अक्षर आकार:

श्रीहरिहरपुत्रसहस्रनामाभिषेकमन्त्रम्

Shri Hariharaputra Sahasranama Abhishekamantram

श्रीहरिहरपुत्रसहस्रनामाभिषेकमन्त्रम्

प्राणापान-व्यानोदान-समाना मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ १॥ वाङ्मनश्चक्षुश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिस्सङ्कल्पा मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ २॥ त्वक्चर्म-माग्ंस-रुधिर-मेदो-मज्जा-स्नायवोऽस्थीनि मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ३॥ शिरःपाणि-पाद-पार्श्वपृष्ठोरूदर-जङ्घा-शिश्नोपस्थ-पायवो मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ४॥ पृथिव्यापस्तेजो-वायुराकाशा मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ५॥ शब्द-स्पर्श-रूप-रस-गन्धा मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ६॥ (मनो-बुद्ध्यहङ्कारश्वित्तं मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥) मनो-वाक्काय-कर्माणि मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ७॥ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां अश्विनो भेषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि ॥ ८॥ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै भेषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि ॥ ९॥ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि ॥ १०॥ इति श्रीहरिहरपुत्रसहस्रनामाभिषेकमन्त्रं सम्पूर्णम् ।