अक्षर आकार:

श्रीनृसिंहभारतीपादसुवर्णमालास्तवराजः

Shri Nrisimhabharatipadasuvarnamalastavarajah

श्रीनृसिंहभारतीपादसुवर्णमालास्तवराजः

ओङ्कारमन्त्रराजप्रजपनसंसक्तमानसाम्भोजान् । त्रिजगच्छ्लाघितचरितान्वन्दे नरसिंहभारतीपादान् ॥ १॥ नवनवकवित्वजननप्रणवान्मूकेऽपि पादनम्रजने । नयनजितारुणकञ्जान्वन्दे नरसिंहभारतीपादान् ॥ २॥ मोहनिवारणचतुराञ्छ्रुत्यन्तार्थप्रबोधकैर्वचनैः । मोदितनतनरनिकरान्वन्दे नरसिंहभारतीपादान् ॥ ३॥ नृपपशुपजडविदग्र्यप्रस्तरकलधौतसमहृदम्भोजान् । नृहरिपदार्चनसक्तान्वन्दे नरसिंहभारतीपादान् ॥ ४॥ सिंहधुरन्धरहृदयान्कामक्रोधेभगर्वनिर्भेदे । सिन्दूरशोणवसनान्वन्दे नरसिंहभारतीपादान् ॥ ५॥ हरिहरसमानबुद्धीन्विरहविहीनांश्चिदात्मताबुद्‍ध्या । हसितजितकुन्दकान्तीन्वन्दे नरसिंहभारतीपादान् ॥ ६॥ भागीकृतपुण्यौघान्सुहृदरिवर्गे क्रमेण निःशेषम् । भारतजनपुण्यनिधीन्वन्दे नरसिंहभारतीपादान् ॥ ७॥ रत्नलसत्कुक्षिगणेट् चन्द्रशिरःशारदाम्बिकार्चनतः । रचितजगच्छुभपङ्कीन्वन्दे नरसिंहभारतीपादान् ॥ ८॥ त्यै प्र्याद्यायै येषां न भवन्तीशाजहरिपदान्यपि भो । तांस्तूलीकृतविश्वान्वन्दे नरसिंहभारतीपादान् ॥ ९॥ जगदाचार्यनृसिहप्रसादलेशात्तबुद्धिकणिकेन । शिष्यब्रुवेण तेषां रचितः स्तव एष जयतु तत्कृपया ॥ १०॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीनरसिंहभारतीपादसुवर्णमालास्तवराजः सम्पूर्णः ।