अक्षर आकार:

श्रीलघुशान्तिस्तवः

Shri Laghushantistavah

श्रीलघुशान्तिस्तवः

श्रीमानदेवसूरिसृत्रितः शान्तिं शन्तिनिशान्तं शातनं शान्ताशीवं नमस्कृत्य । स्तोतः शान्तिनिमित्तं मन्त्रपदैः शान्तये स्तौमि ॥ १॥ ओमितिनिश्चितवचसे नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनायजयवते यशस्विने स्वामिने दमिनाम् ॥ २॥ सकलातिशेषकमहा सम्पत्तिसमन्विताय शस्याय । त्रैलोक्यपूजिताय च नमो नमः शान्तिदेवाय ॥ ३॥ सर्वामरसुसमूहस्वामिकसम्पूजिताय न जिताय । भुवनजनपालनोद्यननमाय मननं नमम्नम्मै ॥ ४॥ सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय । दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय ॥ ५॥ युग्मम् ॥ यस्येतिनाममन्त्रप्रधानवाक्योपयोगकृततोषा । विजया कुरुते जनहिनमिति च नुता ! नमत तं शान्तिम् ॥ ६॥ भवतु नमस्ते भगवति ! विजये ! सुजये ! परापरैरजिते ! । अपराजिते ! जगत्यां जयतीति जयावहे ! भवति ! ॥ ७॥ सर्वस्यापि च सङ्घस्य भद्रकल्याणमङ्गलप्रददे ! । साधूनां च सदा शिवसुतुष्टिपुष्टिप्रदे ! जीयाः ॥ ८॥ भव्यानां कृतसिद्धे ! निर्वृतिनिर्वाणजननि ! सत्त्वानाम् । अभयपदाननिरते ! नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ॥ ९॥ भक्तानां जन्तूनां शुभावहे ! नित्यमुद्यते ! देवि ! । सम्यग् दृष्टीनां धृतिरतिमतिबुद्धिप्रदानाय ॥ १०॥ जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् । श्रीसम्पत्कीर्तियशो वर्धनि ! जयदेवि ! विजयस्व ॥ ११॥ युग्मम् । सलिलानलविषविषयधरदुष्टग्रहराजरोगरणभयतः । राक्षसरिपुगणमारीचौरेतिश्वापदादिभ्यः ॥ १२॥ अथ रक्ष रक्ष सुशिवं कुरु कुरु शान्तिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ॥ १३॥ युग्मम् ॥ भगवति ! गुणवति ! शिवशान्तितुष्टिपुष्टिस्वस्तीह कुरु कुरु जनानाम् । ओमिति नमो नमो ह्राँ ह्रीं ह्रूँ यः क्षः ह्रीं फट् फट् स्वाहा ॥ १४॥ एवं यन्नामाक्षरपुरस्सरं संस्तुता जया देवी । कुरुते शान्तिं नमतां नमो नमः शान्तये तस्मै ॥ १५॥ इति पूर्वसूरिदर्शितमन्त्रपदविदर्भितः स्तवः शान्तेः । सलिलादिभयविनाशी शान्त्यादिकरश्च भक्तिमताम् ॥ १६॥ यश्चैनं पठति सदा श‍ृणोति भावयति वा यथायोगम् । स हि शान्तिपदं यायात्सूरिः श्रीमानदेवश्च ॥ १७॥ युग्मम् ॥ इति श्रीमानदेवसूरिसृत्रितः श्रीलघुशान्तिस्तवः समाप्तः ।