्यं नमो यथार्थदर्शिने । विपद्धर्त्रे नमस्तुभ्यं नमो विश्वार्त्तिहारिणे ॥ १०॥ धर्ममूर्त्ते नमस्तुभ्यं जगदानन्ददायिने । जगद्भर्त्रे नमस्तेऽपि नमः सकलदर्शिने ॥ ११॥ सर्वज्ञाय नमस्तुभ्यं नमो बन्धुरतेजसे । श्रीकराय नमस्तुभ्यमनन्तज्ञानिने नमः ॥ १२॥ नाथ ! त्वच्चरणाम्भोजसेवारसिकतत्पराः । विलसन्ति श्रियं भव्याः सदोदया महीतले ॥ १३॥ इन्द्रा अपि गुणान् वक्तुं पारं यस्य ययुर्नहि । असङ्ख्येयाननल्पाश्च क्षमस्तर्हि कथं नरः ॥ १४॥ तथापि ज्ञानमुग्धोऽहं भक्तिप्रेरितमानसः । नाम्नामष्टसहस्रेण त्वां स्तुवे सौख्यदायकम् ॥ १५॥ इति श्रीपार्श्वनाथनामावल्यां स्तुतिप्रस्तावना ॥ अथ सहस्रनामस्तोत्रम् ॥ अर्हन् क्षमाधरः स्वामी क्षान्तिमान् क्षान्तिरक्षकः । अरिञ्जयः क्षमाधारः शुभंयुरचलस्थितिः ॥ १॥ लाभकर्ता भयत्राता च्छद्मापेतो जिनोत्तमः । लक्ष्मणो निश्चलोऽजन्मा देवेन्द्रो देवसेवितः ॥ २॥ धर्मनाथो मनोज्ञाङ्गो धर्मिष्टो धर्मदेशकः । धर्मराजः परातज्ञो धर्मज्ञो धर्मतीर्थकृत् ॥ ३॥ सद्धेर्याल्पितहंसाद्रिस्तत्रभवान् नरोत्तमः । धार्मिको धर्मधौरेयो धृतिमान् धर्मनायकः ॥ ४॥ धर्मपालः क्षमासद्मा(द्म) धर्मसारथिरीश्वरः । धर्माध्यक्षो नराधीशो धर्मात्मा धर्मदायकः ॥ ५॥ धर्मवान् धर्मसेनानीरचिन्त्यो धीरधीरजः । धर्मघोषः प्रकाशात्मा धर्मी धर्मप्ररूपकः ॥ ६॥ बहुश्रुतो बहुबुद्धिर्धर्मार्थी धर्मविज्जिनः । देवः सनातनोऽसङ्गोऽनल्पकान्तिर्मनोहरः ॥ ७॥ श्रीमान् पापहरो नाथोऽनीश्वरोऽबन्धनोऽरजाः । अचिन्त्यात्माऽनघो वीरोऽपुनर्भवो भवोज्झितः ॥ ८॥ स्वयम्भूः शङ्करो भूष्णुरनुत्तरो जिनोत्तमः । वृषभः सौख्यदोऽस्वप्नोऽनन्तज्ञानी नरार्चितः ॥ ९॥ आत्मज्ञो विश्वविद् भव्योऽनन्तदर्शी जिनाधिपः । विश्वव्यापी जगत्पालो विक्रमी वीर्यवान् परः ॥ १०॥ विश्वबन्धुरमेयात्मा विश्वेश्वरो जगत्पतिः । विश्वेनो विश्वपो विद्वान् विश्वनाथो विभुः प्रभुः ॥ ११॥ अर्हत् शतम् ॥ १००॥ वीतरागः प्रशान्तारिरजरो विश्वनायकः । विश्वाद्भुतो निःसपत्नो विकाशी विश्वविश्रुतः ॥ १॥ विरक्तो विबुधैः सेव्यो वैरङ्गिको विरागवान् । प्रतीक्ष्यो विमलो धीरो विश्वेशो वीतमत्सरः ॥ २॥ विकस्वरो जनश्रेष्ठोऽरिष्टतातिः शिवङ्करः । विश्वदृश्वा सदाभावी विश्वगो विशदाशयः ॥ ३॥ विशिष्टो विश्वविख्यातो विचक्षणो विशारदः । विपक्षवर्जितोऽकामो विश्वेड् विश्वैकवत्सलः ॥ ४॥ विजयी जनताबन्धुर्विद्यादाता सदोदयः । शान्तिदः शास्रविच्छम्भुः शान्तो दान्तो जितेन्द्रियः ॥ ५॥ वर्द्धमानो गतातङ्कने विनायकोज्झितोऽक्षरः । अलक्ष्योऽभीष्टदोऽकोपोऽनन्तजित् वदतां वरः ॥ ६॥ विमुक्तो विशदोऽमूर्तो विज्ञो विशाल अक्षयः । अमूर्तात्माऽव्ययो धीमान् तत्त्वज्ञो गतकल्मुषः ॥ ७॥ शान्तात्मा शाश्वतो नित्यस्रिकालज्ञस्रिकालवित् । त्रैलोक्यपूजितोऽव्यक्तो व्यक्तवाक्यो विदां वरः ॥ ८॥ सर्वज्ञः सत्यवाक् सिद्धः सोममूर्तिः प्रकाशकृत् । सिद्धात्मा सर्वदेवेशोऽजय्योऽमेयर्द्धिरस्मरः ॥ ९॥ क्षमायुक्तः क्षमाचञ्चुः क्षमी साक्षी पुरातनः । परमात्मा परत्राता पुराणः परमद्युतिः ॥ १०॥ पवित्रः परमानन्दः पूतवाक् परमेश्वरः । पूतोऽजेयः परञ्ज्योतिरनीहो वरदोऽरहाः ॥ ११॥ वीतरागशतम् ॥ २००॥ तीर्थङ्करस्ततश्लोकस्तीर्थेशस्तीर्थमण्डनः । तत्त्वमूर्त्तिसङ्ख्येयस्तीर्थकृत् तीर्थनायकः ॥ १॥ वीतदम्भः प्रसन्नात्मा तारकस्तीर्थलोचनः । तीर्थेन्द्रस्त्वागवान् त्यागी तत्त्ववित् त्यक्तसंसूतिः ॥ २॥ तमोहर्ता जितद्वेषस्तीर्थाधीशो जगत्प्रियः । तीर्थपस्तीर्णसंसारस्तापहृत् तारलोचनः ॥ ३॥ तत्त्वात्मा ज्ञानवित् श्रेष्ठो जगन्नाथो जगद्विभुः । जगज्जैत्रो जगत्कर्ता जगज्ज्येष्ठो जगद्गुरु: ॥ ४॥ जगद्धयेयो जगद्वन्द्यो ज्योतिमा(ष्मा) ) न् जगतः पतिः ॥ ५॥ जितमोहो जितानङ्गो जितनिद्रो जितक्षयः । जितवैरो जितक्लेशो जगद्ग्रैवेयकः शिवः ॥ ६॥ जनपालो जितक्रोधो जनस्वामी जनेशिता । जगत्त्रयमनोहारी जगदानन्ददायकः ॥ ७॥ जितमानो जिताऽऽकल्पो जनेशो जगदग्रगः । जगत्बन्धुर्जगत्स्वामी जनेड् जगत्पितामहः ॥ ८॥ जिष्णुर्जयी जगद्रक्षो विश्वदर्शी जितामयः । जितलोभो जितस्नेहो जगच्चन्द्रो जगद्रविः ॥ ९॥ नृमनोजवसः शक्तो जिनेन्द्रो जनतारकः । अलङ्करिष्णुरद्वेष्यो जगत्त्रयविशेषकः ॥ १०॥ जनरक्षाकरः कर्ता जगच्चूडामणिर्वरः । ज्यायान् जितयथाजातो जाड्यापहो जगत्प्रभुः ॥ ११॥ जन्तुसौख्यकरो जन्मजरामरणवर्जितः । जन्तुसेव्यो जगद्व्याप्तो ज्वलत्तेजा अकल्कनः ॥ १२॥ जितसर्वो जनाधारस्तीर्थराट् तीर्थदेशकः । नरपूज्यो नरमान्यो लडानलघनाघनः ॥ १३॥ तीर्थशतम् ॥ ३००॥ देवदेवः स्थिरः स्थास्नुः स्थेष्टः स्थेयो दयापरः । स्थावरो दानवान् दाता दयायुक्तो दयानिधिः ॥ १॥ दमितारिर्दयाधामा दयालुर्दानतत्परः । स्थविष्टो जनताधारः स्थवीयान् देवतल्लजः ॥ २॥ स्थेयान् सूक्ष्मविचारज्ञो दुःस्थहर्ता दयाचणः । दयागर्भो दयापूतो देवार्च्यो देवसत्तमः ॥ ३॥ दीप्तो दानप्रदो दिव्यो दुन्दुभिध्वनिरुत्तमः । दिव्यभाषापतिश्चारुर्दमी देवमतल्लिकः ॥ ४॥ दान्तात्मा देवसेव्योऽपि दिव्यमूर्तिर्दयाध्वजः । दक्षो दयाकरः कम्रो दानाल्पितसुरद्रुमः ॥ ५॥ दुःखहरो दयाचञ्चुर्दलितोत्कटकल्मुषः । दृढधर्मा दृढाचारो दृढव्रतो दमेश्वरः ॥ ६॥ दृढशीलो दृढपुण्यो दृ(द्र) ढीयत् दमितेन्द्रियः दृढक्रियो दृढधैर्यो दाक्षिण्यो दृढसंयमः ॥ ७॥ देवप्रष्टो दयाश्रेष्ठो व्यतीताशेषबन्धनः । शरण्यो दानशौण्डीरो दारिद्र्यच्छेदकः सुधीः ॥ ८॥ दयाध्यक्षो दुराधर्षो धर्मदायकतत्परः । धन्यः पुण्यमयः कान्तो धर्माधिकरणी सहः ॥ ९॥ निःकलङ्को निराधारो निर्मलो निर्मलाशयः । निरामयो निरातङ्गो निर्जरो निर्जरार्चितः ॥ १०॥ निराशंसो निराकाङ्क्षो निर्विघ्नो भीतिवर्जितः । निरामो निर्ममः सौम्यो निरञ्जनो निरुत्तरः ॥ ११॥ निर्ग्रन्थो निःक्रियः सत्यो निस्सङ्गो निर्भयोऽचलः । निर्विकल्पो निरस्तांहो निराबाधो निराश्रवः ॥ १२॥ देवशतम् ॥ ४००॥ आत्मभूः शम्भवो विष्णुः केशवः स्थविरोऽच्युतः । परमेष्ठी विधिर्धाता श्रीपतिर्नागल(ला) च्छनः ॥ १॥ शतधृतिः शतानन्दः श्रीवत्सोऽधोक्षजो हरिः । विश्वम्भरो हरिस्वामी सर्पेशो विष्टरश्रवाः ॥ २॥ सुरज्येष्ठश्चतुर्वक्त्रो गोविन्दः पुरुषोत्तमः । अष्टकर्णश्चतुरास्यश्चतुर्भुजः स्वभूः कविः ॥ ३॥ सात्त्विकः कमनो वेधास्रिविक्रमो कुमोदकः । लक्ष्मीवान् श्रीधरः स्रष्टा लब्धवर्णः प्रजापतिः ॥ ४॥ ध्रुवः सूरिरविज्ञेयः कारुण्योऽमितशासनः । दोषज्ञः कुशलोऽभिज्ञः सुकृती मित्रवत्सलः ॥ ५॥ प्रवीणो निपुणो बुद्धो विदग्धः प्रतिभान्वितः । जनानन्दकरः श्रान्तः प्राज्ञो वैज्ञानिकः पटुः ॥ ६॥ धर्मचक्री कृती व्यक्तो हृदयालुर्वदावदः । वाचोयुक्तिपटुर्वक्ता वागीशः पूतशासनः ॥ ७॥ वेदिता परमः पूज्यः परब्रह्मप्रदेशकः । प्रशमात्मा परादित्यः प्रशान्तः प्रशमाकरः ॥ ८॥ धनीश्वरो यथाकामी स्फारधीर्निरवग्रहः । स्वतन्त्रः स्फारश‍ृङ्गारः पद्मेशः स्फारभूषणः ॥ ९॥ स्फारनेत्रः सदातृप्तः स्फारमूर्तिः प्रियंवदः । आत्मदर्शी सदावन्द्यो बलिष्टो बोधिदायकः ॥ १०॥ बुद्धात्मा भाग्यसंयुक्तो भयोज्झितो भवान्तकः । भूतनाथो भयातीतो बोधिदो भवपारगः ॥ ११॥ आत्मशतम् ॥ ५००॥ महादेवो महासाधुर्महान् भुनीन्द्रसेवितः । महाकीर्तिर्महाशक्तिमहावीर्यो महायतिः ॥ १॥ महाव्रतो महाराजो महामित्रो महामतिः । महेश्वरो महाभिक्षुर्मुनीन्द्रो भाग्यभाक् शमी ॥ २॥ महाधृतिर्महाकान्तिर्महातपा महाप्रभुः । महागुणो महाश्लीलो महाजिनो महापतिः ॥ ३॥ महामहा महाश्लोको महाबुद्धिर्महोदयः । महानन्दो महाधीरो महानाथो महाबलः ॥ ४॥ महावीरो महाधर्मा महानेता महायशाः । महासूनुर्महास्वामी महेशः परमोदयः ॥ ५॥ महाक्षमो महाभाग्यो महोदर्को महाशयः । महाप्राज्ञो महाचेता महाप्रभो महेशिता ॥ ६॥ महासत्त्वो महाशते महाशास्रो महर्द्धिकः । महाबोधिर्महाधीशो महामिश्रो महाक्रियः ॥ ७॥ महाबन्दुर्महायोगी महात्मा महसाम्पतिः । महालब्धिर्महापुण्यो महावाक्यो महाद्युतिः ॥ ८॥ महालक्ष्यीर्महाचारो महाज्द्योतिर्महाश्रुतः । महामना महामूर्त्तिर्महेभ्यः सुन्दरो वशी ॥ ९॥ महाशीलो महाविद्यो महाप्तो हि महाविभुः । महाज्ञानो महाध्यानो महोद्यमो महोत्तमः ॥ १०॥ महासौख्यो महाध्येयो महागतिर्महानरः । महातोषो महाधैर्यो महेन्द्रो महिमालयः ॥ ११॥ महासुहृन्महासख्यो महातनुर्महाधिभूः । योगात्मा योगवित् योगी शास्ता यमी यमान्तकृत् ॥ १२॥ महाशतम् ॥ ६००॥ हर्षदः पुण्यदस्तुष्टः सन्तोषी सुमतिः पतिः । सहिष्णुः पुष्ट(ष्टि) दः पुष्टः सर्वंसहः सदाभवः ॥ १॥ सर्वकारणिकः शिष्टो लग्नकः सारदोऽमलः । हतकर्मा हतव्याधिर्हतात्तिर्हतदुर्गतिः ॥ २॥ पुण्यवान् मित्रयुर्मेध्यः प्रतिभूर्धर्ममन्दिरः । यशस्वी सुभगः शुभ्रस्त्रिगुप्तो हतदुर्भगः ॥ ३॥ हृषीकेशोऽप्रतर्क्यात्माऽनन्तदृष्टिरतीन्द्रियः । शिवतातिरचिन्त्यर्द्धिरलेपो मोक्षदायकः ॥ ४॥ हतदुःखो हतानङ्गो हतक्लेशकदम्बकः। संयमी सुखरोऽद्विष्टः पराद्धर्यो हतपातकः ॥ ५॥ शेभुखीशः सुप्रसन्नः क्षेमङ्करो दयालयः । स्तवनार्हो विरागार्हस्तपस्वी हर्षसंयुतः ॥ ६॥ अचलात्माऽखिलज्योतिः शान्तिमानरिमर्दनः । अरिघ्नोऽपुनरावृत्तिररिहर्ताऽरिभञ्जकः ॥ ७॥ अरोषणोऽप्रमेयात्माऽध्यात्मगम्यो यतीश्वरः । अनाधारो यमोपेतः प्रभास्वरः स्वयम्प्रभः ॥ ८॥ अर्चितो रतिमानाप्तो रमाकरो रमाप्रदः । अनीर्ष्यालुरशोकोऽग्र्योऽवद्यभिन्नविश्वरः ॥ ९॥ अनिघ्नोऽकिञ्चनः स्तुत्यः सज्जनोपासितक्रमः । अव्याबाधः प्रभूतात्मा पारगतः स्तुतीश्वरः ॥ १०॥ योगिनाथः सदामोदः सदाध्येयोऽभिवादकः । सदामिश्रः सदाहर्षः सदासौख्यः सदाशिवः ॥ ११॥ हर्षशतम् ॥ ७००॥ ज्ञानगर्भो गणश्रेष्ठो ज्ञानयुक्तो गुणाकरः । ज्ञानचञ्चुर्गतस्तेशो गुणवान् गुणसागरः ॥ १॥ ज्ञानदो ज्ञानविख्यातो ज्ञानात्मा गूढगोचरः । ज्ञानसिद्धिकरो ज्ञानी ज्ञानज्ञो ज्ञाननायकः ॥ २॥ ज्ञानाऽमित्रहरो गोप्ता गूढात्मा ज्ञानभूषितः । ज्ञानतत्त्वो गुणग्रामो गतशत्रुर्गतातुरः ॥ ३॥ ज्ञानोत्तमो गताशङ्को गम्भीरो गुणमन्दिरः । ज्ञातज्ञेयो गदापेतो ज्ञानत्रितयसाधकः ॥ ४॥ ज्ञानाब्धिः गीर्पतिः स्वस्थो ज्ञानभाक् ज्ञानसर्वगः । ज्ञातगोत्रो गतशोच्यः सद्गुणरत्नरोहणः ॥ ५॥ ज्ञानोत्कृष्टो गतद्वेषो गरिष्ठगीः गिरां पतिः । गणाग्रणीर्गुणज्येष्ठो गरीयान् गुणमनोहरः ॥ ६॥ गुणज्ञो ज्ञातवृत्तान्तो गुरुर्ज्ञानप्रकाशकः । विश्वचञ्चुर्गताकल्पो गरिष्ठो गुणपेटकः ॥ ७॥ गम्भीरधीर्गुणाधारो गुणखानिर्गुणालयः । ज्ञाताभिधो गताकाङ्क्षो ज्ञानपतिर्गतस्तुहः ॥ ८॥ गुणी ज्ञातरहःकर्मा क्षेमी ज्ञानविचक्षणः । गणेशो ज्ञातसिद्धान्तो गतकष्टो गभीरवाक् ॥ ९॥ गतगत्यागतिर्गुण्यो गीर्वाणवाक् पुरोगमः । गीर्वाणेन्द्रो गतग्लास्नुर्गतमोहो दरोज्झितः ॥ १०॥ गीर्वाणपूजितो वन्द्योऽन(नि) न्द्यो गीर्वाणसेवितः । स्वेदज्ञो गतसंसारो गीर्वाणराट् पुरःसरः ॥ ११॥ घातिकर्मविनिर्मुक्तो खेदहर्ता घनध्वनिः । घनयोगो घनज्ञानो घनदो घनरागहृत् ॥ १२॥ उत्तमात्मा गताबाधो घनबोधसमन्वितः । घनधर्मा घनश्रेयो गीर्वाणेन्द्रशिरोमणिः ॥ १३॥ ज्ञानशतम् ॥ ८००॥ ऐश्वर्यमण्डितः कृष्णो मुमुक्षुर्लोकनायकः । लोकेशः पुण्डरीकाक्षो लोकेड् लोकपुरन्दरः ॥ १॥ लोकार्को लोकराट् सार्वो लोकेशो लोकवल्लभः । लोकज्ञो लोकमन्दारो लोकेन्द्रो लोककुञ्जरः ॥ २॥ लोकार्च्यो लोकशौण्डीरो लोकविल्लोकसंस्तुतः । लोकेनो लोकधौरेयो लोकाग्र्यो लोकरक्षकः ॥ ३॥ लोकानन्दप्रदः स्थाणुः श्रमणो लोकपालकः । ऐश्वर्यशोभितो बभ्रुः श्रीकण्ठो लोकपूजितः ॥ ४॥ अमृतात्मोत्तमाध्यान ईशानो लोकसेवितः । ऐश्वर्यकारको लोकविख्यातो लोकधारकः ॥ ५॥ मृत्युञ्जयो नरध्येयो लोकबन्धुर्नरेशिता । लोकचन्द्रो नराधारो लोकचक्षुरनीश्वरः ॥ ६॥ लोकप्रेष्ठो नरव्याप्तो लोकसिंहो नराधिभूः । लोकनागो नरख्यातो लोभभिल्लोकवत्सलः ॥ ७॥ वामदेवो नरज्यायान् लोकभर्ता नराग्रगः । लोकविभुर्नरदृश्वा लोकपो लोकभास्करः ॥ ८॥ लोकदर्शी नरज्येष्ठो लोकवन्द्यो नराधिपः । लोकशास्ता नरव्याधिहर्ता लोकविभावकः ॥ ९॥ सुमेधा लोकबर्हिष्टः सत्याशीर्लोकवन्दितः । ऋद्धिकर्ता नरस्वामी ऋद्धिमान् लोकदेशकः ॥ १०॥ प्रमाणं प्रणवः काम्य इ(ई) शितोत्तमसंवरः । इभ्य उत्तमसंवेग इन उत्तमपूरुषः ॥ ११॥ स्तुत्द्या(त्य) र्ह उत्तमासेव्योऽदभ्रतेजा अहीश्वरः । उत्तमाख्यः सुगुप्तात्मा मन्ता तज्ञः परिवृढः ॥ १२॥ लोलुपध्नो निरस्तैनाः सुव्रतो व्रतपालकः । अश्वसेनकुलाधारो नीलवर्णविराजितः ॥ १३॥ ऐश्वर्यशतम् ॥ ९००॥ कल्याणभाग् भुनिश्रेष्ठश्चतुर्धा मर्त्यसेवितः । काम्यदः कर्मशत्रुघ्नः कल्याणात्मा कलाधरः ॥ १॥ कर्मठः केवली कर्मकाष्टाग्निः करुणापरः । चक्षुष्यश्चतुरः कर्ममुक्तः कल्याणमन्दिरः ॥ २॥ क्रियादक्ष क्रियानिष्ठः क्रियावान् कामितप्रदः । कृपाचणः कृपाचञ्चुः कीर्तिदः कपटोज्झितः ॥ ३॥ चन्द्रप्रभः छलोच्छेदी चन्द्रोपासितपत्कजः । क्रियापरः कृपागारः कृपालुः केशदुर्गतः ॥ ४॥ कारणं भद्रकूपारः कलावित् कुमतान्तकृत् । मद्रपूर्णः कृतान्तज्ञः कृतकृत्यः कृपापरः ॥ ५॥ कृतज्ञः कमलादाता कृतान्तार्थप्ररूपकः । भद्रमूर्तिः कृपासिन्धुः कामघटः कृतक्रियः ॥ ६॥ कामहा शोचनातीतः कृतार्थः कमलाकरः । चारुमूर्तिश्चिदानन्दश्चिन्तामणिश्चिरन्तनः ॥ ७॥ चिदानन्दमयश्चिन्तावर्जितो लोभतर्जितः । कर्महा बन्धमोक्षज्ञः कृपावान् कान्तिकारकः ॥ ८॥ कजनेत्रो नरत्राता कृतपुण्यः कृतान्तवित् । लोकाग्रणीवि(र्वि) रोधघ्नः कीर्तिमान् खगसेवितः ॥ ९॥ अयाचितो महोत्साहश्चिदूपश्चिन्मयो वृतिः । भद्रयुक्तः स्वयम्बुद्धोऽनल्पबुद्धिर्दमेशिता ॥ १०॥ विश्वकर्मा कलादक्षः कल्पवृक्षः कलानिधिः । लोभतिरस्कृतः सूक्ष्मो लोभहृत् कृतलक्षणः ॥ ११॥ लोकोत्तमो जनाधीशो लोकधाता कृपालयः । सूक्ष्मदर्श्येन्दुनीलाभो लोकावतंसकः क्षमः ॥ १२॥ शिष्टेष्टोऽप्रतिभः शान्तिश्छत्रत्रयविभूषितः । चामीकरासनारूढः श्रीशः कल्याणशासनः ॥ १३॥ कर्मण्योऽत्रभवान् भद्रः शान्तिकरः प्रजाहितः । भव्यमानवकोटीरो मुक्तिजानिः श्रियान्निधिः ॥ १४॥ कल्याणशतम् ॥ १०००॥ छ ॥ अमूनि तव नामानि पठन्ति ये नरोत्तमाः । भवेयुः सम्पदस्तेषां सिद्धयश्चापि मञ्जुलाः ॥ १॥ स्वामिन् ! जिहवासहस्रोऽपि वञ्चु शक्तो न ते गुणान् । सहस्राक्षो न ते रूपश्रियं निरीक्षितुं क्षमः ॥ २॥ त्वच्चेतसि प्रवर्तेऽहमित्युदन्तो हि दुर्लभः । मच्चित्ते विद्यसे त्वं चेत् देवेनान्येन पूर्यताम् ॥ ३॥ हर्षबाष्पजलैर्भव्यैर्मन्नेत्रे त्वन्मुखाश्रिते । अन्यप्रेक्षणसम्भूतं क्षालय(ये) तां मलं निजम् ॥ ४॥ त्वद्वक्त्रसङ्गिनी नेत्रे त्वत्परीष्टिकरौ करौ । त्वद्गुणग्राहके श्रोत्रे भूयास्तां मे मुदा सदा ॥ ५॥ ऋद्धित्वं हि प्रभुत्वं वा मनोवाच्छितमन्वहम् । सौभाग्यत्वं नृपत्वं वै लभेरन् तव भक्तितः ॥ ६॥ त्वमसि नाथ! भवार्णवनाविकस्त्वमसि सौख्यकदम्बककारकः । त्वमसि सिद्धिवधूस्तननायकस्त्वमसि सप्तनयार्थविचक्षणः ॥ ७॥ त्वमसि दुःखनिवारणतत्परस्त्वमसि मुक्तिवशारतिहर्षितः । त्वमसि भव्यकुशेशयभास्करस्त्वमसि देवनराधिपसेवितः ॥ ८॥ त्वमसि मोहमतङ्गजकेशरी त्वमसि नाथ! जगज्जनवत्सलः । त्वमसि दुःकृतमन्मथशङ्करस्त्वमसि कोपशिलोच्चयमुद्गरः ॥ ९॥ भृत्योऽस्मि तव दासोऽहं विनयी तेऽस्मि किङ्करः । नाथ! त्वच्चरणाधारो लभे शं भवदाश्रितः ॥ १०॥ जयन्तु ते श्रीगुरुधर्ममूर्तयो गणाधिराजा मुनिसङ्घपालकाः । अनेकवादीश्वरवादसिन्दुराभिमानपञ्चास्यनिभाः क्रियापराः ॥ ११॥ श्रीधर्ममृर्तिसूरीशाः सूरिश्रेणिवतंसकाः । कल्याणवपुषो नूनं चिरं नन्दन्तु सत्तमाः ॥ १२॥ तदंह्रिकजरोलम्बः शिष्यः कल्याणसागरः । चकार पार्श्वनाथस्य नामावलीमभीष्टदाम् ॥ १३॥ पुण्यरूपमिदं स्तोत्रं नित्यमध्येति भाक्तिकः । तस्य धाम्नि महालक्ष्यीरेधते सौख्यदायका ॥ १४॥ इति श्रीपार्श्वनाथनामान्यष्टोत्तरसहस्रमितानि समाप्तान्यजनिषत ॥ श्रीविधिपक्षगच्छाधिराज श्रीधर्ममूर्तिसूरीश्वरपत्कजभ्रमरायमानेन श्रीकल्याणसागरसूरिणा श्रीपार्श्वनाथनामानि श्रीमन्मार्तण्डपुरे कृतानि लिखितानि च ॥ निजकर्मक्षयार्थम् ॥ कौशीद्यं विहाय च सम्पूर्णानि पाठितानीति ॥ छ ॥