अक्षर आकार:

श्रीमहाशास्तृ अष्टोत्तरशतनामावलिः २

shrImahAshAstRRi aShTottarashatanAmAvaliH 2

श्रीमहाशास्तृ अष्टोत्तरशतनामावलिः २

अस्य श्री महाशास्तृमहामन्त्रस्य, अर्धनारीश्वर ऋषिः, देवी गायत्री छन्दः, श्री महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तृप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः ॥ ह्रां हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । ह्रैं कवचाय हुम् । ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानम्- कल्हारोज्ज्वलनीलकुन्तलभरं कालाम्बुदश्यामलं कर्पूराकलिताभिरामवपुषं कान्तेन्दुबिम्बाननम् । श्रीदण्डाङ्कुशपाशशूलविलसत्पाणिं मदान्त- द्विपारूढं शत्रुविमर्दनं हृदि महाशास्तारमाद्यं भजे ॥ पञ्चोपचाराः । मूलं - ॐ ह्रीं हरिहरपुत्राय पुत्रलभाय शत्रुनाशाय मदगजवाहनाय महाशास्त्रे नमः । ॐ महाशास्त्रे नमः । महादेवाय । महादेवसुताय । अव्ययाय । लोककर्त्रे । लोकभर्त्रे । लोकहर्त्रे । परात्पराय । त्रिलोकरक्षकाय धन्विने । तपस्विने । भूतसैनिकाय । मन्त्रवेदिने । महावेदिने । मारुताय । जगदीश्वराय । लोकाध्यक्षाय । अग्रण्ये । श्रीमते । अप्रमेयपराक्रमाय नमः ॥ २० ॐ सिंहारूढाय नमः । गजारूढाय । हयारूढाय । महेश्वराय । नानाशस्त्रधराय । अनर्घाय । नानाविद्याविशारदाय । नानारूपधराय । वीराय । नानाप्राणिनिषेवकाय । भूतेशाय । भूतिदाय । भृत्याय । भुजङ्गाभरणोत्तमाय । इक्षुधन्विने । पुष्पबाणाय । महारूपाय । महाप्रभवे । मायादेवीसुताय । मान्याय नमः ॥ ४० ॐ महानीताय नमः । महागुणाय । महाशैवाय । महारुद्राय । वैष्णवाय । विष्णुपूजकाय । विघ्नेशाय । वीरभद्रेशाय । भैरवाय । षण्मुखध्रुवाय । मेरुश‍ृङ्गसमासीनाय । मुनिसङ्घनिषेविताय । देवाय । भद्राय । जगन्नाथाय । गणनाथाय । गणेश्वराय । महायोगिने । महामायिने । महाज्ञानिने नमः ॥ ६० ॐ महास्थिराय नमः । देवशास्त्रे । भूतशास्त्रे । भीमहासपराक्रमाय । नागहाराय । नागकेशाय । व्योमकेशाय । सनातनाय । सुगुणाय । निर्गुणाय । नित्याय । नित्यतृप्ताय । निराश्रयाय । लोकाश्रयाय । गणाधीशाय । चतुःषष्टिकलामयाय । ऋग्यजुःसामाथर्वरूपिणे । मल्लकासुरभञ्जनाय । त्रिमूर्तये । देत्यमथनाय नमः ॥ ८० ॐ प्रकृतये नमः । पुरुषोत्तमाय । कालज्ञानिने । महाज्ञानिने । कामदाय । कमलेक्षणाय । कल्पवृक्षाय । महावृक्षाय । विद्यावृक्षाय । विभूतिदाय । संसारतापविच्छेत्रे । पशुलोकभयङ्कराय । रोगहन्त्रे । प्राणधात्रे । परगर्वविभञ्जनाय । सर्वशास्त्रार्थतत्त्वज्ञाय । नीतिमते । पापभञ्जनाय । पुष्कलापूर्णा- संयुक्ताय । परमात्मने नमः ॥ १०० ॐ सतां गतये नमः । अनन्तादित्यसङ्काशाय । सुब्रह्मण्यानुजाय । बलिने । भक्तानुकम्पिने । देवेशाय । भगवते । भक्तवत्सलाय नमः ॥ १०८ ॐ श्री पूर्णापुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः । इति श्रीमहाशास्तृ अष्टोत्तरशतनामावलिः समाप्ता ।