अक्षर आकार:

शिवोक्तं पादुकापञ्चकं

pAdukApa~nchakaM

शिवोक्तं पादुकापञ्चकं

ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् । कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे ॥ १॥ तस्य कन्दलितकर्णिकापुटे कॢप्तरेखमकथादिरेखया । कोणलक्षितहलक्षमण्डली- भावलक्ष्यमवलालयं भजे ॥ २॥ तत्पुटे पटुतडित्कडारिम- स्पर्द्धमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मयं वपु- र्नादबिन्दुमणिपीठमण्डलम् ॥ ३॥ ऊर्ध्वमस्य हुतभुक्शिखात्रयं तद्विलासपरिवृंहणास्पदम् । विश्वघस्मरमहोच्चिदोत्कटं व्यामृशामि युगमादिहंसयोः ॥ ४॥ तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥ ५॥ निसक्तमणिपादुकानियमिताघकोलाहलं स्फुरत्किसलयारुणं नखसमुल्लसच्चन्द्रकम् । परामृतसरोवरोदितसरोजसद्रोचिषं भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् ॥ ६॥ पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् । षडाम्नायफलप्राप्तं प्रपञ्चे चातिदुर्लभम् ॥ ७॥ इति शिवप्रोक्तं पादुकापञ्चकं सम्पूर्णम् ॥ ॥ ॐ तत् सत् ॥