अक्षर आकार:

जलन्धराष्टकं

JalandharAshtakam

जलन्धराष्टकं

श्रीमच्छङ्करपादमद्मयुगलं नत्वाऽऽत्मदीपं मुदा विद्याद्याखिलनाकपैरपि सदा सेव्यं मनोरञ्जनम् । यत्पाठश्रवणानुरक्तहृदयः सद्योऽमृतं याति वै तच्छ्रीनथजलन्धराष्टकमिदं वक्ष्ये सदा शम्प्रदम् ॥ १॥ श्री नाथाय नमः ॥ कटाक्षिपातेन भवन्तीमेऽस्य यच्छक्तितो वै स्थितिपालनाशाः । श्रीमानराज्ञार्चितपादपीठं वन्देऽन्वहस्तं ककरानतेन ॥ २॥ श्रीनाथ ॥ यस्यामलाजनसदःसु यशोविगीतिः यस्तां श‍ृणोति स जनः शिवमेति तूर्णम् । तेन प्रजार्तिहनृपेण विशुद्धधाम्ना ध्याता सदाकृतिरहं भवभीर्नतोऽस्मि ॥ ३॥ शिव शिव गायन्ति यं श्रुतिमुखाः परिहृत्य शेषं ध्यायन्ति योगिषु वराश्च निरूढमार्गाः । नासान्तदेशकृतदष्टय ऊद्विजन्तोऽ- न्योन्यप्रभाषणभयाद्भवभीर्नतोऽस्मि ॥ ४॥ त्वत्पादकल्पतरुमूलनिसेवकोऽहं तापत्रयेण पिहतः शरणागतोऽस्मि । कृत्यात्मनां च सुकृती नु कदा भवेयं श्रीनाथ पाहि भगवन् भवभीर्नतोऽस्मि ॥ ५॥ एनांसि सर्वाणि लयं प्रयान्ति यन्नामकीर्तेः पुरुषस्य नित्यम् । विद्योदये भ्रान्तिरिवारिषट्कं निवारयाहिं भवभीर्नतोऽस्मि ॥ ६॥ पुराऽस्य साक्षिन् बहवोऽपि योगिनो गत्ताः स्वरूपं त्वयि धारितासवः । भवप्रवाहे पतितं तथापि मां समुद्धर तं भवभीर्नतोऽस्म्यहम् ॥ ७॥ सर्वाधारमनारम्भं समं सर्वत्र वै स्थितम् । तं ध्यात्वा मुच्यते तूर्णं नान्यैः कृत्यैः कदाचन ॥ इति मनो निवेश्य त्वयि सिद्धिमाप्नुयामितीच्छितं पूरय मे किल प्रभो । यापङ्कजाङ्घ्रिं भजतां विवेकिनां कुतो न्वरिष्ठा भवभीर्नतोऽस्म्यहम् ॥ ८॥ यः श्रीनाथजलन्धराष्टकमिदं भक्त्या पठेदन्वहः सोऽरिष्टारिचमूपमूर्धनि पदं न्यस्याटतीवार्भकः । विद्वद्भिः परिसेवितं प्रतिदिनं संयोगमार्गेषुभिः तच्छ्रीमङ्गलमातनोत्वलमिति प्रान्तं गतं तत्सताम् ॥ ९॥ श्रीनाथाय नमः । शिवाय नमः ॥ प्रातरुत्थाय यो भक्त्या श्रीनाथाष्टकमुत्तमम् । पठेद्वा श‍ृणुयान्नित्यं स नरो मुक्तिभाग्भवेत् ॥ १०॥ इति श्रीजलन्धराष्टकं स्तोत्रं सम्पूर्णम् ॥ श्रीनाथाय नमः ॥