अक्षर आकार:

कृष्णचैतन्यद्वादशनामस्तोत्रम्

Krishnachaitanya Dvadashanama Stotram

कृष्णचैतन्यद्वादशनामस्तोत्रम्

चैतन्यः कृष्णचैतन्यो गौराङ्गो द्विजनायकः । यतीनां दण्डिनां चैव न्यासिनां च शिरोमणिः ॥ १॥ रक्ताम्बरधरः श्रीमान् नवद्वीपसुधाकरः । प्रेमभक्तिप्रदश्चैव श्रीशचीनन्दनस्तथा ॥ २॥ द्वादशैतानि नामानि त्रीसन्ध्यं यः पठेन्नरः । तस्य वाञ्छासुसिद्धिः स्याद्भक्तिः श्रीलपदाम्बुजे ॥ ३॥ इति सार्वभौम भट्टाचार्यविरचितं कृष्णचैतन्यद्वादशनामस्तोत्रं सम्पूर्णम् ।