अक्षर आकार:

श्रीमहावाक्यार्थबोधः

shrImahAvAkyArthabodhaH

श्रीमहावाक्यार्थबोधः

श्रीगणेशाय नमः । त्वामग्रे रविचन्द्रादेर्भासकं लोकचालकम् । पृच्छामीदं कथं ज्ञानमाप्नुयां दयया वद ॥ १॥ इति पृष्टोऽर्जुनेनाह श्रीदत्तः श‍ृणु भूपते । यदेकं परमं ब्रह्म नित्यमुक्तमविक्रियम् ॥ २॥ तत्स्वशक्तिसमाविष्टमीशमाहुर्मनीषिणः । स विष्णुः स शिवो ब्रह्मा सोऽग्निरिन्द्रः स्वराड् हरिः ॥ ३॥ धाता कालः क्रिया कर्ता जीवनं मृत्युरामयः । नारायणो हृषीकेशो भूतं भव्यं भवच्च सः ॥ ४॥ वस्तुमात्रमिदं सर्वमहमेवास्मि सर्वदृक् । अहमेव परं ध्येयं मिथ्याभ्रमनिवृत्तये ॥ ५॥ भ्रमस्यापि च नामानि कल्पितानि श‍ृणुष्व तत् । मायाविद्या परा देवी मनोऽनादिर्भ्रमस्त्रिवृत् ॥ ६॥ प्रधानं प्रकृतिर्ब्रह्म योनिः शक्तिश्च कारणम् । मोहोऽध्यासस्तमोऽज्ञानं प्रस्वापः कारणं त्विदम् ॥ ७॥ अतोऽविद्या पञ्चपर्वा महामोहो द्विरूपकः । विक्षेपावृतिशक्त्याख्य आद्यात्सर्गोऽत्र भौतिकः ॥ ८॥ स्वरूपमावृणोत्यन्यो मुक्तं चेशं विना भृशम् । योऽविद्यार्तोऽवशो दुःखी भ्रान्तोऽज्ञो जीव एव सः ॥ ९॥ समष्टिरीशः सर्वज्ञो वशमायः स्वराट् सुखः । असत्वाभानाख्यभक्तावृतिहृद्गुरुरप्यसौ ॥ १०॥ मतं मूढैर्जगन्नित्यं तथा जीवेशयोर्भिदा । एवं भेदत्रयेणेदं भातं वस्त्वेव मायया ॥ ११॥ तन्निवृत्त्यै कृता वेदैः सृष्टिप्रलयकल्पना । मूढस्य सा मता सत्या भ्रमोऽयं लीयते विदा ॥ १२॥ ज्ञानं विद्येति तां प्राहुर्द्वेधा विद्या विचारजा । परोक्षा चापरोक्षेति तत्राद्या गुरुवक्त्रतः ॥ १३॥ अमानित्वादियुक्तैः सा विज्ञेया साधनान्वितैः । गुरुभक्तिं विना सापि दुर्लभा मोक्षदायिनी ॥ १४॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १५॥ गुर्वनुग्रहमात्रेण विचारः सुलभो नृणाम् । विचारेण परं तत्त्वं स्वयमेव प्रकाशते ॥ १६॥ राजंस्त्वयारिवलं कर्म योगयागादिकं मयि । समर्पितं ततोऽयं ते विचारोऽद्य समुत्थितः ॥ १७॥ वैराग्यं परमं जातं भ्रममोहमलापहम् । अतो विद्याप्रसादस्ते भविष्यत्यचिरेण हि ॥ १८॥ विद्या ज्ञेया परोक्षेयं वेदान्तश्रवणात्मिका । उपक्रमादिभिर्लिङ्गैर्यत्तात्पर्यावधारणम् ॥ १९॥ तदेव श्रवणं तत्तु हरेत्संशयभावनाम् । असत्त्वावरणं चापि वस्त्वस्तीति तदेक्षते ॥ २०॥ मननं कार्यमस्येदमाश्वसम्भावनाहरम् । वशीकाराख्यवैराग्ययुक्तस्येदं सुखावहम् ॥ २१॥ आत्मैव नेह नानास्ति मोहितस्य जगत्त्विदम् । भाति नान्यस्य मिथ्येदं स्वप्नो निद्रागमे यथा ॥ २२॥ विषयान्ध्यायतो यद्वन्मनोरथपरम्परा । असत्येव सदा भाति नानाविषयगोचरा ॥ २३॥ परमात्मैक एवाहं वस्तुमात्रश्चिदात्मकः । मयि मिथ्याविभागोऽयं दृश्यतेऽनाद्यविद्यया ॥ २४॥ भ्रमो मोहो महामाया प्रधानं प्रकृतिर्मनः । अज्ञानं शक्तिरव्यक्तं गुणसाम्यमितीरिता ॥ २५॥ सैव मिथ्यामतिर्यस्या इदं भातं चराचरम् । एवं विचारश्रवणानुसारि मननं तु तत् ॥ २६॥ सच्चिदानन्दलक्ष्मापि परात्मा माययाऽऽवृतः । निजं स्वरूपं विस्मृत्य ययेदं दृश्यते जगत् ॥ २७॥ महांस्ततोऽहमस्तस्मात्तन्मात्राणि ततः क्रमात् । भूतेन्द्रियसुराणां च सर्गस्त्र्यामाऽहमः क्रमात् ॥ २८॥ न ह्यत्र नियमो राजन्नसत्ये मानसभ्रमे । कदाचिद्युगपत्सृष्टिः क्रमसृष्टिः कदाचन ॥ २९॥ देहाः सुरासुरनरतिरश्चां भौतिका इमे । स्थूलैः स्थूलानि सूक्ष्मैश्च सूक्ष्माण्येवं भवोद्भवः ॥ ३०॥ उपक्रमोऽयमाख्यात उपसंहार उच्यते । भूतेषु भौतिकानहि क्रमाद्योगी विलापयेत् ॥ ३१॥ पृथ्वी जले जलं वह्नौ वह्निर्वायौ स खे च खम् । अहमि प्राणगो देवा मनश्चापि स्वकारणे ॥ ३२॥ अहङ्कारोऽपि महति सोऽव्यक्ते तच्च निष्कले । स एवाहं परात्मैकः शुद्धो मुक्त उपाधितः ॥ ३३॥ एवं निदिध्यासनत एकः स्वात्मैव शिष्यते । तस्मान्नास्त्यपरं किञ्चिदात्मैवायं यथा तथा ॥ ३४॥ राजन्मम प्रसादात्त्वं खलु धन्योऽस्यसंशयम् । अन्तःकरणशुद्धिस्ते जाता वैराग्यमुत्तमम् ॥ ३५॥ मयि भक्तिर्दृढा प्रेम्णा श्रवणं चापि विस्तरात् । प्रपञ्चस्थापि चित्तस्था सर्वथा विलयं गता ॥ ३६॥ तत्त्वमेकं परं ब्रह्म न द्वितीयं कदापि हि । एवं शमादिरूपां तामारूढो भव भूमिकाम् ॥ ३७॥ त्वं साक्षात्कारसूपायक्रमं विद्ध्यथ भूपते । दत्तचित्तो भवाद्यात्र तत्त्वनिश्चयकारक ॥ ३८॥ सर्वसाधनसम्पन्नः पुरुषो जातनिश्चयः । श्रोत्रियं ब्रह्मनिष्ठं तं सद्गुरुं शरणं व्रजेत् ॥ ३९॥ तत्त्वमस्यादिवाक्यर्थमुपदिष्टं तु षड्विधैः । लिङ्गैर्धिया समालोच्य बुधः समवधारयेत् ॥ ४०॥ श्रवणं त्विदमेवोक्तं तत्समासेन ते ब्रुवे । यतस्त्वं शिष्यतां प्राप्तो मत्सेवाहतकिल्बिषः ॥ ४१॥ तत्पदेन परं ब्रह्म त्वम्पदेन च पूरुषम् । अनूद्यैक्यं तयोर्भूप बोध्यतेऽसिपदेन सत् ॥ ४२॥ विरुद्धस्य त्वमर्थस्य तदर्थत्वं कथ भवेत् । इति चेच्छृणु राजेन्द्र तयोरैक्ये निदर्शनम् ॥ ४३॥ देवदत्तः क्वचिद्दृष्टो युवा देशान्तरे स च । पुनर्दृष्टो जरां प्राप्तः सोऽयमित्यवधार्यते ॥ ४४॥ पूर्वदेशमवस्थां च त्यक्त्वेदं तस्य वार्द्धकम् । देशं चापि यथैकेन पिण्डेनैक्यं प्रतीयते ॥ ४५॥ त्यक्त्वा द्व्यंशौ तथाऽत्रापि वाक्य ऐक्यं हि लक्ष्यते । त्वम्पदस्य च वाच्यार्थः संसारीति सुनिश्चितः ॥ ४६॥ कर्ता भोक्ता सुखी दुःखी माययैव न तत्त्वतः । देहेन्द्रियमनःप्राणाहङ्कारेभ्यो विलक्षणः ॥ ४७॥ वस्तुतः सच्चिदानन्दस्वरूपो गुणगोचरः । एकांशस्तत्र चिद्रूपमन्यः संसारिताऽस्य च ॥ ४८॥ एवं त्वमर्थं निश्चित्य तदर्थमपि निश्चिनु । अतद्व्यावृत्त्या विधिना साक्षाच्च श्रुतियुक्तितः ॥ ४९॥ तत्पदस्य च वाच्यार्थः सर्वज्ञः परमेश्वरः । तस्यैकोंऽशोऽपि चिद्रूपं सर्वज्ञत्वादि चापरः ॥ ५०॥ त्यक्त्वा विरुद्धवाच्यांशद्वयं जीवेशयोरिह । लक्ष्यौ चिदंशौ निर्बाधं पदयोरुभयोरपि ॥ ५१॥ अविरुद्धं तयोरैक्यं लक्षणालक्षितं द्वयोः । वाक्यार्थोऽयं सुनिष्पन्नस्त्वं ब्रह्म परमं हि तत् ॥ ५२॥ तदेव त्वं परं ब्रह्म नास्ति भेदः कथञ्चन । अखण्डैकरसत्वेन वाक्यार्थोऽत्र सतां मतः ॥ ५३॥ विशेष्यं त्वम्पदं तस्य तत्पदं च विशेषणम् । निरस्यतेऽस्य दुःखित्वं सुखित्वं च विधीयते ॥ ५४॥ वैपरीत्येन विज्ञेयं विशेष्यं तत्पदं तथा । विशेषणं त्वम्पदं च पारोक्ष्यस्य निरासकृत् ॥ ५५॥ तद्वह्म परमं शुद्धं त्वमात्मैव निरामयः । इत्यैक्यं भूप विज्ञेयं वेदोक्तं गुर्वनुग्रहात् ॥ ५६॥ स्वात्मैक्यार्थमियं प्रोक्ता सुधीभिर्भागलक्षणा । त्रिकाण्डेनापि वेदेन सोऽयमर्थो विनिश्चितः ॥ ५७॥ स्थूलधीभिः सुदुर्ज्ञेयो विज्ञेयो हि मनीषिभिः । पर्यवस्यन्ति वेदाद्या अत्रैव विविधा अपि ॥ ५८॥ शास्त्रतत्त्वमविज्ञाय मूढाः शास्त्राणि सर्वशः । ते प्रवृत्तिपराण्येव कथयन्ति कुतर्कतः ॥ ५९॥ उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ ६०॥ प्राक् सदैवेत्युपक्रम्यैतदात्म्यमिदमेव सत् । उपसंहृतमित्येकमभ्यासो नवधा परम् ॥ ६१॥ शाब्देनैव ह्यखण्डार्थविनयत्वं तृतीयकम् । तुर्यं विदेहकैवल्यं प्रारब्धान्ते विवेकिनः ॥ ६२॥ षष्ठं मृदादिदृष्टान्तैर्निर्णयस्तूपपत्तिकम् । सृष्टिस्थित्यन्तप्रवेशानियमः शोधनं फलम् ॥ ६३॥ सप्तार्थवादास्तद्रूपं पञ्चमं लिङ्गमुच्यते । सर्वस्यात्मन उत्पत्तेरवस्थानाच्च तत्र हि ॥ ६४॥ पुनर्लयाज्जगौ वेदः कारणब्रह्ममात्रताम् । सूर्यस्येव जले चात्र प्रवेशमपि चात्र तु ॥ ६५॥ अन्तर्यामितया भेदात्सदा नियमनं स्मृतम् । तथा रोहितरूपाद्यैः पदार्थपरिशोधनम् ॥ ६६॥ अभेदज्ञानस्य परं स्वात्मैक्यममृतं फलम् । एवं सप्तार्थवादात्मलक्षणं पञ्चमं मतम् ॥ ६७॥ षड्लिङ्गैरिति तात्पर्यावधृतिः श्रवणं स्मृतम् । आस्थायाथो योगभूमिं मननादि चरेद्बुधः ॥ ६८॥ इति दत्तपुराणे श्रमिहावाक्यार्थबोधः सम्पूर्णः ॥