अक्षर आकार:

श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम्

shrInRisiMhagiri aShTottarashatanAmastotram

श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम्

ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥ शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥ शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥ नारायणप्रवचनो नारायणपरायणः । नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥ दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः । श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥ मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः । मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥ निरञ्जनप्रपीठस्थो निरञ्जनविचारकः । निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥ ६॥ वेदविद्वेदहृदयो वेदपाठप्रवर्तकः। वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥ ७॥ शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः । शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥ ८॥ अत्याश्रमाचाररतो भूतिधारणतत्परः । सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥ ९॥ अक्षमालाधृतग्रीवः काषायपरिवेष्टितः । ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥ १०॥ सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः । सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥ ११॥ माधुर्यपूर्णचरितो मधुराकारविग्रहः । मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥ १२॥ मधुरालापचतुरो निग्रहानुग्रहक्षमः । आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १३॥ आरण्यवार्तिकपरः पुष्पमालाविभूषितः । वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥ १४॥ सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः । दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥ १५॥ वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः । लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥ १६॥ गणेशजययात्रादिप्रतिष्ठापनतत्परः । गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥ १७॥ सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः । गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥ १८॥ लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः । आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥ १९॥ अनन्तश्रद्धापरमप्रकाशानन्दपूजितः । जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥ २०॥ माधवानन्दसंवेष्टा काशिकानन्ददेशिकः । वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥ २१॥ निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् । तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥ २२॥ गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥ २३॥ मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः । रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥ २४॥ शन्दमहेशानन्दाय स्वकीयपददायकः । यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥ २५॥ उषोत्थानस्नानपूजाजपध्यानप्रचोदकः । तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥ २६॥ अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः । अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥ २७॥ विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः । काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥ २८॥ श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः । नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥ २९॥ विलयं यान्ति पापानि गुरुनामानुकीर्तनात् । मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥ ३०॥ इति श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम् ॥