अक्षर आकार:

नतोपदेशस्तोत्रम्

natopadeshastotram

नतोपदेशस्तोत्रम्

मनः समाधौ परमार्थरङ्गं विधाय निष्पन्दमनुत्तरङ्गम् । बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ १॥ पाश्यावशेनेव महाविहङ्गं वल्गाबलेनेव महातुरङ्गम् । निरुध्य योगेन मनःप्लवङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ २॥ मन्त्रौषधादिक्रियया भुजङ्गं यथा तथा वागुरया कुरङ्गम् । मनस्तदायम्य धियास्तसङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ३॥ भित्वालिकं सुभ्रुकुटीविभङ्गं यस्याग्निरुद्यद्रभसादनङ्गम् । ददाह तं मोहतमःपतङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ४॥ वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् । विलोचनं चाग्निशिखाविषङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ५॥ भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलङ्करणम् । व्रजत क्ष्माधरदरीशरणं शरणं तुषारकिरणाभरणम् ॥ ६॥ कृताघस्मरनिराकरणं कटुकालकूटकबलीकरणम् । भजत प्रपन्नजनताशरणं शरणं तुषारकिरणाभरणम् ॥ ७॥ मरुमेदिनीरचितसञ्चरणं त्रिदशेन्द्रशेखरनतचरणम् । व्रजत त्रिदुःखहरस्मरणं शरणं तुषारकिरणाभरणम् ॥ ८॥ प्रणतजनजितजरामरणं रचयन्तमाप्तभवनिस्सरणम् । व्रजताहितत्रिपुरसंहरणं शरणं तुषारकिरणाभरणम् ॥ ९॥ अवधूतमोहतिमिरावरणं करिकृत्तकल्पितपरावरणम् । व्रजत प्रकल्पितपुरेशरणं शरणं तुषारकिरणाभरणम् ॥ १०॥ तरुणतमालमलीमसतालं ज्वलनशिखापटलोज्ज्वलफालम् । शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं हतकल्मषजालम् ॥ ११॥ नरमुखकल्पितशेखरमालं नतजनजृम्भितमोहतमालम् । नयनशिखाशतशातितकालं श्रयत विभुं हतकल्मषजालम् ॥ १२॥ विषमविषाग्निशिखाविकरालं फणिपतिहारमतीव विशालम् । गलभुविबिभ्रद्गरलकरालं श्रयत विभुं हतकल्मषजालम् ॥ १३॥ विदलयितुं यमृते भवनालं त्रिभुवनसीमनि कश्चन नालम् । तममलमानसवासमरालं श्रयत विभुं हतकल्मषजालम् ॥ १४॥ कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् । भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ १५॥ अधिकस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् । ध्वजधामविराजिमहाधवलं भजत प्रभुमद्रिसुताधवलम् ॥ १६॥ प्रभया परिभूतदलद्धवलं गलमङ्गदरत्नशिखाशबलम् । दधतं विषक्लृप्तमहाकबलं भजत प्रभुमद्रिसुताधवलम् ॥ १७॥ शिखरं द्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् । दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ १८॥ अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाघमलम् । ददतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ १९॥ दधतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् । भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ २०॥ इति नतोपदेशस्तोत्रं समाप्तम् ॥