अक्षर आकार:

श्रीनारदस्तोत्रम्

Shri Narada Stotra

श्रीनारदस्तोत्रम्

उग्रसेन उवाच - कृष्ण प्रवक्ष्यामि त्वामेकं संशयं वद तं मम ॥ १॥ योऽयं नाम महाबुद्धिर्नारदो विश्ववन्दितः । कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ॥ २॥ कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रितिमान् ॥ ३॥ श्रीकृष्ण उवाच - सत्यं राजंस्त्वया पृष्ठमेतत्सर्वं वदामि ते । दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः ॥ ४॥ सृष्टिमार्गात्सुतान् वीक्ष्य नारदेन विचालितान् । नाऽवस्थानं च लोकेषु भ्रमतस्ते भविष्यति ॥ ५॥ पैशुन्यवक्ता च तथा द्वितियानां प्रचालनात् । इति शापद्वयं प्राप्य द्विविधाऽऽत्मजचालनात् ॥ ६॥ निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् । एतावान् साधुवादो हि यतश्च क्षमते स्वयम् ॥ ७॥ विनाशकालं चाऽवेक्ष्य कलिं वर्धयते यतः । सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते ॥ ८॥ भ्रमतोऽपि च सर्वत्र नाऽस्य यस्मात्पृथङ्मनः । ध्येयाद्भवति नैवस्याद्भ्रमदोषस्ततोऽस्य च ॥ ९॥ यच्च प्रितिर्मयि तस्य परमा तच्छृणुष्व च ॥ १०॥ अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् । महेन्द्रगदितेनैव स्तोत्रेण श्रृणु तन्नृप ॥ ११॥ ॥ अथ श्रीनारद स्तोत्रम् ॥ श्रुतचारित्रयोर्जातो यस्याऽहन्ता न विद्यते । अगुप्तश्रुतचारित्रं नारदं तं नमाम्यहम् ॥ १॥ अरतिक्रोधचापल्ये भयं नैतानि यस्य च । अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम् ॥ २॥ कामाद्वा यदि वा लोभाद्वाचं यो नाऽन्यथा वदेत् । उपास्यं सर्वजन्तूनां नारदं तं नमाम्यहम् ॥ ३॥ अध्यात्मगतितत्त्वज्ञं क्षान्तं शक्तं जितेन्द्रियम् । ऋजुं यथाऽर्थवक्तारं नारदं तं नमाम्यहम् ॥ ४॥ तेजसा यशसा बुद्‍ध्या नयेन विनयेन च । जन्मना तपसा वृद्धं नारदं तं नमाम्यहम् ॥ ५॥ सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् । सुचक्षुषं सुवाक्यञ्च नारदं तं नमाम्यहम् ॥ ६॥ कल्याणं कुरुते गाढं पापं यस्य न विद्यते । न प्रीयते परानर्थे योऽसौ तं नौमि नारदम् ॥ ७॥ वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः । प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम् ॥ ८॥ अशनादिष्वलिप्तं च पण्डितं नालसं द्विजम् । बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम् ॥ ९॥ नाऽर्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः । येनैते नाशिता दोषा नारदं तं नमाम्यहम् ॥ १०॥ वीतसम्मोहदोषो यो दृढभक्तिश्च श्रेयसि । सुनयं सत्रपं तं च नारदं प्रणमाम्यहम् ॥ ११॥ असक्तः सर्वसङ्गेषु यः सक्तात्मेति लक्ष्यते । अदिर्घसंशयो वाग्मी नारदं तं नमाम्यहम् ॥ १२॥ न त्यजत्यागमं किञ्चिद्यस्तपो नोपजीवति । अवन्ध्यकालो यस्यात्मा तमहं नौमि नारदम् ॥ १३॥ कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः । नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम् ॥ १४॥ न हृष्यत्यर्थलाभेन योऽलोभे न व्यथत्यपि । स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम् ॥ १५॥ तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् । कालज्ञं च नयज्ञं च शरणं यामि नारदम् ॥ १६॥ ॥ फलश्रुतिः ॥ इमं स्तवं नारदस्य नित्यं राजन् पठाम्यहम् । तेन मे परमां प्रीतिं करोति मुनि सत्तमः ॥ १७॥ अन्योऽपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् । अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम् ॥ १८॥ एतान् गुणान् नारदस्य त्वमथाऽऽकर्ण्य पार्थिव । जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः ॥ १९॥ ॥ इति श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे नारद माहात्म्यवर्णने श्रीकृष्णकृत श्रीनारदस्तोत्रं सम्पूर्णम् ॥