श्रीजयेन्द्रसरस्वती अष्टोत्तरशतनामावलिः
॥ श्रीगुरुनामावलिः ॥ श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीजयेन्द्रसरस्वती श्रीपादानामष्टोत्तरशतनामावलिः । जयाख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः । तमोऽपहग्रामरत्न सम्भूताय नमो नमः । महादेव महीदेवतनूजाय नमो नमः । सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः । सुब्रह्मण्याभिधानीतकौमाराय नमो नमः । ५ मध्यार्जुनगजारण्याधीतवेदाय ते नमः । स्ववृत्तप्रणीताशेषाध्यापकाय नमो नमः । तपोनिष्ठगुरुज्ञातवैभवाय नमो नमः । गुर्वाज्ञापालनरतपितृदत्ताय ते नमः । जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः । १० जयाख्यया स्वगुरुणा दीक्षिताय नमः । ब्रह्मचर्यादेव लब्धप्रव्रज्याय नमो नमः । सर्वतीर्थतटे लब्धचतुर्थाश्रमिणे नमः । काषायवासस्संवीतशरीराय नमो नमः । वाक्यज्ञाचार्योपदिष्टमहावाक्याय ते नमः । १५ नित्यं गुरुपदद्वन्द्वनतिशीलाय ते नमः । लीलया वामहस्ताग्रधृतदण्डाय ते नमः । भक्तोपहृतबिल्वादिमालाधर्त्रे नमो नमः । जम्बीरतुलसीमालाभूषिताय नमो नमः । कामकोटिमहापीठाधीश्वराय नमो नमः । २० सुवृत्तनृहृदाकाशनिवासाय नमो नमः । पादानतजनक्षेमसाधकाय नमो नमः । ज्ञानदानोक्तमधुरभाषणाय नमो नमः । गुरुप्रिया ब्रह्मसूत्रवृत्तिकर्त्रे नमो नमः । जगद्गुरुवरिष्ठाय महते महसे नमः । २५ भारतीयसदाचारपरित्रात्रे नमो नमः । मर्यादोल्लङ्घिजनतासुदूराय नमो नमः । सर्वत्र समभावाप्तसौहृदाय नमो नमः । वीक्षाविवशिताशेषभावुकाय नमो नमः । श्रीकामकोटिपीठाग्र्यनिकेताय नमो नमः । ३० कारुण्यपूरपूर्णान्तःकरणाय नमो नमः । श्रीचन्द्रशेखरचित्ताब्जाह्लादकाय नमो नमः । पूरितस्वगुरूत्तंससङ्कल्पाय नमो नमः । त्रिवारं चन्द्रमौलीशपूजकाय नमो नमः । कामाक्षीध्यानसंलीनमानसाय नमो नमः । ३५ सुनिर्मितस्वर्णरथवाहिताम्बाय ते नमः । परिष्कृताखिलाण्डेशीताटङ्काय नमो नमः । रत्नभूषितनृत्येशहस्तपादाय ते नमः । वेङ्कटाद्रीशकरुणाऽऽप्लाविताय नमो नमः । काश्यां श्रीकामकोटीशालयकर्त्रे नमो नमः । ४० कामाक्ष्यम्बालयस्वर्णच्छादकाय नमो नमः । कुम्भाभिषेकसन्दीप्तालयव्राताय ते नमः । कालट्यां शङ्करयशःस्तम्भकर्त्रे नमो नमः । राजराजाख्यचोलस्य स्वर्णमौलिकृते नमः । गोशालानिर्मितिकृतगोरक्षाय नमो नमः । ४५ तीर्थेषु भगवत्पादस्मृत्यालयकृते नमः । सर्वत्र शङ्करमठनिर्वहित्रे नमो नमः । वेदशास्त्राधीतिगुप्तिदीक्षिताय नमो नमः । देहल्यां स्कन्दगिर्याख्यालयकर्त्रे नमो नमः । भारतीयकलाचारपोषकाय नमो नमः । ५० स्तोत्रनीतिग्रन्थपाठरुचिदाय नमो नमः । युक्त्या हरिहराभेददर्शयित्रे नमो नमः । स्वभ्यस्तनियमोन्नीतध्यानयोगाय ते नमः । परधाम पराकाशलीनचित्ताय ते नमः । अनारततपस्याप्तदिव्यशोभाय ते नमः । ५५ शमादिषड्गुणयत स्वचित्ताय नमो नमः । समस्तभक्तजनतारक्षकाय नमो नमः । स्वशरीरप्रभाधूतहेमभासे नमो नमः । अग्नितप्तस्वर्णपट्टतुल्यफालाय ते नमः । विभूतिविलसच्छुभ्रललाटाय नमो नमः । ६० परिव्राड्गणसंसेव्यपदाब्जाय नमो नमः । आर्तार्तिश्रवणापोहरतचित्ताय ते नमः । ग्रामीणजनतावृत्तिकल्पकाय नमो नमः । जनकल्याणरचनाचतुराय नमो नमः । जनजागरणासक्तिदायकाय नमो नमः । ६५ शङ्करोपज्ञसुपथसञ्चाराय नमो नमः । अद्वैतशास्त्ररक्षायां सुलग्नाय नमो नमः । प्राच्यप्रतीच्यविज्ञानयोजकाय नमो नमः । गैर्वाणवाणीसंरक्षाधुरीणाय नमो नमः । भगवत्पूज्यपादानामपराकृतये नमः । ७० स्वपादयात्रया पूतभारताय नमो नमः । नेपालभूपमहितपदाब्जाय नमो नमः । चिन्तितक्षणसम्पूर्णसङ्कल्पाय नमो नमः । यथाज्ञकर्मकृद्वर्गोत्साहकाय नमो नमः । मधुराभाषणप्रीतस्वाश्रिताय नमो नमः । ७५ सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः । चित्रीयमाणजनतासन्दृष्टाय नमो नमः । शरणागतदीनार्तपरित्रात्रे नमो नमः । सौभाग्यजनकापाङ्गवीक्षणाय नमो नमः । दुरवस्थितहृत्तापशामकाय नमो नमः । ८० दुर्योज्यविमतव्रातसमन्वयकृते नमः । निरस्तालस्यमोहाशाविक्षेपाय नमो नमः । अनुगन्तृदुरासाद्यपदवेगाय ते नमः । अन्यैरज्ञातसङ्कल्पविचित्राय नमो नमः । सदा हसन्मुखाब्जानीताशेषशुचे नमः । ८५ नवषष्टितमाचार्यशङ्कराय नमो नमः । विविधाप्तजनप्रार्थ्यस्वगृहागतये नमः । जैत्रयात्राव्याजकृष्टजनस्वान्ताय ते नमः । वसिष्ठधौम्यसदृशदेशिकाय नमो नमः । असकृत्क्षेत्रतीर्थादियात्रातृप्ताय ते नमः । ९० श्रीचन्द्रशेखरगुरोः एकशिष्याय ते नमः । गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृते नमः । गुरुवर्यकृपालब्धसमभावाय ते नमः । योगलिङ्गेन्दुमौलीशपूजकाय नमो नमः । वयोवृद्धानाथजनाश्रयदाय नमो नमः । ९५ अवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः । स्वगुरूपज्ञया विश्वविद्यालयकृते नमः । विश्वराष्ट्रीयसद्ग्रन्थकोशागारकृते नमः । विद्यालयेषु सद्धर्मबोधदात्रे नमो नमः । देवालयेष्वर्चकादिवृत्तिदात्रे नमो नमः । १०० कैलासे भगवत्पादमूर्तिस्थापकाय ते नमः । कैलासमानससरोयात्रापूतहृदे नमः । असमे बालसप्ताद्रिनाथालयकृते नमः । शिष्टवेदाध्यापकानां मानयित्रे नमो नमः । महारुद्रातिरुद्रादि तोषितेशाय ते नमः । १०५ असकृच्छतचण्डीभिरर्हिताम्बाय ते नमः । द्रविडागमगातॄणां ख्यापयित्रे नमो नमः । शिष्टशङ्करविजयस्वर्च्यमानपदे नमः । १०८ परित्यज्य मौनं वटाधःस्थितिं च व्रजन् भारतस्य प्रदेशात्प्रदेशम् । मधुस्यन्दिवाचा जनान्धर्ममार्गे नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ॥ श्रीगुरु श्रीचन्द्रशेखरेन्द्रसरस्वती श्रीचरणस्मृतिः ॥श्रीजगद्गुरु श्रीकाञ्चीकामकोटिपीठाधिपति श्रीशङ्कराचार्य श्रीजयेन्द्रसरस्वती श्रीचरणैः प्रणीता । अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ १॥ लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् । स्मृत्वा स्मृत्वा नमामस्तान् जन्मसाफल्यहेतवे ॥ २॥ गुरुवारसभाद्वारा शास्त्रसंरक्षणं कृतम् । अनूराधासभाद्वारा वेदसंरक्षणं कृतम् ॥ ३॥ मार्गशीर्षे मासवरे स्तोत्रपाठप्रचारणम् । वेदभाष्यप्रचारार्थं रत्नोसवनिधिः कृतः ॥ ४॥ कर्मकाण्डप्रचाराय वेदधर्मसभा कृता । वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ ५॥ शिलालेखप्रचारार्थमुट्टङ्कित निधिः कृतः । गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ ६॥ गोशाला पाठशाला च गुरुभिस्तत्र निर्मिते । बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ ७॥ देवार्चकानां साह्यार्थं कच्चिमूदूर्निधिः कृतः । बालवृद्धातुराणां च व्यवस्था परिपालने ॥ ८॥ अनाथप्रेतसंस्कारादश्वमेधफलं भवेत् । इति वाक्यानुसारेण व्यवस्था तत्र कल्पिता ॥ ९॥ यत्र श्रीभगवत्पादैः क्षेत्रपर्यटनं कृतम् । तत्र तेषां स्मारणाय शिलामूर्तिनिवेशिता ॥ १०॥ भक्तवाञ्छाभिसिद्ध्यर्थं नामतारकलेखनम् । राजतं च रथं कृत्वा कामाक्ष्याः परिवाहणम् ॥ ११॥ कामाक्ष्यम्बाविमानस्य स्वर्णेनावरणं कृतम् । मूलस्योत्सवकामाक्ष्याः स्वर्णवर्म परिष्कृतिः ॥ १२॥ ललितानामसाहस्रस्वर्णमालाविभूषणम् । श्रीदेव्याः पर्वकालेषु सुवर्णरथचालनम् ॥ १३॥ चिदम्बरनटेशस्य सद्वैदूर्यकिरीटकम् । करेऽभयप्रदे पादे कुञ्चिते रत्नभूषणम् ॥ १४॥ मुष्टितण्डुलदानेन दरिद्राणां च भोजनम् । रुग्णालये भगवतः प्रसादविनियोजनम् ॥ १५॥ जगद्धितैषिभिर्दीनजनावनपरायणैः । गुरुभिश्चरिते मार्गे विचरेम मुदा सदा ॥ १६॥ Ravi Venkatraman,