अक्षर आकार:

नवरत्नमाला

Navaratnamala

नवरत्नमाला

लोकं समस्तमपि मोहमहान्धकार- नश्यत् दृशं भवमहाजलधौ पतन्तम् । स्वोक्त्यञ्जनेन समपालयदाशु यः सः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ १॥ पाषण्डमुख्यमतकुम्भिषु केसरीन्द्रः पापाटवीदवविभावसुरानतानाम् । अद्वैतवारिनिधिपूर्णशशी च यः सः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ २॥ शब्दादिमान् हि विषयान्विषतुल्यकक्ष्यान् ज्ञात्वापि तत्र बहुरागवतो ममाशु । पादानताखिलजनस्य विरक्तिदाता दृग्गोचरो भवतु देशिकसार्वभौमः ॥ ३॥ श्रीमन्नृसिंहगुरुपादयुगाब्जभृङ्गः सीमाविलङ्घिधिषणोऽखिलशास्त्रवेत्ता । नम्रान्तरान्ध्यविनिवारणचण्डरश्मिः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ४॥ कामादिश‍ृङ्गिपरिभेदनवज्रपाणिः नामावधूतनिखिलाघचयो महस्वी । सामादिशीर्षपरिगीतनिजस्वरूपः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ५॥ आश्रामवासिवटुमेकमभाषमाणं सम्भाषमाणमकरोत्त्वरितं कृपातः । श्रीशङ्करार्य इव यः स हि हस्तधात्रीं दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ६॥ विप्रं ह्यपस्मृतियुतं प्रसमीक्ष्य तस्य मूर्ध्न्यङ्घ्रिमादधदपारकृपाम्बुराशिः । यो दक्षिणास्य इव रोगमपानुदत्तं दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ७॥ ऊर्ध्वस्थलान्निपतितां गृहगोधिकां यः त्यक्तासुमाशु करकाम्बुकणेन सिक्त्वा । सोऽजीवयञ्जनसमक्षममेयशक्तिः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ८॥ मर्त्याचिकित्स्यबहुकुष्ठनिपीडितं यः विप्रं हि कञ्चन तदामयहीनमाशु । चक्रे स दत्त इव केवलभस्मदानात् दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ९॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता नवरत्नमाला सम्पूर्णम् ।