अक्षर आकार:

नरकोत्तारणस्तोत्रम्

Narakottarana Stotram

नरकोत्तारणस्तोत्रम्

ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥ नारायणं जगद्बीजं पुराणं पुरुषोत्तमम् । परिपृच्छति धर्मात्मा पाण्डुपुत्रो युधिष्ठिरः ॥ २॥ श्रीयुधिष्ठिर उवाच - किं जपन्पुरुषो मुच्येद्यमलोकैकशासनात् । तन्मे कथय तत्त्वेन भक्तस्य तव केशव ॥ ३॥ श्रीभगवानुवाच - श‍ृणु राजन्महाबाहो धर्मात्मन्पाण्डुनन्दन । अहं ते कथयिष्यामि नरकोत्तारणं महत् ॥ ४॥ ओङ्कारात्मन्नमस्तेऽस्तु ऋग्यजुःसामरूपिणे । यज्ञात्मने नमस्तेस्तु सर्वशास्त्रात्मने नमः ॥ ५॥ भूतभव्यजगन्नाथ सर्वभूत जगत्पते । नमस्ते सर्वलोकेश महापुरुष पूर्वज ॥ ६॥ नमोमत्स्याय कूर्माय मूलप्रकृतये नमः । नमो यज्ञवराहाय नरसिंहाय वै नमः ॥ ७॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । नमस्तेऽश्वमुखायापि कूटस्थायाक्षराय च ॥ ८॥ अनन्तायाच्युतायापि जामदग्न्याय वै नमः । मधुकैटभनाशाय शङ्कराय नमोनमः ॥ ९॥ रामाय विश्वरूपाय वासुदेवाय वै नमः । पीताम्बराय देवाय युगवर्णाय वै नमः ॥ १०॥ स्थित्युत्पत्तिविनाशानां हेतुरूपाय वै नमः । ब्रह्मणे वायुरूपाय रुद्ररूपाय वै नमः ॥ ११॥ धनदेशस्वरूपाय मोक्षरूपाय वै नमः । सोमाय सूर्यरूपाय हविर्गन्धाय वै नमः ॥ १२॥ परमेश्वररूपाय नमः श्रीवत्सधारिणे । बिभ्रत्सरस्वतीं वक्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥ १३॥ लक्ष्मीप्रियाय देवाय ह्यतसीश्यामरूपिणे । प्रसीद मम दीनस्य भक्तियुक्तस्य माधव ॥ १४॥ रौरवान्नरकाद्घोरात्पाहि मां गरुडध्वज । असिपत्रवनात्पाहिशङ्खचक्रगदाधर ॥ १५॥ कुम्भीपाकान्महादेव पाहि मां शरणागतम् । अवीचेः कालसूत्राच्च पाहि मां दुःखनाशन ॥ १६॥ सूच्यागारादम्बरीषात्पाहि मां मधुसूदन । असृक्केशास्थिवाहिन्या वैतरण्याश्चतुर्भुज ॥ १७॥ पाहि मां कर्मसाक्षी त्वं शरणागतवत्सल । इक्षुपीडनकैर्यन्त्रैः पीड्यन्ते यत्र मानवाः ॥ १८॥ देशात्तस्माज्जगन्नाथ पाहि मां भक्तवत्सल । तप्तवालुकदेशश्च शल्मल्यायामवल्लितः ॥ १९॥ तद्देशात्पुण्डरीकाक्ष पाहि मां करुणानिधे । क्रकचैर्यत्र पाट्यन्ते मानुषा देवदारुवत् ॥ २०॥ तेभ्योऽपि रक्ष मां हंस शरणागतवत्सल । सारमेयैश्च खाद्यन्ते यामे वर्त्मनि मानवाः ॥ २१॥ महाभयात्प्रभो तस्मात्केशव क्लेशनाशन । अन्ये च नरका घोरा यमलोके प्रतिष्ठिताः ॥ २२॥ तेभ्योऽपि रक्ष मां हंस नमस्तेऽस्तु सहस्रशः । तिर्यग्योनिगतस्यापि भक्तिर्मे तव केशव ॥ २३॥ अचला स्याद्यथा कृष्ण तथा कुरु वरप्रद । बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षवान् ॥ २४॥ सर्वतो रक्ष मां हंस सर्वात्मन् सर्वतोमुख । नमस्ते देवदेवेश यथा पास्यऽखिलं जगत् ॥ २५॥ स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर । कृष्णाच्युत हृषीकेश सर्वभूतेश केशव ॥ २६॥ महात्मन् पाहि मां भक्तं वासुदेव नमोऽस्तु ते । इति स्तवन्नरो राजन्सदा नारायणं प्रभुम् ॥ २७॥ यमलोकं न पश्येच्च नरकं च कुतः पुनः । स्मरन्नपि सदा मर्त्यः श‍ृण्वन्नपि युधिष्ठिर ॥ २८॥ महापातकजैर्घौरैर्मुच्यते सर्वकिल्बिषैः । आयुरारोग्यमैश्वर्यं श्रियं मेधां तथा बलम् ॥ २९॥ प्राप्नोति च पठेन्नित्यं तद्विष्णोः परमं पदम् । भयकान्तारदुर्गेषु तथा संसारसागरात् ॥ ३०॥ सत्यं सन्तरते मर्त्यः स्तवस्याप्यनुकीर्तनात् । अन्ते सायुज्यमाप्नोति तद्विष्णोः परमं पदम् ॥ ३१॥ इति श्रीनरकोत्तारणस्तोत्रं सम्पूर्णम् ।