अक्षर आकार:

कोऽहम् ?

Whot Am I ?

कोऽहम् ?

॥ हृदयकमलवासिने श्रीमते रमणाय नमः ॥ आमुखम् भूमण्डलहृदयात्मके स्मरणान्मुक्तिदेऽस्मिन्नरुणाचलदिव्यक्षेत्रे विरूपाक्षगुहायां भगवतः श्रीरमणस्याद्भुत कठिन मौनतपस्समाधि- योगेन स्वनिकटमाकृष्टेषु बहुषु जनेष्वन्यतमेन शिवप्रकाशं पिळ्‍ळै नामकेन केनचिद्भक्तेन १९०१-१९०२ क्रिस्तु शकाब्दे महर्षीनभिगम्य मम तत्त्वोपदेशेनानुग्रहः कर्तव्य इति भक्तिश्रद्धाविनयादि पुरस्सरं प्रार्थनां कृत्वा परिपृष्टानां प्रश्नानां, तदा तदा मौनिना महर्षिणा द्राविडभाषायां लिखित्वा दत्तमुत्तरमिदं प्रश्नोत्तराकारं केरळादि नानादेशभाषानूदितमपीदानीं गीर्वाण वाण्यामनूद्यमानं विजयतेतमाम् ॥ ॥ शुभम् ॥ ॥ ॐ नमो भगवते श्रीमते रमणाय ॥ कोहम् ? सर्वेषामपि जीवानां दुःखानुषङ्गं विनाऽऽत्यन्तिक सुखित्वकामनायास्सत्वेन सर्वेषां स्वस्मिन्परमप्रेम्णो विद्यमानत्वेन च, प्रेम्णश्च सुखनिदानत्वेन, मनोविहीनायां निद्रायां दिने दिने स्वयमनुभूयमानं स्वस्वाभाविकं तत्सुखमुपलब्धुं स्वेन स्वस्य ज्ञानमावश्यकम् । तस्य `` कोहम् '' इति विचार एव मुख्यं साधनम् । प्रश्नः १ ॥ कोहम् ? उत्तरम् ॥ सप्तधातुभिर्निष्पन्नोऽयं स्थूलदेहो नाहम् । शब्दस्पर्शरूपरसगन्धाख्यान्पञ्चविषयान्पृथक्पृथग्विजानन्ति श्रोत्रत्वङ्गेन जिह्वाघ्राणाख्यानि ज्ञानेन्द्रियाणि पञ्चापि नाहम् । वचनगमनादानविसर्गानन्दाख्य पञ्चकृत्यकराणि वाक्पादपाणि- पायूपस्थरूपाणि पञ्चकर्मेन्द्रियाणि च नाहम् । श्वासादि पञ्चकार्यकराणि प्राणादयः पञ्चवायवोऽपि नाहम् । सङ्कल्पात्मकं मनोऽपि नाहम् । सर्वविषय सर्वकार्यशून्यं, सर्वविषयवासनामात्रवासितमज्ञानमपि नाहम् । प्रश्नः २ ॥ एतत्सर्वं नाहमितिचेत्तर्हि कोहम् ? उत्तरम् ॥ एवमेतत्सर्वं नाहमिति नेति कृत्वाऽवशिष्ट ज्ञप्तिरेवाहम् । प्रश्नः ३ ॥ ज्ञप्तेस्स्वरूपं किम् ? उत्तरम् ॥ ज्ञप्तेस्स्वरूपं सच्चिदानन्दम् । प्रश्नः ४ ॥ स्वरूपदर्शनं कदानुलभ्येत ? उत्तरम् ॥ दृश्ये जगति निवारिते दृग्स्वरूपदर्शनं जायेत । प्रश्नः ५ ॥ दृश्ये जगति (प्रतिभासमाने) सति स्वरूपदर्शनं न जायेत किन्नु ? उत्तरम् ॥ न जायेत । प्रश्नः ६ ॥ कुतः ? उत्तरम् ॥ दृक्, दृश्यं च रज्जुवत्सर्पवच्च भवति । कल्पित सर्पज्ञानविनाशाभावे तदधिष्ठान रज्जुज्ञानं यथा नोदेति, तथा कल्पित जगद्दृष्टि विनाशाभावे तदधिष्ठान स्वरूपदर्शनं न जायेत । प्रश्नः ७ ॥ दृश्यं जगत्कदा विनष्टं स्यात् ? उत्तरम् ॥ सर्वविज्ञानानां, सर्वकार्याणां च साधारण कारणे मनसि लीने जगल्लीनं स्यात् । प्रश्नः ८ ॥ मनसस्स्वरूपं किं तर्हि ? उत्तरम् ॥ आत्मस्वरूपनिष्ठा काचनातिशयित शक्तिरेव मन इत्येतन्नाम । तदेव सकलस्मरणान्यपि जनयति । सर्वाण्यपि स्मरणानि निषिध्य निरोधेकृते न पृथङ्मनसस्स्वरूपं किञ्चिदुपलभ्यते । ततश्च स्मरणमेव मनसस्स्वरूपम् । स्मरणानि विहाय नान्य- त्किञ्चिज्जगत्तत्त्वमस्ति । निद्रायां स्मरणं नास्ति, जगदपि नास्ति । जाग्रत्स्वप्नयोस्स्मरणानि सन्ति, जगदप्यास्ते । यथोर्णनाभिस्स्वस्मा- त्तन्तून्बहिरुद्भाव्य स्वस्मिन्नेव पुनरपि समाकर्षयति, तथा मनोपि स्वस्माज्जगदुद्भाव्य स्वस्मिन्नेव पुनरपि विलापयति । मनस्स्वात्मनो यदा बहिर्मुखं भवति, तदा जगद्भायात् । ततो भाति च जगति न स्वरूपं भायात् । स्वरूपे भाति सति न जगद्भायात् । मनसस्स्वरूपे क्रमेण विचार्यमाणे, मनः स्वं भवति । स्वमात्मस्वरूपमेव । मनश्च स्थूलं किञ्चित्सततमवलम्ब्यैवं तिष्ठेत् । नानवलम्ब्य पृथक्तिष्ठेत् । मन एव सूक्ष्मशरीरमिति जीव इति च व्यवह्रियते । प्रश्नः ९ ॥ मनसस्स्वरूपं विचार्य विज्ञातुं को वा मार्गः ? उत्तरम् ॥ देहेऽस्मिन्न्``अहम्''इति यदुत्तिष्ठति, तदेव मनः । अहमिति स्मृतिश्च देहेऽस्मिन् क्व नु विभासत इति विमार्गिते `` हृदय ''- इति प्रत्यवभासेत । तदेव मनसो जन्मस्थानम् । ``अहं'' ``अहं'' इत्यावृत्ति मात्रेकृतेपि तत्रैवा (हृदय एव)-न्ततः प्राप्तिस्स्यात् । मनसि जायमानानां सर्वेषामपि सङ्कल्पानां अहमिति सङ्कल्प एव प्रथमस्सङ्कल्पः । प्रथमं मनस्सङ्कल्पे जात एवान्ये सङ्कल्पास्समुज्जृम्भन्ते । उत्तम पुरुषो (अहमि)-द्भवानन्तरं हि प्रथम मध्यमौ विज्ञायेते । उत्तम पुरुषं विना प्रथम मध्यमौ नैव भवतः । प्रश्नः १० ॥ मनः कथं विलीयेत ? उत्तरम् ॥ `` कोहम् ''इति निरन्तरविचारेणेनैव मनो विलीयेत । अहं क इति स्मृतिः स्वेतर सकलस्मृतीः प्रविलाप्य शवदाहक दण्डवत्स्वयमप्यन्ततो विलीयते । ततश्च स्वरूपदर्शनं भवेत् । प्रश्नः ११ ॥ `` कोऽहम् ''इति विचारं सर्वदावलम्बितुमुपायः कः ? उत्तरम् ॥ बाह्यसङ्कल्पेषु जातेषु, तान्परिपूरयितुमप्रयतमान एव `` एते सङ्कल्पाः कस्योदिता '' इति विचारं कुर्यात् । जायन्तां नाम कियन्तो वा सङ्कल्पाः । एकैकस्मिन्सङ्कल्पे समुद्भूते, तत्काल एव `` कस्यायमुद्भूत '' इति सावधानं यदि विचार्यते तदा `` ममेति '' प्रतिभासेत । ``अहं क''इति विचारिते च मनस्स्वजन्मस्थानं प्रत्यावर्तेत । अनवरतमेवमभ्यासे कृते तत्पाटवेन मनस्स्वजन्मस्थान एव चिरकालावस्थिति शक्तिरभिवर्धेत । सूक्ष्ममिदं मनो बुद्धीन्द्रियद्वारा बहिर्मुखी भवति चेत् स्थूलानीमानि नामरूपाणि जानाति । हृदय एव प्रत्यवतिष्ठते यदि, तदा नामरूपाणि न जानाति । बहिर्मुखविषय- प्रवृत्तेर्मनः प्रत्यावृत्य हृदयावस्थापनमेव `` अहं मुखम्''इति ``अन्तर्मुखम्''इति च गीयते । हृदयाद्बहिःप्रवृत्तिरेव `` बहिर्मुखम् ''इत्युच्यते । एवं मनसि हृदय प्रतिष्ठिते सति सकलसङ्कल्पविकल्पकारणमहं विलीनं सत्सार्वदिक स्वस्वरूपमात्रं प्रकाशेत । सर्वमपि कार्यमहङ्कारं परित्यज्य कुर्यात् । तथा कृते सर्वमपि शिवस्वरूपं भासेत । प्रश्नः १२ ॥ मनोनिग्रहार्थमन्य उपायाः किं न सन्ति ? उत्तरम् ॥ मनोनिरोधे विचारं विना नान्ये समुचितास्सन्त्वुपायाः । उपायान्तरावलम्बनेन मनोनिग्रहाय प्रवृत्तौ, मनोनिगृहीतमिव भूत्वा पुनरपि बहिरुद्भवेत् । प्राणायामेनापि मनोनिरुद्धं भवति । किन्तु प्राणरोधो यावत्कालं भवति तावत्कालपर्यन्तं मनो निरुद्धमिव भूत्वा, प्राणे (निरोधावस्थां विहाय) बहिःप्रवृत्ते स्वयमपि बहिर्मुखी भूय वासनावशान्मनोपि ततस्ततो धावेत् । मनसः प्राणस्य च जन्मस्थानमेकमेव । मनसस्सङ्कल्पमेव स्वरूपम् । `` अहम् ''इति सङ्कल्पनमेव मनसः प्रथमसङ्कल्पः । तदेवाहङ्कारो नाम । अहङ्कारश्च यतो निष्पद्यते तत एव प्राणोपि निष्पद्यते । ततश्च मनसि निगृहीते प्राणः प्राणे प्रगृहीते मनश्च विलीयते । परन्तु सुषुप्तौ मनसि प्रलीनेपि प्राणो न प्रलीयते । देहसंरक्षणनिमित्तं `` मृतोवायं देह '' इति मध्यस्थ शङ्काव्यवच्छेदनार्थं चैवं प्राणजागरणमीश्वरनियतिसिद्धं विजयते । जाग्रति, समाधौ च विलीनावस्थे मनसि, प्राणोपि विलीयते । मनसस्स्थूलरूपमेव प्राण इति भवति । आप्रायणाच्छरीरे प्राणमवस्थाप्य प्रायणसमये मन एव प्राणमाकृष्य गच्छति । तस्मात्प्राणस्पन्दनिरोधो मनोलयोपायो भवन्नपि न तन्नाशोपायो भवति । प्राणायाम इव मूर्तिध्यानमन्त्रजपाहारनियमाद्याश्च मनोनिरोधे साहाय्यमात्रं कुर्वन्ति । मूर्तिध्यानेन मन्त्रजपेन च मन एकाग्रतामश्नुते । मनश्च सदा चञ्चलस्वभावमेव वर्तते । वेतण्डस्य शुण्डादण्डे समर्पितायां श‍ृङ्खलायां स च यथा तामेवान्यद्वस्तु विहायावलम्बमानो गच्छति, तथा मनोपि किञ्चिन्नामरूपं चिराभ्यासगोचरितमेवावलम्बेत । अनवधिकासङ्ख्येय सङ्कल्पविकल्पादि वृत्तिभेदैर्मनसो विकासप्राप्तौ एकैकस्यास्सङ्कल्पव्यक्तेर्दौर्बल्यं, नैष्फल्यं च भवति । सङ्कल्पेषु क्रमेणोपशमं प्रापितेष्वेकाग्रता सिद्धिद्वारा प्राबल्यं प्राप्तस्य मनसस्स्वात्मविचारसिद्धिरति सुलभा भवति । सकलनियमश्रेष्ठेन हितमितमेध्याशननियमेनोद्भूत सत्त्वगुण भूयिष्ठं मन एवात्मविचारान्तरङ्गसाधनं भवतीति सोपि साहाय्यमश्नुते । प्रश्नः १३ ॥ विषयवासनाजनितास्सङ्कल्पाः समुद्रोच्चलत्तुङ्गतरङ्गभङ्गा इव सन्ततं हि सम्भवन्ति । ते च कथं वा कदा वा प्रशमं प्राप्नुयुः ? उत्तरम् ॥ पटुतम स्वस्वरूपध्याने क्रमेणोदिते ते सर्वे विनश्येयुः । प्रश्नः १४ ॥ अनादिकालागताखिलविषयवासनास्स्वस्मिन्प्रविलाप्य केवल स्वरूपमात्रतयावस्थानं सम्भवति वा ? उत्तरम् ॥ स्वरूपमात्रावस्थितिस्सम्भवति वा न वेति सन्देहात्मक सङ्कल्पस्याप्यवकाशमप्रदाय स्वरूपानुसन्धानमेव सुदृढतया हठादवलम्बनीयम् । अपि चेत्सुदुराचाररतः पापी कश्चित्सोपि `` अहं पापकारी जातः कथं वा मोक्षतीरं प्राप्नुयाम् ``इति सन्तापचिन्तां समूल्यमुन्मूल्य स्वरूपध्यानतत्परो भवति चेन्नूनं कृतकृत्यो मुक्तो भवति । शोभनं मनः अशोभनं मन इति न मनस्स्वरूपतो द्विविधं वर्तते । एकमेव मनः । किन्तु वासना एव शुभा अशुभा इति द्विविधा भवन्ति । यदि शुभवासनान्वय- वशगं मनो भवति तदा शुभमिति अशुभवासनान्वयवशगं यदा तदा तदशुभमिति व्यवह्रियते । प्रपञ्चविषयेषु अन्य कार्येषु च न मनः प्रचोदयात् । अन्येषां दुस्स्वभाववत्वेऽपि तेषु द्वेषो न कार्यः । रागद्वेषावुभावपि हेयौ स्तः । परस्य क्रियमाणस्सर्वोप्युपकारस्स्वस्यैव क्रियमाणो भवति । एतत्तत्त्वं ज्ञायते यदि, कोवान्यस्मै नोपकर्तुं प्रयतेत । अहम्युद्भूते सर्वमप्युद्भवति । अहम्युपशान्ते सर्वमप्युपशाम्यति । यावद्यावद्विनयेन सञ्चरामस्स्तावत्तावत्साधु भवति । मन उपशान्तिश्चेदाप्यते यत्र कुत्र वा निवासो न विरुद्धो भवति । प्रश्नः १५ ॥ विचारणा कियदवधि कर्तव्या ? उत्तरम् ॥ मनसि यावदवधि विषयवासना वसन्ति, तावत्कालपर्यन्तं ``कोहम्''इति विचारणानुसर्तव्या । यदा यदा विषयवासनाः प्रस्फुरन्ति, तदा तदा तदुत्पत्तिस्थान एव विचारेण विनाशं ताः प्रापणीयाः । यावत्स्वरूपमुपलभ्यते तावन्निरन्तरं स्वरूपस्मरणमेव कर्तव्यम् । तदेवालम् । प्राकारप्रविष्टाश्शत्रवो यावदन्तर्वसन्ति, तावत्ततो बहिरागच्छन्ति; बहिरागताश्च ते यदि छिद्यन्ते, तदा सात्मस्स्ववशो भवितुमर्हति । प्रश्नः १६ ॥ स्वरूपस्य कस्स्वभावः ? उत्तरम् ॥ आत्मस्वरूप एक एव यथार्थभूतः । जगज्जीवेश्वराश्शुक्ताविव रजतं तत्र कल्पिताः । जगज्जीवेश्वर त्रयमेतदेकस्मिन्नेव काल उद्भूय, एकस्मिन्नेव समये तिरोभवति । अहमिति धीः किञ्चिदपि नास्ति, तदेव स्थानं स्वरूपमुच्यते । तदेव `` मौनम् ''इति चाभिधीयते । स्वरूपमेव जगत् । स्वरूपमेवाहम् । स्वरूपमेवेश्वरः । सर्वं खल्विदं शिवस्वरूपमेव । प्रश्नः १७ ॥ सर्वमिदमीशाधीनं ननु ? उत्तरम् ॥ इच्छासङ्कल्पप्रयत्नमन्तरा समयाद्युषिते सवितरि तत्सन्निधिमात्रेणायस्कान्तस्यानलोद्वमनं तामरसकुसुमस्य विकासः सलिलानां संशोषणं लौकिकानां सर्वेषामपि जनानां स्वस्वकार्येषु प्रवृत्तिः कान्तोपलसन्निधौ सूचिकाचेष्टा च यथा भवति, तथा ईशस्य सन्निधिविशेषमात्रेण प्रवृत्तस्य सृष्ट्यादि कृत्यत्रयस्य वा पञ्चकृत्यस्य वा, जीवाः परवशीभूय स्वस्वकर्मानुसारेण चेष्टित्वा विनिवर्तन्ते । किन्तु स ईश्वरस्सङ्कल्पसहितो न भवति । न च तानि सृष्ट्यादि कर्माणि तं लिम्पन्ति । यथा सूर्यं लोककृतानि कर्माणि न लिम्पन्ति, यथा वा च चतुर्भूतगुणा आकाशं न समवयन्ते, तादृगेवैतत् । प्रश्नः १८ ॥ भक्तेषु को वा भक्तो विशिष्यते ? उत्तरम् ॥ यः खलु स्वात्मानमेव भगवति स्वेमहिम्नि स्वरूपे समर्पयति, स एव विशिष्टो भक्तिमत्सु । आत्मचिन्तातिरिक्ता नात्मचिन्तायाः किञ्चिदप्यन्तरमप्रदायात्मनिष्ठा तत्परतैव भगवत् स्वात्मसमर्पणं नाम । भगवतिसमर्पितं सर्वमपि भरन्यासं स च संवहति । पारमेश्वरी काचनशक्तिः कार्यजातं सर्वं निर्वहति । तत्र भरन्यास पुरस्सरं तदधीनतास्थितिं विहाय `` एवं कर्तव्यं, मनेवं कर्तव्यं '' इत्येवं नस्सन्तत चिन्तया किं ? धूमशकटे सकलभारवाहिनि ज्ञाते सति तदारुह्य गच्छद्भिरस्माभिस्स्वकीयमल्पमपि मूतं तत्रैव प्रक्षिप्य सुखेनावस्थातुमशक्नुवद्भिस्तन्मूत तत्रापि स्वशिरसि समुदूह्य किमर्थं दुःखमनुभोक्तव्यम् ? प्रश्नः १९ ॥ वैराग्यं नाम किम् ? उत्तरम् ॥ सर्वेषामपि सङ्कल्पानामुत्पत्तिस्थान एवाऽऽत्यन्तिक विनाश सम्पादनमेव वैराग्यं भवति । जलधिजठरगतं मुक्ताफलं गृहीतुं, कटितटे किमपि शिलाखण्डं समाबद्ध्य, जलधिजठर- मनुप्रविश्य, यथा लोके तदुपलभ्यते, तथा मुमुक्षवोपि वैराग्यादि साधनसम्पत्त्या स्वयमेव स्वान्तरमनुप्रविश्य स्वात्ममुक्ताफल- मुपलभेरन् । प्रश्नः २० ॥ ईश्वरेण गुरुणा च जीवा मोचयितुं शक्यन्ते वा ? उत्तरम् ॥ ईश्वरो गुरुश्च मोक्षोपयोगमार्गप्रदर्शकावेव । न खलु स्वयमेव जीवान्मोक्षं प्रापयतः । ईश्वरो गुरुश्च न परस्परं वस्तुतो भिन्नौ । व्याघ्रमुखपतितं प्राणिजातं यथा निर्जीवं भवति, तथाऽऽचार्यानुग्रह- दृष्टिनिपतितस्सर्वोपिप्राणी, निर्जीवामृतीभावसम्पादनेन संरक्ष्यत एव, न स जीवं परित्यक्ष्यते । सर्वोपि जीवस्स्वेन पौरुषेण प्रयत्नेन सर्वेश्वरेण गुरुणा वा सन्दर्शिते सम्यग्दर्शनमार्गे सावधानतया प्रवृत्तिं सम्पाद्य मुक्तिं प्राप्तुमर्हति । स्वेन ज्ञानचक्षुषा स्वमात्मानं स्वेनैव ज्ञातुं शक्यते । कथं खलु परेण ज्ञातुं शक्यते । न हि रामस्स्वमात्मानं राम इति ज्ञातुमादर्शमन्यमपेक्षते । प्रश्नः २१ ॥ मुक्तिकामस्य पुंसः ( प्रपञ्च ) तत्त्वविचारोप्यावश्य को वा ? उत्तरम् ॥ यथा दूरतः परित्याज्यस्यावकरनिकरस्य विपरिघट्टनेन न किमपि प्रयोजनं दृश्यते, तथा स्वात्मानं विविदिषुरपि पुमान् स्वात्मस्वरूपावारकानीमानि तत्त्वानि दूरतोऽपरित्यज्य, तानि कियन्ति, तेषां गुणाश्च कीदृश इति तेषां परिगणनेन वा विचारेण वा न किमपि फलमस्ति । अतश्च प्रपञ्चस्सर्वोपि स्वप्नसमानस्वभाव इति मुमुक्षिभिर्निर्णेतव्यम् । प्रश्नः २२ ॥ जाग्रतः स्वप्नस्य च परस्परं भेदो न किम् ? उत्तरम् ॥ जाग्रद्दीर्घकालं, स्वप्नः क्षणिक इति दीर्घत्व क्षणिकत्व भेदं विना नान्यो भेदोस्ति । जाग्रति जाता व्यवहारा यथा सत्याः प्रकाशन्ते, तथैव स्वप्नेऽनुभूयमानास्सर्वे व्यवहाराश्च तत्काले सत्यास्सन्दृश्यन्ते । किन्तु स्वप्ने जाग्रद्देहभिन्नं देहं मनो गृह्णाति । जाग्रत्स्वप्नयोर्द्वयोरपि विज्ञानानि, ज्ञेय नामरूपाणि च युगपदाविर्भवन्ति । प्रश्नः २३ ॥ मुमुक्षूणां शास्त्रपठनेन किमपि प्रयोजनमस्ति वा ? उत्तरम् ॥ शास्त्रेषु मुक्तिप्राप्तये मनोनिग्रहस्यैवोपाय- तयोपदेशेन, `` तेषां मनोनिग्रहोपाय प्रदर्शन एव परमं तात्पर्यम् ''इति सिद्धान्ततत्त्वे ( गुरुमुखात् ) अवगते सति बहुशास्त्राभ्यास परिश्रमेण न किञ्चिदस्ति प्रयोजनम् । स्वमनोनिग्रहार्थं स्वयमेव स्वस्मिन्स्वात्मानं `` कोऽहम् ''इति विचारं विहाय, कथं बहुशास्त्रविचारेण मनोनिग्रहस्सुलभो भवति ? स्वं स्वेनज्ञानचक्षुषा स्वस्मिन्स्वयमेव ह्यवगन्तव्यम् । स्वं च पञ्चकोशान्तरवभासते । शास्त्रग्रन्थाश्च पञ्चकोशबाह्यस्था भवन्ति । तस्मात्पञ्चकोशानपि `` नेति नेतीति '' निषिध्यान्वेष्टव्यस्स्वात्मा शास्त्रेष्वन्वेषणेन कथं ज्ञातुं शक्यते ? अतश्शास्त्रचर्चा वृथैव । अभ्यस्तमखिलं शास्त्रमपि कस्मिंश्चित्कालविशेषे विस्मरणीयतामियादेव । प्रश्नः २४ ॥ किं सुखम् ? उत्तरम् ॥ आत्मस्वरूपमेव सुखं भवति । सुखस्यात्मस्वरूपस्य च भेदो नास्ति । प्रपञ्चवस्तुषु कस्मिंश्चिदपि नास्ति सुखलेशोपि । तेभ्यस्सुखं भवतीति वयमविवेकादवगच्छामः । मन आत्मनो बहिरागमनकाले दुःखमनुभवति । अस्मन्मनोरथ परिपूर्तिसमयेषु सर्वेष्वप्यस्माकं मनस्स्वयथास्थानं प्राप्यैवात्मसुखमेवानुभवति । एवमेव सुषुप्ति समाधि मूर्छासु, इष्टप्राप्तिसमये, अनिष्टवस्तुवियोगक्षणे च मन अन्तर्मुखं सदात्मसुखमेवानुभवति । एवं मनः आत्मनोबहिरात्मनि च गमनागमने कुर्वदविश्रान्तं भ्रमति । तरोरधस्थाच्छाया सुखकरी भवति । तरोर्बहिः प्रदेशे भानोरूष्मा दुःखकरो भवति । बहिस्सञ्चारी पथिकः कश्चिच्छायामाश्रित्य शीतली भवति । एवं क्षणं स्थित्वा पुनरपि बहिर्गत्वा सूर्योष्मणा परिश्रान्तः पुनरपि तरुच्छायां प्राप्य सुखमनुभवति । एवं छायातः बहिर्गच्छन्, बाह्याच्छायामागच्छन् पथिको वर्तते । अयमीवं कुर्वाण एवाविवेकीति गीयते । विवेकी तु छायां परित्यज्य बहिरेव न गच्छेत् । एवमेव ज्ञानिनो मनोपि ब्रह्म कदाचिदपि न परित्यजति । अज्ञानिनां मनस्तु बाह्यप्रपञ्चे भ्रामं, भ्रामं दुःखमनुभूय, क्षणकालं ब्रह्म प्राप्य सुखं चानुभवति । मन एव जगत् । जगति तिरोहिते विस्मृतिं प्रापिते मनस्स्वानन्दमनुभवति । अतिरोहिते (भाति) जगति मनो दुःखमनुभवति । प्रश्नः २५ ॥ ज्ञानदृष्टिरित्येतत्किम् ? उत्तरम् ॥ तूष्णीं स्थितेरेव `` ज्ञानदृष्टि ''रिति व्यवहारः । मनसस्स्वात्मनि प्रविलापनमेव तूष्णीं भावावस्था । एवं स्थितिरेव ज्ञानदृष्टिरित्युच्यते । अन्याभिप्रायाभिज्ञता, त्रिकालज्ञातृत्वं, दूरदेशपदार्थग्रहणमित्येवमादयो न ज्ञानदृष्टि पदव्यपदेश्या भवितुमर्हन्ति । प्रश्नः २६ ॥ निराशाया ज्ञानस्य च कस्सम्बन्धः ? उत्तरम् ॥ निराशैवज्ञानम् । निराशाऽन्या, ज्ञान चान्यदिति न भवति । एतद्वयमपि वस्तुत एकमेव । आत्मनोन्यत्र मनसोऽप्रवृत्तिरेव निराशेति निरुच्यते । आत्मनोन्यस्य कस्यचिदप्रतिभास एव ज्ञानमिति व्यपदिश्यते । अन्यत्राऽप्रवृत्तिर्वैराग्यमथवा निराशा भवति । स्वस्वरूपापरित्याग एव ज्ञानम् । प्रश्नः २७ ॥ विचारस्य ध्यानस्य च को भेदः ? उत्तरम् ॥ स्वात्मनि मनसो धारणमेव विचारः । स्वात्मनः ब्रह्मेति, सच्चिदानन्दमिति च निरन्तरभावनं ध्यानं भवति । प्रश्नः २८ ॥ मुक्तिः का ? उत्तरम् ॥ बद्धः अहं क इति विचारेण स्वयथार्थस्वरूपं विदित्वा तन्निष्ठतैव मुक्तिः । ॥ शुभमस्तु ॥ ॥ श्री रमणार्पणमस्तु ॥ वि. जगदीश्वरशास्त्री ॥ ८-१०-१९४१ http://www.sriramanamaharshi.org/resource\_centre/publications/who-am-i-books/