अक्षर आकार:

श्रीनीलस्तोत्रम्

shrInIlastotram

श्रीनीलस्तोत्रम्

॥ अथ श्रीनीलस्तोत्रम् ॥ चन्द्रदेव उवाच - नमस्ते नागराजेन्द्र नील नीलोत्पलद्युते । नीलमेघचयप्रेक्ष नीलतोलकृतालय ॥ १॥ फणानां त्वं शतैर्नाग शैभसे सप्तभिः सदा । सप्तसप्तिरिवार्चिस्माव्राजसे त्वं गभस्तिभिः ॥ २॥ त्वं नील नीलभ विनीतपापैर्देवेश देवैरपि नेक्ष्यसे त्वम् । नागेन्द्र भोगीन्द्र इवाम्बरस्थो ध्यानेन् विद्वद्भिरपीहमानः ॥ ३॥ त्वं नील योगेश इवासनस्थो वेदार्थविद्भिर्विविधैर्विधानैः । संसारकार्येषु सुरायकृद्भिराराध्यसे मोक्षफलाय विप्रैः ॥ ४॥ नागेश नीलार्चिरिवामरेशैर्विज्ञायसे सूर्य इवाम्बरस्थः । त्वं नील नीलार्चिरिवोज्ज्वलश्च सुभक्तकार्याणि विधास्यमानः ॥ ५॥ दृष्टो मया कारणमेव देव भूमीसकाशात्पतता बलेन । स्मृतोर्चितो मोचय मेऽतिदुःखात्त्रायस्व मां भोगिपते नमस्ते ॥ ६॥ त्वं नील नीरौघचयप्रकाशो विराजसे विष्णुरिवामरेशः । विधिर्विधाता रमसे फणीश त्वां वासुदेवं प्रणतोऽमि नित्यम् ॥ ७॥ त्वां नीलनीलाम्बर नीलनत्रमाकाशवत्सर्वगतं सुरेशम् । ध्यायन्नरो योऽप्यजितेन्द्रियो वा नागेन्द्र मुच्येत तव प्रसादात् ॥ ८॥ नील त्वामेव वेदार्थे जगुर्वेदाः सनातनम् । देवं बहु मुमुक्षूणां कामिनां चार्तसाधनम् ॥ ९॥ त्वत्प्रकाशं यतो ब्रह्म निर्मलं निष्फलं परम् । सूक्श्मतो व्योमनिर्दिष्टं सर्वगात्रैरकृत्रिमम् ॥ १०॥ अकिंचनो वदान्यस्त्वमति सूक्श्मोऽसि च पृथुः । अर्थाश्रयो महार्थस्त्वं स्तव्यस्तस्याक्शरस्य च ॥ ११॥ कुद्रूः पुत्र सहस्रेण नागराजेन्द्रशोभिता । त्वया तु राजतेऽत्यर्थं विष्णुनैवादितिर्यथा ॥ १२॥ त्वमेव तपसाऽत्यर्थं तथा विद्योतसे प्रभो । तोयं हिमं शीकरांश्च तथा मुञ्चसि धार्मिक ॥ १३॥ प्रजापतिः कश्यपो हि सर्वभूतपिता प्रभुः । त्वया तु शोभतेऽत्यर्थं पुत्रेणात्यन्तधार्मिकः ॥ १४॥ त्वयि धर्मश्च सत्यं च क्शमा च सततं प्रभो । देवासुरविमर्देषु शतशोऽथ सहस्रशः ॥ १५॥ त्वया विनिहता दैत्या देवब्राह्मणकण्टकाः । वरदस्त्वं वरेण्यश्च बलारिर्बलहा विभुः ॥ १६॥ भक्तानुकम्पी भक्तश्च देव देवे जनार्दने । तस्यातिदयितश्चासि यथा नागः स वासुकिः ॥ १७॥ धनदस्ते सखा नाग यथा शर्वस्य नित्यदा । धनदश्चासि भक्तानां धनेश इति विश्रुतः ॥ १८॥ नागानां त्वं गतिर्नित्यं देवानामिव वासवः । भक्तिमानस्मि ते नित्यं त्वं च जानासि धार्मिक ॥ १९॥ ॥ इति श्रीनीलमतपुराणे नीलस्तोत्रम् सम्पूर्णम् ॥