अक्षर आकार:

श्रीकिरातशास्तुः अष्टोत्तरशतनामावली

shrI kirAtashAstuH aShTottarashatanAmAvaliH

श्रीकिरातशास्तुः अष्टोत्तरशतनामावली

ॐ किरातात्मने नमः । ॐ शिवाय नमः । ॐ शान्ताय नमः । ॐ शिवात्मने नमः । ॐ शिवानन्दनाय नमः । ॐ पुराणपुरुषाय नमः । ॐ धन्विने नमः । ॐ पुरुहुतसहायकृते नमः । ॐ नीलाम्बराय नमः । ॐ महाबाहवे नमः । १० ॐ वीर्यवते नमः । ॐ विजयप्रदाय नमः । ॐ विधुमौलये नमः । ॐ विराडात्मने नमः । ॐ विश्वात्मने नमः । ॐ वीर्यमोहनाय नमः । ॐ वरदाय नमः । ॐ वामदेवाय नमः । ॐ वासुदेवप्रियाय नमः । ॐ विभवे नमः । २० ॐ केयूरवते नमः । ॐ पिञ्छमौळये नमः । ॐ पिङ्गलाक्षाय नमः । ॐ कृपाणवते नमः । ॐ शास्वताय नमः । ॐ शरकोदण्डिने नमः । ॐ शरणागतवत्सलाय नमः । ॐ श्यामलाङ्गाय नमः । ॐ शरधीमते नमः । ॐ शरदिन्दु निभाननाय नमः । ३० ॐ पीनकण्ठाय नमः । ॐ विरूपाक्षाय नमः । ॐ क्षुद्रघ्ने नमः । ॐ क्षुरिकायुधाय नमः । ॐ धाराधर वपुषे नमः । ॐ धीमते नमः । ॐ सत्यसन्धाय नमः । ॐ प्रतापवते नमः । ॐ कैरातपतये नमः । ॐ आखेटप्रियाय नमः । ४० ॐ प्रीतिप्रदाय नमः । ॐ प्रभवे नमः । ॐ रेणुकात्मज श्रीराम चित्तपद्मालयाय नमः । ॐ बलिने नमः । ॐ व्याडरूपधराय नमः । ॐ व्याधिनाशनाय नमः । ॐ कालशासनाय नमः । ॐ कामदेवसमाय नमः । ॐ देवाय नमः । ॐ कामितार्थ फलप्रदाय नमः । ५० ॐ अभृताय नमः । ॐ स्वभृताय नमः । ॐ धीराय नमः । ॐ साराय नमः । ॐ सात्विकसत्तमाय नमः । ॐ सामवेदप्रियाय नमः । ॐ वेधसे नमः । ॐ वेदाय नमः । ॐ वेदविदांवराय नमः । ॐ त्र्यक्षरात्मने नमः । ६० ॐ त्रिलोकेशाय नमः । ॐ त्रिस्वरात्मने नमः । ॐ त्रिलोचनाय नमः । ॐ त्रिगुणात्मने नमः । ॐ त्रिकालज्ञाय नमः । ॐ त्रिमूर्त्यात्मने नमः । ॐ त्रिवर्गदाय नमः । ॐ पार्वतीनन्दनाय नमः । ॐ श्रीमते नमः । ॐ पावनाय नमः । ७० ॐ पापनाशनाय नमः । ॐ पारावारगभीरात्मने नमः । ॐ परमात्मने नमः । ॐ परात्पराय नमः । ॐ गीतप्रियाय नमः । ॐ गीतकीर्तये नमः । ॐ कार्तिकेयसहोदराय नमः । ॐ कारुण्यसागराय नमः । ॐ हंसाय नमः । ॐ सिद्धाय नमः । ॐ सिम्हपराक्रमाय नमः । ॐ सुश्लोकाय नमः । ॐ सुमुखाय नमः । ॐ वीराय नमः । ॐ सुन्दराय नमः । ॐ सुरवन्दिताय नमः । ॐ सुरवैरिकुलध्वंसिने नमः । ॐ स्थूलश्मश्रुवे नमः । ॐ अमित्रघ्ने नमः । ॐ अमृताय नमः । ९० ॐ सर्वगाय नमः । ॐ सूक्ष्माय नमः । ॐ स्थूलाय नमः । ॐ तुरगवाहनाय नमः । ॐ अमलाय नमः । ॐ विमलाय नमः । ॐ दक्षाय नमः । ॐ वसुमते नमः । ॐ वनगाय नमः । ॐ गुरवे नमः । १०० ॐ सर्वप्रियाय नमः । ॐ सर्वसाक्षिणे नमः । ॐ सर्वयोगीश्वरेश्वराय नमः । ॐ तारकब्रह्मरूपिणे नमः । ॐ चन्द्रिकाविशदस्मिताय नमः । ॐ किरातवपुषे नमः । ॐ आरामसञ्चारिणे नमः । ॐ परमेश्वराय नमः ॥ १०८ इति श्री किरातशास्तुः अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥