अक्षर आकार:

श्रीनरसिंहभारतीपादाष्टकम्

Shri Narasimhabharatipadashtakam

श्रीनरसिंहभारतीपादाष्टकम्

श्रीकीर्तिप्रतिभानां भवनं भविता यदीयपदनत्या तान्दासीकृतभूपान्वन्दे नरसिंहभारतीपादान् ॥ १॥ चित्रं यन्मुखचन्द्रालोकाद्विकसन्ति चित्तपद्मानि । शिष्याणामनिशं तान्वन्दे नरसिंहभारतीपादान् ॥ २॥ सरसान्कवितासारान्वर्षत्यास्येषु नम्रजनतायाः । यदपाङ्गवारिदस्तान्वन्दे नरसिंहभारतीपादान् ॥ ३॥ एनःपर्वतभेदे शतकोटिधुरं दधाति यद्भक्तिः । पापाब्धिबाडवांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ४॥ यद्वाक्श्रुतिर्नराणां भवसागरतारणे नौका । शीलितनिगमान्तांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ५॥ त्रासितकामगजेन्द्रान्स्ववचश्चातुर्यतोषितार्यजनान् । क्रोधाहिवैनतेयान्वन्दे नरसिंहभारतीपादान् ॥ ६॥ वितरणधिक्कृतकर्णान्क्षमया निर्धूतमेदिनीगर्वान् । विरतिविधूतार्यशुकान्वन्दे नरसिंहभारतीपादान् ॥ ७॥ यत्पादाम्बुजभक्तिस्तत्त्वप्रासादगमननिःश्रेणी । तान्नतसुखाब्धिचन्द्रान्वन्दे नरसिंहभारतीपादान् ॥ ८॥ भूषितविभाण्डकात्मजजनिभूमीन्कीर्तिराजितदिगन्तान् । विश्वोत्तंसितपादान्वन्दे नरसिंहभारतीपादान् ॥ ९॥ स्तुतिमेनां गुरुकृपया रचितामवनावहर्निशं पठताम् । करुणानीरधयः स्युर्हृष्टा नरसिंहभारतीपादाः ॥ १०॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीनरसिंहभारतीपादाष्टकं सम्पूर्णम् ।