अक्षर आकार:

श्रीपार्श्वनाथजयमाला

Shri Parshvanathajayamala

श्रीपार्श्वनाथजयमाला

अथ श्रीपार्श्वनाथ जयमाला । वन्दे तं जिनपार्श्वनाथमनघं ! रत्नत्रयालङ्कृतं ह्रीं बीजं मतिदुःखदावशमनं घोरोपसर्गापहम् । देवेन्द्राधिपतिं खगाधिपनतं वन्ध्यापिनारीसुतं पद्मिनीसतिशासनं भयहरं नागेन्द्रसेवान्वितम् ॥ १॥ अमरनाथगणाधिपवन्द्यं मुनिजनआर्यासेवितपादम् । भक्तिनम्रभवसागरपोतं वाक्यामृतरसपोषितभूतम् ॥ २॥ कृतोपसर्गं कमठैर्रिष्ठं जितवारातिभवान्तरश्रेष्ठम् । कुण्डलकुण्डलिनीकृतछत्रं वारितमेघाडम्बरशस्त्रम् ॥ ३॥ कर्मपर्वतहतासमवज्रं भयतमवारणसूर्यसुसज्जं केवलज्ञानविलोकनदक्षं बोधितलोकालोकविपक्षम् ॥ ४॥ राजितसमवसरणसुनिधानं चामरछत्रसिंहासनभानम् । सुरासुरखेचरतिष्ठति सौख्यं द्वादशभासाहितसन्मुख्यम् ॥ ५॥ धर्मप्रकाशितलक्षणसहितं मूलदयानिधिपापविरहितम् । जन्तूत्तारणसमरथसूरं भव्यकमलवाक्यामृतपूरम् ॥ ६॥ देवी पद्मावति वामे विशालं रक्षतु शासनमुखद्रुमजालम् । दक्षिणदिशि सोहै फणिराजं विध्ननिवारणदेवविराजम् ॥ ७॥ ईदृग् विधि पार्श्वजिनं प्रणम्यं अनन्तचतुष्टयगम्यागम्यम् । ये नरनारि त्रिकालं पूजन्ति ते मन वछित सफल लहन्ति ॥ ८॥ नाग नागिणी अतिशय धारी उधर्या दम्पती जनसुखकारी । क्रधोरघनदुःखनिवारी वञ्च्छितफल अतिदायक भारी ॥ ९॥ धत्ता (मालिनीं ! ) आपद्विविधहारी सम्पदासौख्यकारी त्रिभुवनपदधारी सिद्धिलोकाग्रसूरी । जलबहुविधपूरैर्गन्धमाल्यादिसारै- जिनवरमुखबिम्बं पूजितं भावभकया ॥ ९॥ ॐ ह्रीं क्रौँ महार्थम् ॥ इति श्रीपार्श्वनाथ जयमाला सम्पूर्णा ।