अक्षर आकार:

श्रीनित्यानन्दद्वादशनामस्तोत्रम्

Shri Nityananda Dvadashanama Stotram

श्रीनित्यानन्दद्वादशनामस्तोत्रम्

नित्यानन्दोऽवधूतेन्दुर्वसुधाप्राणवल्लभः । जाह्नवीजीवितपतिः कृष्णप्रेमप्रदः प्रभुः ॥ १॥ पद्मावतीसुतः श्रीमान् शचीनन्दनपूर्वजः । भावोन्मत्तो जगत्त्राता रक्तगौरकलेवरः ॥ २॥ श्रीनित्यानन्दचन्द्रस्य नामद्वादशकं शुभम् । य इदं प्रत्यहं प्रातः प्रत्युत्थाय पठेन्नरः ॥ ३॥ स क्लेशरहितो भूत्वा प्राप्नुयात्स्वमनोरथम् । तूर्णं चैतन्यदेवस्य करुणाभाजनं भवेत् ॥ ४॥ इति सार्वभौम भट्टाचार्यविरचितं श्रीनित्यानन्दद्वादशनामस्तोत्रं सम्पूर्णम् ।