अक्षर आकार:

नित्यानन्दाष्टकम्

Hymn to Nitai or Nityananda

नित्यानन्दाष्टकम्

शरच्चन्द्रभ्रान्तिं स्फुरदमलकान्तिं गजगतिं हरिप्रेमोन्मत्तं धृतपरमसत्त्वं स्मितमुखम् । सदाघूर्णन्नेत्रं करकलितवेत्रं कलिभिदं भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ १॥ रसानामागारं स्वजनगणसर्वस्वमतुलं तदीयैकप्राणप्रमितवसुधाजाह्नवपतिम् । सदाप्रेमोन्मादं परमविदितं मन्दमनसां भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ २॥ शचीसूनुप्रेष्ठं निखिलजगदिष्टं सुखमयं कलौ मज्जज्जिवोद्धरणकरणोद्दामकरुणम् । हरेराख्यानाद्वा भवजलधिगर्वोन्नतिहरं भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ३॥ अये भ्रातर्नॄणां कलिकलुषिणां किं नु भविता तथा प्रायश्चित्तं रचय यदनायासत इमे । व्रजन्ति त्वामित्थं सह भगवता मन्त्रयति यो भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ४॥ यथेष्ठं रे भ्रातः कुरु हरिहरिध्वानमनिशं ततो वः संसाराम्बुधितरणदायो मयि लगेत् । इदं बाहुस्फोटैरटति रटयन् यः प्रतिगृहं भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ५॥ बलात् संसाराम्भोनिधिहरणकुम्भोद्भवमहो सतां श्रेयःसिन्धून्नतिकुमुदबन्धुं समुदितं । खलश्रेणीस्फूर्जित्तिमिरहरसूर्यप्रभमहं भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ६॥ नटन्तं गायन्तं हरिमनुवदन्तं पथि पथि व्रजन्तं पश्यन्तं स्वमपि न दयन्तं जनगणम् । प्रकुर्वन्तं सन्तं सकरुणदृगन्तं प्रकलनाद्- भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ७॥ सुबिभ्राणं भ्रातुः करसरसिजं कोमलतरं मिथो वक्त्रालोकोच्छलितपरमानन्दहृदयम् । भ्रमन्तं माधुर्यैरहह मदयन्तं पुरजनान् भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ८॥ रसानामाधारं रसिकवरसद्वैष्णवधनं रसागारं सारं पतितततितारं स्मरणतः । परं नित्यानन्दाष्टकमिदमपूर्वं पठति यः तदङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरां तस्य हृदये ॥ ९॥ इति वृन्दावनदासठाकूरविरचितं नित्यानन्दाष्टकं सम्पूर्णम् । Nityananda He Who embodies eternal bliss