अक्षर आकार:

श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम्

shrI kirAtashAstuH aShTottarashatanAmastotraM

श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम्

किरातात्मा शिवः शान्त शिवात्मा शिवनन्दनः । पुराणपुरुषोधन्वी पुरुहुत सहायकृत् ॥ १ नीलाम्बरो महाबाहुर्वीर्यवान् विजयप्रदः । विधुमौलिर्विराडात्मा विश्वात्मा वीर्यमोहनः ॥ २ वरदो वामदेवश्च वासुदेवप्रियो विभुः । केयूरवान् पिञ्छमौलिः पिङ्गलाक्षः कृपाणवान् ॥ ३ शास्वतः शरकोदण्डी शरणागतवत्सलः । श्यामलाङ्गः शरधीमान् शरदिन्दु निभाननः ॥ ४ पीनकण्ठो विरूपाक्षः क्षुद्रहा क्षुरिकायुधः । धाराधर वपुर्धीमान् सत्यसन्धः प्रतापवान् ॥ ५ कैरातपतिराखेटप्रियः प्रीतिप्रदः प्रभुः । रेणुकात्मज श्रीराम चित्तपत्मालयो बली ॥ ६ व्याधरूपधरो व्याधिनाशनः कालशासनः । कामदेवसमो देवः कामितार्थ फलप्रदः ॥ ७ अभृतः स्वभृतो धीरः सारः सात्विकसत्तमः । सामवेदप्रियो वेधाः वेदो वेदविदांवरः ॥ ८ त्र्यक्षरात्मा त्रिलोकेशः त्रिस्वरात्मा त्रिलोचनः । त्रिगुणात्मा त्रिकालज्ञः त्रिमूर्त्यात्मा त्रिवर्गदः ॥ ९ पार्वतीनन्दनः श्रीमान् पावनः पापनाशनः । पारावारगभीरात्मा परमात्मा परात्परः ॥ १० गीतप्रियो गीतकीर्तिः कार्तिकेयसहोदरः । कारुण्यसागरो हंसः सिद्ध सिम्हपराक्रमः ॥ ११ सुश्लोकः सुमुखो वीरः सुन्दरः सुरवन्दितः । सुरवैरिकुलध्वंसी स्थूलश्मश्रुरमित्रहा ॥ १२ अमृतः सर्वगः सूक्ष्म स्थूलस्तुरगवाहनः । अमलो विमलो दक्षो वसुमान् वनगो गुरुः ॥ १३ सर्वप्रियः सर्वसाक्षी सर्वयोगीश्वरेश्वरः तारक ब्रह्मरूपी च चन्द्रिकाविशदस्मितः किरात वपुरारामसञ्चारी परमेश्वरः ॥ १४ इति श्री किरातशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णं ॥