अक्षर आकार:

श्रीमातृपञ्चकम् २

Shri Matripanchakam

श्रीमातृपञ्चकम् २

श्रीमातृदेवताचरणेभ्यो नमः । अहो मातर्नित्यं तव तु महिमा वेदकथितः पुराणादौ सिद्धः खलु जगति जागर्ति परमे । अतो वै मच्चित्ते दृढमिति परं जातमनिशं कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ १॥ अहं दीनः पुत्रस्तवचरणसेवाविरहितः परं त्वद्द्रव्याणामपहरणकर्ता शठमतिः । तथाऽऽप्याऽऽर्ये पाल्यस्त्विति जननि संवीक्ष्यपदवीं कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥ इदानीं पर्यन्तं स्वजननाथारभ्य कुधिया समास्लिष्टेनाहो जननि नु न बुद्धं तवमहः । तथाऽप्यम्बप्रेम्णा मम हितविधिं चेच्छसि यतः कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥ मया गर्भाऽऽवासात् क्वचिदपि सकृन्नैव सुखिता परं त्वं क्लेशानामयि जननिपात्रं बतकृता । तथाप्येषा चित्ते मम वसति विश्वासपदयी कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥ कदाचित्सेवा ते जननि खलचित्तेन हि मया कृता नो सद्वाक्यैरपि किमुत शास्त्रीय विधिना । तथाप्यार्ये मातः क्वचिदपि न रुष्टा मयि यतः कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ५॥ श्रीमातृपञ्चकमिदं रचितं सुपद्यै- र्दुर्गाऽभिधेन कवि-नन्दकिशोरजेन । यो मातृपूजनमनुप्रपठेत्सुपुत्र- स्तस्याशु तुष्यति हरिः सकलार्तिहन्ता ॥ ६॥ इति श्रीमातृपञ्चकं सम्पूर्णम् ॥