अक्षर आकार:

हिमालयस्तुतिः

himAlayastutiH

हिमालयस्तुतिः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ हिमालयाय विद्महे । गङ्गाभवाय धीमहि । तन्नो हरिः प्रचोदयात् ॥ हिमालयप्रभावायै हिमनद्यै नमो नमः । हिमसंहतिभावायै हिमवत्यै नमो नमः ॥ १॥ अलकापुरिनन्दायै अतिभायै नमो नमः । भवापोहनपुण्यायै भागीरथ्यै नमो नमः ॥ २॥ सङ्गमक्षेत्रपावन्यै गङ्गामात्रे नमो नमः । देवप्रयागदिव्यायै देवनद्यै नमो नमः ॥ ३॥ देवदेवविनूतायै देवभूत्यै नमो नमः । देवाधिदेवपूज्यायै गङ्गादेव्यै नमो नमः ॥ ४॥ नमः श्रीरामभद्राय गङ्गातीरालयाय च । सर्वोत्कृष्टाय शान्ताय गभीराय नमो नमः ॥ ५॥ भागीरथ्यलकानन्दासङ्गमाभिमुखाय च । देवप्रयागदैवाय रघुनाथाय ते नमः ॥ ६॥ नमस्सीतावराजाय रामचन्द्राय विष्णवे । सर्वशक्तिप्रदात्रे च सर्वोन्नताय ते नमः ॥ ७॥ रुद्रप्रयागनाथाय नारदागीतशम्भवे । मन्दाकिन्यलकानन्दासङ्गमस्थाय ते नमः ॥ ८॥ मन्दाकिन्यभिषिक्ताय केदारलिङ्गमूर्तये । स्वयम्भूशैलरूपाय शिवाय ओं नमो नमः ॥ ९॥ श्रीयोगनरसिंहाय ज्योतिर्मठस्थिताय च । करावलम्बदैवाय श्रीलक्ष्मीपतये नमः ॥ १०॥ बदरीकाश्रमस्थाय नारायणाय विष्णवे । तपोभूमिप्रशान्ताय योगनिष्ठाय ते नमः ॥ ११॥ बदरीवननाथाय नरनारायणाय च । नरोद्धारणलीलाय नरानन्दाय ते नमः ॥ १२॥ हिमगङ्गालकानन्दाभिषिक्तयोगमूर्तये । बदरीश्रीमहालक्ष्मीतपोनाथाय ते नमः ॥ १३॥ हैमशेखरवृत्ताय नीलकण्ठनुताय च । वसुधाराप्रवाहाय पुराणाय नमो नमः ॥ १४॥ गीताचार्याय कृष्णाय वाचामगोचराय च । हिमालयप्रशान्तिस्थपरानन्दाय ते नमः ॥ १५॥ सदालीनमनस्स्थाय सदानन्दप्रशान्तये । सदात्मानन्दबोधाय श्रीकृष्णाय नमो नमः ॥ १६॥ मङ्गलं हिमरागायै गङ्गामात्रे सुमङ्गलम् । मङ्गलं शिवसद्धाम्ने गङ्गाधराय मङ्गलम् ॥ १७॥ मङ्गलं वासुदेवाय बदरीवनमालिने । मङ्गलं श्रीसमेताय नारायणाय मङ्गलम् ॥ १८॥ मङ्गलं पूर्णशोभाय हिम्याचलाय मङ्गलम् । मङ्गलं सौम्यगङ्गाय मोक्षधाम्ने सुमङ्गलम् ॥ १९॥ मङ्गलं रागहिम्याय नादगङ्गाय मङ्गलम् । मङ्गलं त्यागराजाय पुष्पार्चिताय मङ्गलम् ॥ २०॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता हिमालयस्तुतिः गुरौ समर्पिता । ॐ शुभमस्तु । Copyright Pushpa Srivatsan