अक्षर आकार:

नवरत्नमालिकामञ्जूषा अथवा नाथनवरत्नमालिका

Natha Navaratnamalika Manjusha

नवरत्नमालिकामञ्जूषा अथवा नाथनवरत्नमालिका

श्रीगणेशाय नमः श्रीमहेशनाथकृता श्रीनाथनवरत्नमालिका श्रीभासुरानन्दनाथविरचितया मञ्जूषाख्यया व्याख्यया संवलिता श्रीनाथादित्रितयं नत्वा गम्भीररायसूरिसुतः । नाथनवरत्नमालागूढार्थव्यावृतिं तनुते॥ इह खलु निखिलोपासनाः गुरुप्रसादलभ्याः, ``गुरुमूलाः क्रियाः सर्वाः '' इति वचनात् । तत्प्रसादश्च तत्स्वरूपोपास्तिमन्तरा दुर्लभः । तद्रूपं तु त्रिविधम् - स्थूलं, सूक्ष्मं, परं चेति । तेषु आद्यं, ``सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम्'' इत्यादिना करणचरणाद्यवयववैशिष्ट्येणोक्तं प्रसिद्धम् । द्वितीयं तु गुरुपादुकामन्त्ररूपम् । तृतीयं वासनात्मकम् । तच्च रहस्यत्वात् सङ्केतभाषयोपासकानुजिधृक्षया विवृणोति- हंसः सोऽहं मन्त्रमयैः श्वासनिकायै- र्या गायत्री जन्तुषु सर्वेषु पिनद्धा । सन्नाविरभूद्वासनया य- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ १॥ हंस इति । प्राथमिकसृष्टौ यद्बिन्दुत्रयं प्रादुरभूत् । तत्र बिन्दुः पुमान्; विसर्गः प्रकृतिः; ताभ्यां क्रमेण स्वस्य विशिष्टौ हकारसकारावुत्पन्नौ । सोऽहं हंसः, स त्वजपानामको मन्त्रः । तस्यैव वैपरीत्यकथनेन सोऽहमितिपरमात्ममन्त्नः; परमात्मनि योगे तु, ``पराप्रासादमन्त्रः'' इत्यादिशारदायां चरमपटलेऽन्यत्र चोक्तम् । तदिदं परस्परभिन्नमन्त्रपञ्चकमुच्छ्वासनिश्वासरूपम् । ``उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् ।'' इति वचनात् । स च मन्त्रः सर्वैः प्राणिभिः अहोरात्रसंमिते काले षट्शताधिकैकविंशतिसहस्र(२१६००)मावर्त्यते । सोऽयमनायासेन जपः । तथात्वेन ज्ञानमात्रेण मोक्षप्रदत्वात्सर्वमन्त्रोत्तमः । तदुक्तम्- ``हंसः पदं परेशानि प्रत्यहं जपते नरः । मोहान्धो यो न जानाति मोक्षस्तस्य न विद्यते॥ श्रीगुरोः कृपया देवि ज्ञायते जप्यते ततः । तस्माच्छ्वासैश्च निःश्वासैस्तदा बन्धक्षयो भवेत्॥ अजपा नाम गायत्री योगिनां मोक्षदायिनी । तस्या विज्ञानमात्रेण नरः पापैः प्रमुच्यते॥ अनया सदृशी विद्या चानया सदृशो जपः । अनया सदृशं पुण्यं न भूतं न भविष्यति ॥'' इति च तदुपासनेतिकर्तव्यता शारदायां चतुर्दशे पटले, अन्यत्र च विस्तृतेति नेहोच्यते । गुरुदेवतामन्त्राणामैक्यं च, ते सर्वे श्वासाः नाथरूपा एव । अक्षरार्थस्तु - हंस इत्यजपामन्त्रादिरूपश्वाससमूहाभिन्ना या गायत्री सर्वप्राणिष्वाच्छन्ना वर्तते, तदभिन्नः सन् वासनात्मकरूपेण यः प्रादुर्भूतः, तं गुरुं नौमीति । स एव च गुरुः, सतां मार्गः, मुक्तिपुरगमनोपायः ; ''गुरुरुपायः'' इति शिवसूत्रात् । आनन्दमन्त्रो हि मयूरः स्वपिञ्च्छावयवान् प्रसार्य नृत्यकाले यथा विचित्ररूपो दृश्यते, तेन तथा कालान्तरे, अतः तस्य तद्रूपमाच्छन्नम् । एवं गुरोरपि वक्ष्यमाणं विचित्ररूपमाच्छन्नमस्तीति गौण्या मत्तमयूरपदेन गुरुः स्तूयते । अस्मिन् स्तोत्रे दशापि श्लोकाः मत्तमयूराभिधवृत्तरूपाः । तल्लक्षणं चोक्तं पिङ्गलमुनिना - ``मत्तमयूरं म्तौ य्सौ ग्समुद्ग(४) नवकौ'' इति । मतयसगणाः गुरुश्च, प्रतिपदं चतुर्भिर्नवभिश्च यतिरिति तदर्थः । प्रकृतेऽप्युक्तैरेव पदैः सूच्यार्थकथनादिह मुद्रालङ्कारः । तल्लक्षणं चोक्तं चन्द्रालोके- ``सूच्यार्थसूचकं मुद्रा प्रकृतार्थपदै: पदैः । नितम्बगुर्वी तरुणी दृग्युग्मविपुलालसा ॥'' इति । सङ्केतरीत्या अनुक्तश्वाससङ्ख्याया अपि पदद्वयेन सूचनात् स एवालङ्कारः । तत्प्रकारस्तु - ``क-ट-प-य-वर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्का । नञ्शून्यं विज्ञेयं तथा स्वरे केवले कथिते ॥'' इति श्लोकरीत्या मकारः पञ्चसङ्ख्याङ्के ; तकारः षष्ठाङ्के ; पुनर्मकारः पञ्चाङ्के, यकाररेफगकाराः एकद्वित्र्यङ्केषु सङ्केतिताः । तथा, ``अङ्कानां वामतो गतिः'' इत्युक्तरीत्या लेखने कृते सति, म ५, त्त ६, म ५, यू १, रे २, पदेन एकविंशतिसहस्राणि पञ्चशतानि पञ्चषष्टिश्च कथितानि भवन्ति । सन्; विद्यमानो मार्गः (३५) यस्मिन्निति व्युत्पत्या मार्गशब्दोक्तपञ्चत्रिंशत्सङ्ख्यया अस्या मेलनेन षट्शताधिकैकविंशतिसहस्रसङ्ख्यानिष्पत्ति-(२१६००)रिति । एवमग्रेऽपि सङ्केतोऽवगन्तव्यः ॥ १॥ तन्त्रराजे हि सप्तविंशे पटले श्वासानां वासनाद्वयमुक्तम् ``सङ्ख्याभिर्वासनाव्याप्तिं श्वासानां श‍ृणु सुन्दरि । यया विदितया मन्त्री सदा दर्शनवान्भवेत् ॥'' इत्यादिना । तयो: प्रथमां वासनामुद्यदित्यादिभिः चतुर्भिः श्लोकैः प्रदर्शयति - उद्यद्भास्वन्मण्डलकालाद्दिननित्या- विद्यारूपः प्राप षडथीनरभावम् । यस्तीर्थात्मा मण्डलपूर्णाक्षरवर्ष्मा तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ २॥ उद्यदिति । सूर्यमण्डलोदयकालमारभ्य प्रथमतः श्वासा एकैकदिनविद्यारूपाः । अ आ इ ई इत्यारभ्य क्ष: क्षायै इत्यन्ता मन्त्राः षट्त्रिंशदधिकसप्तदशोत्तरविंशतिसहस्रसङ्ख्याका (५७६x३६=२०७३६) । षट्त्रिंशद्वर्णा अपि षोडशस्वरसंयोगेनोक्ताः ३६x१६=(५७६) प्रतिदिनमेवं षट्त्रिशद्दिनपर्यन्तं जप्तास्तावन्त एव भवन्ति । यतस्तन्त्रे प्रसिद्धः एता एव स्वीदैवत्यतया विद्या इत्युच्यन्ते । ``स्त्रीदैवत्या स्मृता विद्या पुंदैवत्यास्तु मन्त्रकाः'' न इति कोशात् । गुरुनाथस्तु तावद्रूपः । ते च विद्याया अर्था योगिनी हृदयव्याख्यायामस्माभिः प्रपञ्चिताः । षडथीनरपदेन दिननित्याविद्यानां सङ्ख्योक्ताः (२०७३६) । एवमुत्तरत्र सर्वत्रापि सङ्ख्यासङ्केताक्षरपदानां श्रीगुरोः श्लेषेण द्व्यर्थता अवसेया । तत्परतः षट्सप्तत्युत्तरपञ्चशतं (५७६) श्वासाः पूर्णमण्डलाक्षररूपाः । अकार एकः, ककारादिक्षकारान्ताः पञ्चत्रिंशद्व्यञ्जनानि चेत्येवं षट्त्रिंशदक्षराणां प्रत्येकमकारादिषोडशस्वरसंयोगे सत्युक्तसङ्ख्यानि (५७६) अक्षराणि भवन्ति । तानि पूर्णमण्डलपदेन दिनार्णवपदेन च तन्त्रे व्यवहियन्ते । तदभिन्नं वर्ष्मा, शरीरं यस्य सः, तीर्थात्मा (५७६) गुरुरूपा एव, ``तीर्थमृषिजुष्टजले गुरौ'' इत्यमरः ॥ २॥ तीर्थात्मापदं चोक्तसङ्ख्यां (५७६) व्यनक्ति - तत्पश्चात्यप्राणसमूहनवनाथा यः षट्त्रिंशत्तत्त्वमयः षोडश नित्याः । एवं रीत्या वासितसंध्यात्रयमूर्ति- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ३॥ तदिति । पूर्णमण्डलात् परे नव (९) श्वासाः प्रकाशादिसुभगान्ता नाथनवकरूपाः । ततः परे शिवादिक्षित्यन्ततत्त्वरूपाः षट्त्रिंशत् (३६) । तदुत्तरं त्रिपुरसुन्दरीकामेश्वर्यादिचित्रान्तरूपास्तु नित्याः षोडश (१६) । एत एव क्रमेण संध्यात्रये उपास्यन्ते । तेन तद्वासनारूपा गुरुरेवेत्यर्थः ॥ ३॥ श्वासैः षष्टया षष्टिघटीदैवतरूपो (६०) मेषप्रष्टद्वादशशशि (१२) प्रतिमानः । अर्काद्यात्मा यो नवसङ्ख्याग्रहमूर्ति- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ४॥ श्वासैरिति । तदनन्तरं विसर्गरहितानां पञ्चाशन्मातृकाणां दशाक्षरैरेकैको वर्ग इत्येवं पञ्च वर्गाः; अ (६०), ए (६०), च (६०), त (६०), य (६०) मानः । तेषु प्रथमवर्गस्य आदावन्ते च जपे सति, षष्टिर्वर्णा अहोरात्रघटिका रूपा भवन्तीति तन्त्रे स्पष्टम् । नित्यश्वासानन्तरं षष्टिः श्वासाः तद्देवतात्मानः (६०); ततो द्वादश मेषादिराशिरूपाः । प्रष्टशब्दोऽग्रेसरवाची सन् प्रभृतिपरः, ``प्रष्टोऽग्रगामिनि'' इति निपातनात् । (१२) तदुत्तरं नव श्वासाः (९) अर्कादिनवग्रहरूपाः; तत्स्वरूपो गुरुरित्यर्थः ॥४॥ पञ्चात्मा भूतनिकायो गतमायो यः पञ्चाशद्वर्ण (५०) वपुश्चक्रगताभिः । शक्त्यालीभिः सङ्गतिमानेकनवत्या तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ५॥ पञ्चात्मेति । ग्रहात्मकश्वासानन्तरं पञ्च श्वासाः आकाशादिपञ्चभूतरूपाः (५) । तदुत्तरं पञ्चशच्छ्वासाः मातृकारूपाः (५०) तासामेकपञ्चाशतो (५१) मध्येऽपि सर्गस्वरत्यागात्तच्छेषेणाह - गतमाय इति । मायाशब्दोऽपि सर्गस्वरवाचकः, तद्रहित इत्यर्थः । तदनन्तरमेकनवतिश्वासाः चक्रश्चिदावरणशक्तिसमूहपराः । तासामेकनवतित्वं (९१) मूल एव नवमश्लोके विशदीकरिष्यते । ततश्च पूर्वोक्तदिननित्याविद्या (२०७३६) पूर्णमण्डला (५७६) नवनाथ (९) तत्त्व (३६) नित्या (१६) घटिका (६०) राशि (१२) नवग्रह (९) भूत (५) मातृका (५०) वर्णशक्ति (९१) सङ्ख्यानामेकीकरणे श्वाससङ्ख्यापूर्तिः (२१६००) संपद्यते । तदुक्तं तन्त्रराजे - ``नित्यातत्त्वाप्तिविद्यानां सङ्ख्याः स्युः पूर्वमेकशः । ततो दिनार्णाः संध्याश्च ततश्च घटिकार्णकाः॥ राशयो द्वादश ततो ग्रहभूतानि पञ्च वै । मातृकाश्चापि पञ्चाशच्छ्रीचक्रस्थाश्च शक्तयः॥ सैका नवतयः प्रोक्ता देवी सर्वात्मना स्थिता ।'' इति । नित्याः षोडश (१६) स्वराः, तत्त्वाक्षराणि (३६) पूर्वोक्तानि, तेषामाप्तिः परस्परसंयोगविशेषरूपः प्रस्तरः तत्संवर्धितानां दिननित्याविद्यानामित्यर्थः । शिष्टं स्पष्टम् ॥ ५॥ एतावता प्रबन्धेन श्वासानामवयवशो विभागेन वासना उपदिश्येदानीं संपूर्णस्यैव श्वाससमूहस्यैकैका वासना उपदिशति - यद्वा पञ्चाशल्लिपिपीडैकरदाना- मावृत्त्यासीद्यः फलवान् देशिकवर्यः । ज्ञानोत्तुङ्गो (३६००) डरलकसहषट्कवृतै- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ६॥ यद्वेति । उक्तानां वक्ष्यमाणानां च वासनानामन्यतमानुसंधाने विकल्पद्योतनार्थो वाकारः । इमाश्च वासना मूलेऽनुक्ता अपि पूज्यपादमुखावगन्तव्या इति तु मनोरमाकारः । ``अथ षोडश नित्यानां कालेन प्राणतोच्यते । मातृकाभूतनाथाद्यैः श्रीचक्रेण च शक्तिभिः ॥'' इति पटलारम्भप्रतिज्ञाश्लोके सूचिता इति तु निधिकारः । कालेन प्राणतः श्वासात्भककालभेदः । अत्राद्यपदेन ग्रहतत्त्वनित्याघटिकाराशयो गृह्यन्ते । श्रीचक्रशब्देन तदन्तर्गतत्रैलोक्यमोहनादिनवचक्राणि । शक्तिशब्देन श्रीचक्रस्थाः षण्णवतीः शक्तय उच्यन्ते । वस्तुतस्तु - मातृकापदेन गणेशग्रहनक्षत्रयोगिनीराशिपीठानां लघुषोढान्यासदेवतारूपाणां ग्रहाणां, तैः सह मातृकाभेदस्तु तन्त्रराज एव ``गणेशग्रहनक्षत्र-'' इत्यादिद्वादशश्लोकीस्तवने कथनात् । गुरुदेव्याः तैः सहाभेदस्तु योगिनीहृदये कौलिकार्यप्रकरणे वर्णनात्; नित्याहृदये, ``संप्रदायोक्तं स्फुटोपायेन भावयेत्'' इति वचनेन योगिनीहृदयोक्तभावनासापेक्षतया स्वतन्त्रे स्वीकारात् । तस्मादाद्यपदेननित्यातत्त्वादेरेव ग्रहणम्; लिपयः, अकाराद्या वर्णाः; पीठाः, कामरूपादयः; एकरदाः, विघ्नेश्वरादयो गणेशाः; एते त्रयोऽपि गतप्राया: सन्तः पञ्चाशदेव श्वाससङ्ख्या, पिण्डस्य (२१६००) पञ्चाशता विभागे द्वात्रिंशदुत्तरचतुःशती (४३२) लब्धा । तेन तावद्वारमावृत्ता लिप्यादयो देवश्वासा इति वासनात्रयमावृत्तिश्च दण्डकलितन्यायेन स्वस्वस्थानविवृद्ध्या वेति तु गुरुमुखादेव निर्णेयम् । फलवानिति पदेन लब्धसङ्ख्योक्तिः (४३२) । डाकिन्यादियोगिनीषट्कात्मकतया श्वासवासनामाह - ज्ञानेति । ज्ञकारनकारौ शून्यपरौ, तकारगकारौ षट्त्र्यङ्कपरे । तेन त्रिसहस्राणि षट्शतानीति ज्ञानोत्तुङ्ग (३६००) पदेन सूचितानीत्यर्थः । षड्भिः श्वाससङ्ख्याविभागे तावत एव लाभात् ``डरलकसह'' इत्यनेन नामैकदेशेन नामग्रहणमिति न्यायेन डाकिन्यादय उच्यन्ते । याकिन्या सह सप्तसङ्ख्या तु नाशङ्कनीया । ``शाक्तैः षड्भिर्यथाक्षरैः'' इत्यादिना योगिनीहृदये षण्णामेव ग्रहणम् । ``याकिन्याः षट्समष्टिरूपत्वेन व्यष्टितो भेदाभावात् सप्तानां ग्रहणम्'' इत्यमृतानन्दव्याख्या तु सेतुबन्ध एवास्माभिर्निरस्ता । यत्तु योगिनीपदस्य वशिन्याद्यष्टकपरत्वेन काश्मीराणां व्याख्यानम्; तत्पक्षोऽपि न दोषः । अष्टभिः श्वासानां विभागोऽपि सप्तदशोत्तरसहस्रद्वयस्य लाभेन श्वाससङ्ख्याया निःशेषत्वसंभवात् । अत्रावृत्तेः पञ्चमाष्टमाक्षरयोः गुरुत्वस्यावश्यकत्वेऽपि तयोः स्थाने द्विद्विलघुनिवेशौ, ``लौ सः'' इति सूत्रेण लघुद्वयस्य गुरुकार्यकारित्वविधानबलात्स्वीकृतः । तत्सूत्रस्य मात्राच्छन्दोविषयकत्वेऽपि वर्णच्छन्दसोऽपि कतिपयवृत्तेषु तदङ्गीकारो ज्ञापकसिद्ध इति तु छन्दोभास्करादौ प्रपञ्चितमस्माभिः । प्रयोगेऽपि; ॒`वन्दे रामं मरकतवर्णं मुनिवन्द्यम्'' इत्यादिः ॥ ६॥ नेत्रोद्गाढो(४३२०)देशिकराड्भूत(५)समूहै- रेनो वारी यो नवनाथग्रहचक्रैः । नक्षत्रस्यावृत्तिभिरानन्दशरीर- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ७॥ नेत्रेति । नेत्रांशे उद्गाढो दृढ इत्यनेन दूरदर्शित्वादिकं गुरोरुक्तम् । पञ्चभूतसङ्ख्यायाः श्वासविभागे सति चत्वारि सहस्राणि त्रीणि शतानि विंशतिश्च (४३२०) लभ्यन्त इति तावद्वारं मारुताः श्वासाः गुरुरूपा एवेत्यर्थः । नेत्रोद्गाढपदेन तत्सङ्ख्या दर्शिता । नाथादिनवकरूपवासनात्रयमाह - एनो वारीति । पापहा महागुरुः चतुःशताधिकसहस्रद्वयव्यावृत्त्या नाथादिद्वय इत्यर्थः । द्वयं वारा वृत्त्यादि (२४००) नाथादिरूप इत्यर्थः । नवनाथा नवग्रहाः नवचक्राणि चेति वासनात्रयम् । अष्टशतावृत्त्यागुरुर्नक्षत्ररूपोऽभूदित्याह - नक्षत्रस्येति । जातावेकवचनम् । आनन्द (८००) शब्देनोक्तसङ्ख्या प्रदर्शिता ॥ ७॥ नित्यावृत्तावीशलयः सन्नचलोऽभू- न्नाड्यावृत्तौ राशिषु नानाजपरूपः । अभ्यस्यद्भिस्तत्त्वगणैरुन्नतमूर्ति- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ८॥ नित्येति । षोडशनित्याभिः (१६) श्वासानां (२१६००) विभागे सहस्रोत्तरसार्धत्रिशती (१३५०) लब्धा । ईशे, परमशिवे, लयो यस्य स गुरुः; तत्सङ्ख्याकनित्यावृत्तिरूपः । ``दशध्यानसमो लयः'' इति लक्षितसमाधिविशेषो लय इत्युच्यते । षष्टिनाडीदेवतासङ्ख्यया विभागे तु अचलो भवेत्, षष्ट्युत्तरशतत्रयसङ्ख्यो (३६०) जातः । राशिषु; राशिव्यावर्तमानेषु, नानाजपात्मा; अष्टशत्यधिकसहस्र (१८००) जपरूपः । षट्त्रिंशत्तत्त्वगणाभ्यासेन उन्नतस्वरूपः (६००) षट्शतसङ्ख्य इत्यर्थः ॥ ८॥ धृत्युर्वीशाष्टेन्द्रदिगाशाहियुगत्रि- प्रोक्ताभिः पुंहेतिभिरम्बाभिरभिन्नः । आवृत्त्यैवं षण्णवतेर्यः शिखरात्मा तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ९॥ धृतीति । धृतयोऽष्टादश (१८) देवताः, भूपुरस्थाः अणिमादयो दश (१०); ब्राह्म्याद्या अष्टौ (८) कादिमते तृतीयरेखाया अकथनेन तत्रत्यमुद्रादेवतादशकस्याभावात् । उर्वीशाः षोडश (१६) कामाकर्षिण्याद्याः षोडशदलपद्मस्थाः, अष्टौ (८) अनङ्गः कुसुमादयोऽष्टदलपद्मस्थाः । इन्द्राः चतुर्दश (१४) सर्वसङ्क्षोभिण्यादयो मन्वश्रगताः । दिशो दश (१०) बहिर्दशारगाः सर्वसिद्धिप्रदादयः । आशा अपि दश (१०) अन्तर्दशारगासर्वज्ञाद्याः । अहयोऽष्टौ (८) वशिन्याद्या अष्टकोणस्थाः । अम्बायुधदेवताश्चतस्रः (४); त्रिकोणगतकामेश्वर्यादिदेवतास्तिस्रः (३) एताः संहत्यैकनवति (९१) सङ्ख्याकत्वेन पञ्चमश्लोके प्रोक्ताः तावतीनामेव ग्रहणे श्वाससङ्ख्याया एकनवत्या विभागे निःशेषताया असंभवात् विभाजकाङ्के पञ्चानां मेलनेन षण्णवतित्वमापादयितुमाह - पुंहेतिभिरिति । कामेश्वर्यायुधदेवताभिः चतसृभिरित्यर्थः । इमाः पञ्चनवतिभिः (९९) अम्बाभिरभिन्नस्थाः प्रधानांशेष्वित्येकशेषाभिप्रायेण अम्बाभिरित्युक्तम् । एवंप्रकारेण षण्णवतेर्देवतानामावृत्त्या शिखरात्मा सर्वोत्तमस्वरूपो गुरुः सपादशतद्वयावृत्तिमानासीदित्यर्थः । ननु च ``चक्रेण शक्तिभिः'' इत्यत्र शक्तिसामान्यवाचकस्यापि पदस्यैकानवतयः प्रोक्ताः । ``श्रीचक्रस्थास्तु शक्तयः '' इत्यनेनोपसंहारादेकनवतिदेवताः सिद्ध्यन्तीति न पुंहेत्यादि ग्रहणे मानं पश्यामः । न च तया सङ्ख्यया श्वाससङ्ख्याविभागे निरवशेषतासंभवादेव पञ्चानामङ्कानां योग इति वाच्यम् । कस्यापि कतिपयान्यूनतादिकल्पनेनापि संभवात् । धृत्यादिनवसङ्ख्याभिः प्रत्येकं १८, १६, ८, १४, १०, १०, ८, ४, ३ विभजनेऽपि तत्संभवाद्वा इन्द्रसङ्ख्यया विभागे द्वादशनामान्येतेषां राशिवासनाकल्पनासंभवात् । न चैवं वासनासाङ्कर्ये यथावस्थितैकनवतिविभागशेषस्यापि वासनान्तरकल्पनयैवोपपत्तौ प्रतिचित्रदेवतासङ्ख्यानां प्रातिस्विकं विभजकत्वकल्पना न स्यादिति वाच्यम् । एकनवत्या विभागे त्रयस्त्रिंशतावशेषेण तस्योक्तमातृकादिभिन्नत्वेन स्वेच्छया देवतान्तरकल्पनायामव्यवस्थापत्तिरिति चेत्, मैवम् । इह संप्रदायस्यैव शरणत्वात् । अत एव मनोरमायां शक्तिभिरिति पदमेकनवतिषण्णवतिपरत्वेन द्वेधा व्याख्यायैकत्र वचनमन्यत्र गुरुमुखागम एवोत्तरग्रन्थे प्रमाणमुपन्यस्तम्। इदं तु सुवचम् - श्रीचक्रेणेति चकारात् नवचक्रसङ्ख्यामेकनवतौ संमेल्योभयसमुच्चयरूपयांशसङ्ख्यया निरवशेषेण विभागो विधीयत इति । न चैकनवत्या विभाजकत्वायोगात् तदाधारचक्रनवकमेलनस्य न्यायसिद्धत्वेन मन्वश्रेऽपि तदाधारचक्रमात्रस्य मेलनेन तावन्मात्रांशे पञ्चदशसङ्ख्याया विभाजकत्वकल्पने निरवशेषतासंभवात् धृत्यादिभिः पार्थक्येन विभागः सिद्ध इति वाच्यम् । महात्रिपुरसुन्दर्या एकनवत्यनन्तर्गतत्वात् तदाधारचक्रस्य तत्र मेलने उपपत्त्यभावेन नवचक्रसङ्ख्यामेलनस्य वाचनिकत्वाङ्गीकारेणैव निर्वाहादिति दिक् ॥ ९॥ महेशनाथकृतस्य नाथनवरत्नमालिकानाम्नः स्तवस्योपसंहारपूर्वकं पाठपराणां गुरुभक्तानां श्रीविद्योपासकानां सद्यः परशिवभावप्राप्तिः फलतीत्याह - इत्यग्रन्थाद्भास्कररायो नवरत्नै- र्मालामग्र्यां नाथरहस्यं गमयन्तीम् । येषामेषा कण्ठगता ते जगदम्बा विद्याभ्यासादत्र जनुष्येव महेशः ॥ १०॥ इति श्रीमहेशनाथकृता नाथनवरत्नमाला समाप्ता । इतीति । मालास्तोत्रयो रूपकानुगुण्याय प्रबन्धरचनमालारचनोभयवाचिग्रथिधातुः प्रयुक्तः । नाथरहस्यं परं रूपम् । अत्र जनुष्येव; अस्मिन्नेव जन्मनि, महेशः; परम- शिवरूपः । उक्तं च तन्त्रराजे; ``एवंविधां भावनां यो भावयेत्स महेश्वरः'' इति सर्वं शिवम् ॥ १०॥ इति श्रीमन्नाथनवरत्नमालाभिधास्तुतेः । मञ्जूषा भासुरानन्दनाथेनाकारि गुप्तये ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणनिखिल- तन्त्रस्वतन्त्रश्रीमद्गम्भीरराजभारतीदीक्षितसूनुना भासुरानन्दनाथदीक्षाभिधानेन भास्कररायेण विरचिता श्रीनाथनवरत्नमालाव्याख्या मञ्जूषा समाप्ता ।