अक्षर आकार:

महाशास्त्रनुग्रहकवचम्

Mahashastranugrahakavacham

महाशास्त्रनुग्रहकवचम्

श्रीगणेशाय नमः । अथ महाशास्त्रनुग्रहकवचं प्रारभ्यते ॥ श्रीदेव्युवाच भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १॥ महाव्याधिमहाव्याळघोरराजैः समावृते । दुःस्वप्नघोरसन्तापैः दुर्विनीतैः समावृते ॥ २॥ स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषध्वज ॥ ३॥ ईश्वर इवाच श‍ृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ ४॥ अग्निस्तम्भजलस्तम्भसेनास्तम्भविधायकम् । महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ ५॥ महाज्ञानप्रदं पुण्यं विशेषात्कलितापहम् । सर्वरक्षाकरं दिव्यमायुरारोग्यवर्धनम् ॥ ६॥ किमतो बहुनोक्तेन यं यं कामयते द्विजः । तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादतः ॥ ७॥ कवचस्य ऋषिर्ब्रह्मा गायत्रीश्छन्द उच्यते । देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ ८॥ षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया । ध्यानमस्य प्रवक्ष्यामि श‍ृणुष्वावहिता प्रिये ॥ ९॥ अस्य श्रीमहाशास्तुः कवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । (ह्रां)प्रां बीजम् । (ह्रीं)प्रीं शक्तिः । (ह्रूं)प्रूं कीलकं श्रीमहाशास्तुः प्रसादसिद्धर्थे जपे विनियोगः । (ह्रां)प्रां इत्यादि षडङ्गन्यासः ॥ अथ ध्यानम् । तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् । बिभ्राणं करपङ्कजे मदगजस्कन्धाधिरूढं विभुं शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥ (लमित्यादि पञ्चोपचारपूजा ।) महाशास्ता शिरः पातु फालं हरिहरात्मजः । कामरूपी दृशौ पातु सर्वज्ञो मे श्रुती सदा ॥ १॥ घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा । वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ २॥ कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः । बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ ३॥ भूताधिपो मे हृदयं मध्यं पातु महाबलः । नाभिं पातु महावीरः कमलाक्षोऽवतात्कटिम् ॥ ४॥ अपानं पातु विश्वात्मा गुह्यं गुह्यार्थवित्तमः । (सनीपं पातु विश्वेशो गुह्यं गुह्यार्थवित्सदा) (सनीप \- णोत् फ़ोउन्द् इन् थे दिच्तिओनर्य्) ऊरू पातु गजारूढो वज्रधारी च जानुनी ॥ ५॥ जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः । सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ ६॥ इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् । महाव्याधिप्रशमनं महापातकनाशनम् ॥ ७॥ ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । आयुरारोग्यजननं महावश्यकरं परम् ॥ ८॥ यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः । त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥ ९॥ इति श्रीगुह्यरत्नचिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं सम्पूर्णम् ।