अक्षर आकार:

काथबोधः

kAthabodhaH

काथबोधः

(दत्तात्रेयसम्प्रदायाऽनुगतः) श्रीगणेशाय नमः । वागर्याऽऽत्मा सर्वभूतान्तरात्मा वक्ता श्रोता विश्वरूपश्चिदात्मा । सर्वावासश्चैको नित्योपलब्धि- र्यः सन्तोषानन्ददस्तं भजेऽहम् ॥ १॥ नत्वा हंसं सद्गुरुं तं परेशं शुद्धं व्यक्तं भार्गवारण्यवासम् । ईशादीनामष्टकं पूर्वजानां वक्ष्यामेनं सत्त्वदं काथबोधम् ॥ २॥ कश्चिच्छिष्यः सङ्गदोषैर्विमूढः क्रोधेनाऽसौ तप्तरूपो बभूव । ऐशात्मा अनीशवत्सोऽपि जातः स्वात्मत्यागाच्चैत्यस्ङ्गोन्मुखत्वात् ॥ ३॥ बद्ध्वा पाणी तप्तकायो बभाषे काथावस्थां विश्वविश्वान्तकाले । क्रोधघ्नाऽस्याः काथविद्या परान्या शान्तिः काथेत्यादिसर्वं वदस्व ॥ ४॥ का वै विश्वो यः क्यभावे सेवेद्यः कस्त्वन्या सा काथशब्देन वाच्या काक्यौ लुप्ते यत्र ते योगिलक्ष्ये तत्त्वन्त्वेक काथवेत्ताऽवशिष्टः ॥ ५॥ काशब्दोऽयं वाच्यकायी हृदिस्थ- स्तस्यावासं कायमाहुर्मुनीन्द्राः । तदुभयं कायिकायौ व काथौ तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ६॥ नाहं काक्यौ तौ क्षरौ चाक्षरो भो! ज्ञात्वा ज्ञाता चैक्यलिङ्गं त्यज त्वम् । वाच्ये त्यक्त्वा लक्ष्ययौरैक्यशुद्धं- तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ७॥ लोकालोको यस्य सिद्‍ध्या प्रलुप्तौ शीतोष्णे ते सप्रभे द्वे प्रलीने । आ आद्यन्तौ साभिमानौ प्रणष्टौ तत्त्वन्तेकः काथवेत्ताऽवशिष्टः ॥ ८॥ भूरापोग्निर्वायुखे मानसन्त- द्बुद्‍ध्यात्मा वै षोडशान्ये विकाराः । शुद्धस्त्वं यः प्राकृतः पञ्चविंश- स्तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ९॥ द्रष्टा दृश्यं दर्शनं लुप्तं सत्संवित्त्या योगिभिश्चानुभूतम् । वेदे गीतं नेति नेतीति शब्दै- स्वत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ १०॥ अस्मद्युष्मद्वाच्यबाह्यान्तरे द्वे स्थूलं सूक्ष्मं कारणं सच्चासच्च । यस्मिन्नेव मायया कल्पितं वै तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ११॥ व्यक्ते दृश्यादृश्यधर्मेऽथ भावे सन्मात्रन्त्वं स्वानुभूत्या भवेयम् । शून्यङ्कृत्वा शून्यमेतच्च चित्त्वा- च्चिद्रूपं त्वं काथवेत्ताऽवशिष्टः ॥ १२॥ अन्तर्बाह्ये चित्त्वसत्त्वे त्यज द्वे स्वानन्दैक्यं केवलं त्वम्भव स्वम् । तद्रूपत्वादद्वयं तत्त्वन्तत्त्व- वेत्ता कोऽस्मिन्कस्य वेत्तृत्वमस्ति ॥ १३॥ एवम्भूते शुद्धबुद्धे स्वरूपे काथावस्थां ब्रूहि मे त्वम्प्रबुद्धः । काथावेत्ता कोऽहमित्यात्मबाधः निःसङ्गेऽस्मिन्नुत्थिता त्वय्यविद्या ॥ १४॥ शून्यालम्बाऽलम्बनं सा भवेत्ते सूर्याभायां वारिभासस्तथेयम् । भिन्नाभिन्ना नैव तस्मादवाच्या जह्येनां स्वामद्वयानन्दबोधात् ॥ १५॥ वेद्याभावे कस्य वेत्ताऽत्र कोऽसौ वक्ष्याम्यस्मिन्भाषणं मे श‍ृणु त्वम् । काथेत्यस्याः सा न भाति त्वमेकः सद्बोधार्थं वाक्यमेतत्प्रवृत्तम् ॥ १६॥ सन्मात्रोऽहं सत्तया सर्वमेकः क्रोधघ्नाऽस्याः काथविद्यापराऽन्या । चिन्मात्रोऽहं चित्स्वरूपश्चिदात्मा सृष्ट्यन्तानां साक्षिरूपोऽव्ययोऽहम् ॥ १७॥ एवं भूते काऽथ शुद्धास्त्यवस्था व्यक्ताव्यक्तातीतमन्तर्बहिःस्थम् । व्यक्ताव्यक्तं तन्न बाह्यान्तरे द्वे मौनेनाऽयं वाचकस्त्र्यक्षरोऽस्य ॥ १८॥ आत्मा शब्दो बिन्दुनादान्वितोऽयं शक्त्या साकं मायिकेनैव शान्तः । निर्वाणं तत्केवलाऽनन्दबोध- मेवम्भूता काथशान्तिः परात्मा ॥ १९॥ धर्मं कृत्वा माऽस्तु ते तत्फलेप्सा त्यक्त्वा त्रित्वं तूर्यधर्मे रमस्व । भूतेभ्यः कमानन्दं त्वम्भवस्व मानं त्यक्त्वा स्वस्वसिद्धोऽनपेक्षः ॥ २०॥ कस्याऽपेक्षां मा कुरु त्वं समात्मा क्षन्तव्यास्ते तर्ज्जना दारुस्ताः । साङ्ख्ये योगे लौकिके सप्रपञ्चे कृष्णविष्णुं(?)जिष्णुशर्वं वद त्वम् ॥ २१॥ सर्वैः खैस्तैर्देहगेहेन चाऽर्थै- र्वन्दस्व त्वं रुक्मिणीशं परेशम् । द्रोहं लोभं मुञ्च दम्भमसूयां दुर्बुद्धे त्वं स्वरूपञ्च भजेदम् ॥ २२॥ निःसङ्गस्त्वं सङ्गमात्सज्जनानां निष्कामस्त्वं सेवया निःस्पृहाणाम् । गाङ्गं पीत्वा सोमपस्त्वं भवस्व शुद्धो भूत्वा शुद्धखं तद्भजस्व ॥ २३॥ नत्वा साधून्योगिनो देवसिद्धान् सर्वर्षीस्तानर्यमादीन् गुरून् भो । विश्वाधारं रुक्मिणीशं शिवेशं नत्वा ज्ञातः काथबोधः समाप्तः ॥ २४॥ श्रुत्वा त्वेनं शान्तरूपो बभूव सद्ग्रन्थनं काशकं मुक्तिमार्गे । योगीन्द्राणां सद्रहस्यञ्च गुह्यं सन्तोषान्तर्व्यापकेनैव गीतम् ॥ २५॥ अनादिनिधनो देवः सर्वव्यापी निरञ्जनः । हृदयस्थः स्वयं वक्ता कर्त्ता कारयिता हरिः ॥ २६॥ इति श्रीमत्सन्तोषानन्दविरचितः काथबोधः सम्पूर्णः ।