अक्षर आकार:

पादावलम्बनस्तुतिः

Padavalambanastutih

पादावलम्बनस्तुतिः

स्थितेऽनुकम्पामकरन्दपूर्णे जगद्गुरोः पादसहस्रपत्रे । किमन्यतो धावसि चित्तभृङ्ग प्रयाहि तत्रैव रमस्व नित्यम् ॥ १॥ योगिवर्य यमिराजनताङ्घ्रे भोगिराजनवनीयचरित्र । रागिभिन्नमनुजाप्यपदाब्ज देशिकेन्द्र मम देह्यवलम्बम् ॥ २॥ यद्वचोमधुरिमापजितेमं लोकमेव विससर्ज सुधाऽपि । पादपद्मनतमुक्तिद स त्वं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥ दातृभावमवगम्य महान्तं कर्ण आप जनकर्णपथं ते । दारिताखिलदरिद्रजनार्ते देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥ शान्तिदान्तिविरतीरपवर्ग- प्रापिकाः सुदृढमाशु वितीर्य । जन्ममृत्युभयरोगयुतस्य देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ४॥ दर्शनात्किल दुरध्वगमर्त्याः यस्य जातु बहवः कृतकृत्याः । सूक्तितस्तु किमु वाच्यमयं त्वं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ५॥ भस्मदानपरिपूरितनम्रा- काङ्क्षितार्थ परमात्मविदग्र्य । विस्मयावहतुरीयकयात्र देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ६॥ ईहितं वितर सच्चितिसंज्ञ मोहितस्य जगदीश्वरशक्त्या । को हितं मम तनोति विना त्वां देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ७॥ शङ्करार्यकृतसर्वनिबन्ध- प्रोक्तिपाटवमतीव वितीर्य । अश्रुतेऽपि परिभाषणदाक्ष्यं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ८॥ व्यासजैमिनिकणादपदाक्षैः पाणिनिप्रभृतिभिर्मुनिवर्यैः । प्रोक्तशास्त्रपरिपक्वमनीषां देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ९॥ मारमत्तगजचण्डमृगेन्द्र दारबन्धुममतागकुठार । तारयाशु भववारिनिधेर्मां देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ १०॥ पादधूलिपरिपावितलोक भेदवादवनदावकृशानो । मोदमान परमात्मनि नित्यं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ११॥ ब्राह्मणत्वमतिदुर्लभमाप्तं ह्याश्रमश्च समवापि तुरीयः । नास्ति रागरहितत्वमपीषत् देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ १२॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीपादावलम्बनस्तुतिः समाप्ता ।