अक्षर आकार:

महाशास्तृत्रिशतनामावलिः

mahAshAstRRitrishatanAmAvaliH

महाशास्तृत्रिशतनामावलिः

ध्यानं पूर्णापुष्कलयोः पतिं शिवसुतं दण्डासिशूलाब्जयुक् चक्रेष्वासशराभयेष्टकुलिशान् हस्तैर्वहं सादरम् । नानारत्नविचित्रितासनगतं कल्याणसिद्धिप्रदं वीरादिप्रमुखैः सुसेवितपदं शास्तारमीड्यं भजे । ॐ ह्रीं हरिहरपुत्राय पुत्रलाभाय मदगजवाहनाय महाशास्त्रे नमः इति मन्त्रवर्णाद्याक्षरघटिता । ओम् । औषधीशानचूडाङ्कहरिमोहिनिसम्भवाय नमः । ओतप्रोताखिलजगते । ओजस्विने । ओदनप्रियाय । ओमादिवर्णाय । ओकस्थाय । ओजोमण्डलनायकाय । औदार्यवते । औपनिषदमन्त्रविश्रुतवैभवाय नमः ॥ ९ ह्रीम् । ह्रीं वर्णमूलाय नमः । ह्रीङ्काराय । ह्रीमते । ह्रेषाहतासुराय । हृत्पद्मनिलयाय । ह्रादिने । हृद्याय । हृष्टाय । हृदि स्थिताय नमः ॥ १८ ह । हरिपुत्राय नमः । हरिप्रीताय । हरित्पतिसमर्चिताय । हरिणाङ्कमुखाय । हारिणे । हालाहलहराय । हरये । हर्यक्षवाहनारूढाय । हयमेधसमर्चिताय नमः ॥ २७ रि । रिरंसवे नमः । रिक्तसम्पूज्याय । रीतिमते । रीतिवर्धनाय । रिपुहर्त्रे । रिटीशानाय । रीङ्कृतिस्तब्धकुञ्जराय । रिङ्खद्घण्टामणिगणाय । रीङ्कारमनुदैवताय नमः ॥ ३६ ह । हरपुत्राय नमः । हराराध्याय । हरिणाङ्कशिखामणये । हयारूढाय । हरिहरसूनवे । हरिमुखाचिताय । हय्यङ्गवीनहृदयाय । हरप्रेमसुताय । हविषे नमः ॥ ४५ र । रक्षकाय नमः । रक्षितजगते । रक्षोनाथविनाशकृते । रञ्जकाय । रजनीचारिणे । रणन्मञ्जीरभूषणाय । रतिनाथसमाकाराय । रतिमन्मथपूजिताय । रासक्रीडादिसन्तुष्टपूर्णापुष्कलकन्यकाय नमः ॥ ५४ पु । पुण्डरीकाक्षसम्भूताय नमः । पुण्डरीकाजिनासनाय । पुरुहूतेडितपदाय । पुष्पदन्तसमर्चिताय । पुष्कलाभूषिततनवे । पुरन्दरसुतार्चिताय । पुरसंहारजनकपार्श्वस्थाय । पुण्यवर्धनाय । पुण्डरीकेभहर्यक्षतुरगाधिपवाहनाय नमः ॥ ९३ त्रा । त्रात्रे नमः । त्रयीनुताय । त्रस्ताभयकृते । त्रिगुणाधिकाय । त्रयस्त्रिंशत्कोटिदेवसेविताय । त्राणतत्पराय । त्रिविक्रमसमाकाराय । त्रिणेत्राय । त्रिविधाकृतये नमः ॥ ७२ य । यन्त्रे नमः । यन्त्रितदिग्दन्तिगिरिपन्नगमण्डलाय । यतीश्वराय । यज्ञवाटमध्यस्थाय । यजनप्रियाय । यजमानाय । यमिश्रेष्ठाय । यजुर्वेदप्रकीर्तिताय । यायजूकार्चितसभामध्यनाट्यविशारदाय नमः ॥ ८१ पु । पुरन्दरार्चिताय नमः । पुण्याय । पुरुषार्थप्रदायकाय । पुरुवंश्यनृपाभीष्टप्रदात्रे । पूर्णाहुतिप्रियाय । पुष्पाभिरामाय । पूषेन्दुवह्निमण्डलभासुराय । पुरत्रयमहाक्रीडाय । पुष्कलावर्तमण्डलाय नमः ॥ ९० त्र । त्रियम्बकस्य तनयाय नमः । त्रिंशद्बाहवे । त्रिसूत्रभृते । त्रिकोणस्थाय । त्रयीवेद्याय । तत्र तत्र स्थले स्थिताय । तृणावर्तासुरहराय । त्रिकालज्ञाय । तृतीयकाय नमः ॥ ९९ ला । लाङ्गूलोपनिषद्गीताय नमः । लावण्यजितमन्मथाय । लवणासुरसंहर्त्रे । लक्ष्मणाग्रेसरार्चिताय । लक्ष्मीप्रदाय । लघुश्यामाय । लम्बिकायोगमार्गकृते । लतानिभतनुच्छायाय । लोभहीनजनाश्रिताय नमः ॥ १०८ भा । भानुकोटिप्रतीकाशाय । भाषमाणाय । भयापहाय । भीमसेनाय । भीमसखाय । भुक्तिमुक्तिपुलप्रदाय । भुसुण्डमुनिसंवेद्याय । भूषावते । भूतिभूषिताय नमः ॥ ११७ य । यातनारहिताय नमः । यज्वने । यक्षराजे । यमुनाश्रिताय । यन्त्रमन्त्रार्चनप्रीताय । यताक्षाय । यमशासनाय । यामिनीचरवीरादिगणसेव्याय । यमोन्नताय नमः ॥ १२६ श । शाङ्कराय नमः । शङ्करानन्दाय । शङ्खचक्रगदाधराय । शङ्खध्मानकराय । शास्त्रे । शकटैकरथोज्ज्वलाय । शर्वाणीतनयाय । शल्यनिग्रहाय । शकुनीडिताय नमः ॥ १३५ त्रु । त्रुट्यादिकालविज्ञात्रे नमः । त्रोटकादिमपूजिताय । त्रोटकादिमवृत्तज्ञाय । त्रिवर्णाय । त्रिजगत्प्रभवे । त्रिवर्गदात्रे । त्रिशतनामार्चनसुखप्रदाय । त्रिकाण्डिकाय । त्रिकूटाद्रिमध्यश‍ृङ्ग- निकेतनाय नमः ॥ १४४ ना । नराय नमः । नरार्चिताय । नारीयुगलाय । नरवाहनाय । नरनारायणप्रीताय । नतकल्याणदायकाय । नन्दिने । नन्दीशविनुताय । नारदादिमुनीडिताय नमः ॥ १५३ शा । शक्राय नमः । शक्तिधराय । शक्ताय । शरजन्मसहोदराय । शशाङ्कवर्णाय । शतधाकृतामित्राय । शरासभृते । शिवानन्दकराय । शैवसिद्धान्तमुदितान्तराय नमः ॥ १६२ य । यथातथाकृतविधये नमः । यज्ञसूत्रधराय । यूने । यत्नादुत्सारितकिटये । यथाविधि समर्चिताय । योगिनीगणसंवीताय । यक्षिण्युक्तजगत्कथाय । यन्त्रारूढमहामायाय । याकिन्यादिसमन्विताय नमः ॥ १७१ म । मन्त्रिणे नमः । मन्त्रविदां श्रेष्ठाय । मणिवाचे । मणिभूषणाय । महनीयाय । मरालस्थाय । मणिमण्डपसंस्थिताय । महाकल्पतरोर्मूलवासिने । मार्ताण्डभैरवाय नमः ॥ १८० द । दण्डिने नमः । दण्डयित्रे । दण्डधराय । दैत्यान्तकात्मजाय । देवदेवाय । देवराजाय । दिव्यंससन्नटाधिपाय । दिवासमतनुच्छायाय । दिव्यगन्धाङ्गलेपनाय नमः ॥ १८९ ग । गजास्यसोदराय नमः । गौरीगङ्गासूनवे । गुणिने । गुरवे । गुरुकृपाय । गौरवर्णाय । गोकर्णस्थानवासकृते । गोदावरीतीरसंस्थाय गोपिकानन्दवर्धनाय नमः ॥ १९८ ज । जगच्छास्त्रे नमः । जगन्नाथाय । जनकादिसुपूजिताय । जनाश्रिताय । जितक्रोधाय । ज्वरामयविनाशकाय । जम्भारिवन्दितपदाय । जगत्साक्षिणे । जपानिभाय नमः ॥ २०७ वा । वातघ्नाय नमः । वामनयनाय । वामनाय । वाञ्चितार्थदाय । वारणसीपतये । वाञ्छाकल्पाय । विन्ध्यविमर्दनाय । विन्ध्यारिमुनिसंसेव्याय । वीणावादनतत्पराय नमः ॥ २१६ ह । हयग्रीवनुताय नमः । हन्त्रे । हयानन्दाय । हितप्रदाय । हुताशनधराय । होत्रे । हुङ्कारध्वस्तकम्बलाय । हाटकश्रीसभानाथाय । हरगौरीप्रियोक्तिमुदे नमः ॥ २२५ ना । नागराय नमः । नागराध्यक्षाय । नभोरूपाय । निरञ्जनाय । निर्विकाराय । निराहाराय । निर्वाणसुखदायकाय । नित्यानित्यविशेषज्ञाय । निर्मानुष्यवनाश्रयाय नमः ॥ २३४ य । याम्याय नमः । यजनभूस्थायिने । यक्षराक्षसभेदनाय । योग्याय । योगपतये । युक्ताय । यामिनीचरघातकाय । यामिनीदस्युसंहर्त्रे । यमशासनशासनाय नमः ॥ २४३ म । मनोन्मनस्थान संस्थाय नमः । मातामहहिमाचलाय । मारीरोगहराय । मन्युहीनाय । मान्धातृपूजिताय । मणिशूल- गदेभेन्द्रनराश्वाङ्कितगोपुराय । मनोवेगातिगमनाय । महादेवाय । महेश्वराय नमः ॥ २५२ हा । हालास्यनायकाय नमः । हालाहलसेनापतीडिताय । हलिने । हलायुधनुताय । हरिद्राकुङ्कुमाङ्किताय । हनूमते । हनूमत्पूज्याय । हेमाद्रीशसुतापतये । हिमाचलगुहावासियोगिवृन्दसमावृताय नमः ॥ २६१ शा । शारदाय नमः । शारदानाथाय । शरच्चन्द्रनिभाननाय । शरानेकनिषङ्गाढ्याय । शरणागतवत्सलाय । शास्त्रज्ञाय । शाकरारूढाय । शयानाय । शिवताण्डवाय नमः ॥ २७० स्त्रे । त्रापुषालयसन्त्राणपाण्डुपुत्रसुंसस्तुताय नमः । त्रातपाण्ड्य- सुताराध्याय । तार्तीयीकाय । तमोहराय । ताम्रचूडध्वजप्रीतिजनकाय । तक्रपानमुदे । त्रिपदाक्रान्तभूताण्डाय । त्रिविधाय । त्रिदिनोत्सवाय नमः ॥ २७९ न । नमो जयस्वस्तिवाक्यप्रकीर्णध्वनिमन्दिराय नमः । नानारूपधराय । नानावेषवञ्चितपूर्वजाय । नामार्चनप्राणदात्रे । नरकासुर- शिक्षकाय । नामसङ्कीर्तनप्रीताय । नारायणसमुद्भवाय । नन्दगोपयशोदात्रे । निखिलागमसंस्तुताय ॥ २८८ म । मधुमुदे नमः । मधुरावासिने । महाविपिनमध्यगाय । महारुद्राक्षकवचाय । महाभूतिसितप्रभाय । मन्त्रीकृतमहारायाय । महाभूतगणावृताय । महामुनीन्द्रनिचयाय । महाकारुण्यवारिधये । मनःसंस्मरणत्रात्रे नमः । महाशास्त्रे । महाप्रभावे नमः ॥ ३०० इति महाशास्तृत्रिशतनामावलिः समाप्ता ।