अक्षर आकार:

मृत्य्वष्टकम्

mRityvaShTakam

मृत्य्वष्टकम्

गारुडपुराणान्तर्गतम् सूत उवाच । स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम् । स्तोत्रम् सर्वं दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १॥ शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम् । अधोअक्षजं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ २॥ वराहं वामनं विष्णुं नारसिंहं जनार्दनम् । माधवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ ३॥ पुरुषं पुष्करक्षेत्रबीजं पुण्यं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ ४॥ सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ ५॥ भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किन्नो मूत्युः करिष्यति ॥ ६॥ इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । स्तवं तस्य अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥ ७॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ ८॥ मृत्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ९॥ इदं यः पठते भक्त्या त्रिकालं नियतं शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १०॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमप्रमेयम् । विचिन्त्य सूर्यादतिराजमानं मृत्युं स योगि जितवांस्तथैव ॥ ११॥ इति श्रीगारुडे महापुराणे मार्कण्डेयकृतं मृत्य्वष्टकस्तोत्रकतह्नं नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः Garuda Purana pUrvakhaNda adhyAya 233 (225 varied.)