अक्षर आकार:

मातृभूतेश्वराष्टोत्तरशतनामावलिः

mAtRRibhUteshvara 108 nAmAvaliH praising Ramana Maharshi's mother

मातृभूतेश्वराष्टोत्तरशतनामावलिः

ॐ श्रीमातृभूतेश्वररूपिण्यै नमः । ॐ श्रीरमणजनन्यै नमः । ॐ आवर्तपुरवासिन्यै नमः । ॐ अलगम्मानाम्न्यै नमः । ॐ सुन्दरार्य सहधर्मिणीभूतायै नमः । ॐ श्रीजीवन्मुक्तपुत्रकृतार्थीकृतजीवनायै नमः । ॐ श्रीयोगाम्बिकास्वरूपिण्यै नमः । ॐ श्रीचक्राङ्कित श्रीविद्यास्वरूपिण्यै नमः । ॐ लोकमात्रे नमः । ॐ विश्ववन्द्यायै नमः । १० ॐ स्कन्दमात्रे नमः । ॐ धन्यायै नमः । ॐ स्वगृहनिर्गतपुत्राकुलचित्तायै नमः । ॐ पुत्रान्वेषणनियुक्तबन्धुजनायै नमः । ॐ निराकृतस्वगृहवैभवायै नमः । ॐ स्वेच्छास्वीकृतदैन्यजीवनायै नमः । ॐ स्वीकृतारुणाचलवासायै नमः । ॐ पुत्रप्रत्यागमनार्थकृतव्यर्थप्रयत्नायै नमः । ॐ भूमिनाथप्रसादोपलब्धसन्तत्यै नमः । ॐ योगाम्बासमेतारुणाचलेश्वरकृपापात्रायै नमः । २० ॐ तपस्विन्यै नमः । ॐ पुत्रशिक्षित वैराग्यायै नमः । ॐ इतरमतस्थसमदर्शनायै नमः । ॐ पुत्रोपदेशनिर्मुक्तस्पृश्यास्पृश्यादि सङ्कुचितपुरातनाचारायै नमः । ॐ पुत्रोपदेशप्राप्तस्वरूपज्ञानायै नमः । ॐ श्रीरमणरचित अप्पलगीतमूलकारणायै नमः । ॐ श्रीरमणप्रीतिकरभोजनरचनाकुशलायै नमः । ॐ विदितरमणप्रभावायै नमः । ॐ विविधवेदान्तपरद्राविडभाषागीतज्ञायै नमः । ॐ कपिलोपदेशकृतार्थीकृतदेवहूतिसमानायै नमः । ३० ॐ श्रीरमणस्तुतितुष्टारुणाचलेश्वरकृपाविगतज्वरायै नमः । ॐ श्रीरमणकृपास्पदायै नमः । ॐ श्रीरमणार्पितप्राणायै नमः । ॐ श्रीरमणपदानुगायै नमः । ॐ श्रीरमणसेवातत्परायै नमः । ॐ श्रीरमणोपदेशश्रवणशुद्धीकृतचित्तायै नमः । ॐ श्रीरमणहस्तप्रापितमोक्षसाम्राज्याय नमः । ॐ श्रीरमणानुरक्तहृदयायै नमः । ॐ श्रीरमणहस्तप्रतिष्ठापितमहामेरुयन्त्रस्वरूपिण्यै नमः । ॐ श्रीरमणज्ञानाग्निदग्धकल्मषायै नमः । ४० ॐ श्रीरमणभक्तजनप्रियायै नमः । ॐ श्रीभगवत्सङ्गविनष्टाहङ्कारायै नमः । ॐ श्रीरमणाश्रितायै नमः । ॐ श्रीरमणयशोगानहर्षितायै नमः । ॐ श्रीरमणस्मरणरतायै नमः । ॐ श्रीरमणहस्तस्पर्शमुक्तदेहायै नमः । ॐ श्रीरमणमहिमालब्धमोक्षायै नमः । ॐ श्रीरमणचरणशरणायै नमः । ॐ श्रीरमणनिकटवासशान्ततापायै नमः । ॐ श्रीरमणदर्शनमात्रसन्तुष्टमानसाय नमः । ५० ॐ श्रीमद्रमणकरुणाकटाक्षनिरस्ताज्ञानान्धकारायै नमः । ॐ श्रीबाह्याडम्बरविवर्जितायै नमः । ॐ अनवद्यायै नमः । ॐ मृदुभाषिण्यै नमः । ॐ सरलस्वभावायै नमः । ॐ श्रीस्वमैत्रीवशीकृतसर्वजनायै नमः । ॐ निःस्पृहायै नमः । ॐ मितभाषिण्यै नमः । ॐ त्यक्तसर्वैषणायै नमः । ॐ नैसर्गिकभगवद्भक्तियुतायै नमः । ६० ॐ निर्ममायै नमः । ॐ निरहङ्कारायै नमः । ॐ तितिक्षापूर्णायै नमः । ॐ सत्त्वगुणान्वितायै नमः । ॐ कीर्तनीयतमायै नमः । ॐ सर्वे देवीस्वरूपिण्यै नमः । ॐ ध्येयायै नमः । ॐ निर्विकारायै नमः । ॐ निष्कलङ्कायै नमः । ॐ प्रशान्तमुखमण्डलायै नमः । ७० ॐ तेजोवत्यै नमः । ॐ जितेन्द्रियायै नमः । ॐ काषायाम्बरधरायै नमः । ॐ आभूषणविरहितायै नमः । ॐ स्वसुखनिरभिलाषायै नमः । ॐ संसारपाशनिर्मुक्तायै नमः । ॐ पूर्वजन्मसञ्चितपुण्यपुञ्जायै नमः । ॐ शुभकर्मप्राप्तजीवन्मुक्तपुत्रायै नमः । ॐ रमणीयगुणान्विताय नमः । ॐ रागद्वेषादिदोषविरहितायै नमः । ८० ॐ शान्तिनिलयायै नमः । ॐ काव्यकण्ठगणपतिमुनिवर्णित- बुद्धरामचन्द्राद्यवतारजनन्यपेक्षा- श्रेष्ठतरवैभवायै नमः । extra ॐ स्वकुलाचारानुष्ठानरतायै नमः । ॐ सौभाग्यशालिन्यै नमः । ॐ वात्सल्यपरिपूरितायै नमः । ॐ दक्षिणामूर्तिस्तोत्रप्रियायै नमः । ॐ तुलसी अम्मा लब्धमहावाक्यदीक्षायै नमः । ॐ श्रीरमणकृपानिरस्तमायाजालायै नमः । ॐ विमलायै नमः । ॐ वीतहर्षशोकादिद्वन्द्वायै नमः । ॐ रमणमहर्षिमान्यायै नमः । ९० ॐ महाशक्तिस्वरूपिण्यै नमः । ॐ अन्तिमकालानुभवक्षीणवासनासमूहायै नमः । ॐ अनघायै नमः । ॐ अरुणाचलकृताधिवासायै नमः । ॐ कलिदोषविवर्जितायै नमः । ॐ मङ्गलदात्र्यै नमः । ॐ रमणमङ्गलायै नमः । ॐ चापल्यरहितायै नमः । ॐ श्रीरमणकरुणावलम्बनायै नमः । ॐ भीषणभुजगमालाविभूषितशिवरूपदर्शितपुत्रायै नमः । १०० ॐ सद्गुरुरमणलब्धोपदेशायै नमः । ॐ श्रीरमणलब्धपौत्रप्राप्तिवरायै नमः । ॐ श्रीरमणहस्ताभिषिक्तजलस्नातायै नमः । ॐ उदारहृदयायै नमः । ॐ एचम्माकृतसत्कारायै नमः । ॐ क्षणार्धभगवद्विरहनिरपेक्षायै नमः । ॐ श्रीनिरञ्जनानन्दस्वामिकृत-श्रद्धायुक्त-प्रयत्न बहुल-फलस्वरूपनिर्मितमातृभूतेश्वराधिष्ठित- समाधिमन्दिरायै नमः । extra ॐ मातृगौरव विशेषादर निरपेक्षायै नमः । ॐ श्रीभगवद्रमणज्योतिलीनायै नमः । १०८ ॐ सर्वं श्रीरमणार्पणमस्तु ॥