अक्षर आकार:

श्रीमुकुन्दरायाष्टकम्

shrImukundarAyAShTakam

श्रीमुकुन्दरायाष्टकम्

(रामकली-गणेश गीयते) वनितोपहासनृत्यत्स्मितवदनानन्दजोषतोषदायिन् । श्रीमन्मुकुन्दराय त्वय्यासक्तं मनो मेऽस्तु ॥ १॥ मणिमयनन्दावासे कुमारिकावृन्दशोभिसद्धास्ये । नवनीतलोभितास्ये (सततं त्वयि हरौ) मतिर्मेऽस्तु ॥ २॥ परिधृतहीरकहारं व्रजाङ्गनादर्शनीयकौमारम् । कृतगोपुच्छविहारं जितमारं प्रणौमि हृत्सारम् ॥ ३॥ सकलोपनिषत्सारं स्वानन्दाप्राकृताकारम् । वन्दे नन्दकुमारं वारं वारं स्वदातारम् ॥ ४॥ किङ्कणीनूपुररणितं (सततं) सिंहावलोकनं कर्त्रे । व्रजजनमानसहर्त्रे निजार्तिहर्त्रे नमस्कुर्मः ॥ ५॥ अलकसमावृतवदनं सुकुन्दकलिकासुशोभितं स्वास्यम् । गोपयुवतीरतिसदनं जितमदनं नन्दनन्दनं नौमि ॥ ६॥ व्रजकर्दमलिप्ताङ्गं करधृतनवनीतमोहितानङ्गम् । वन्दे लोलविलोचनासक्ताङ्गनासङ्गम् ॥ ७॥ नर्तनलीलाकरणं मनोहरणं वपुषा नन्दविस्तरणम् । सेवकजनभवतरणं यामि तमहं सदैव शरणम् ॥ ८॥ तव लीलारसलुब्धाः श्रीमुकुन्दरायाष्टकं प्रेष्णा । साधनजालसहस्रं त्यक्त्वाजस्रं पठध्वं वै ॥ ९॥ इति श्रीमद्यदुनाथकुलोद्भवश्रीगोपालात्मजश्रीगिरधरेणविरचितं श्रीमुकुन्दरायाष्टकं समाप्तम् ।