अक्षर आकार:

श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्

shrI hariharaputrAShTottarashatanAma stotraM

श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्

अस्य श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्री हरिहरपुत्रो देवता । ह्रीं बीजं । श्रीं शक्तिः । क्लीं कीलकं । श्री हरिहरपुत्र प्रीत्यर्थे जपे विनियोगः ॥ ह्रीं इत्यादिभिः षडङ्गन्यासः ॥ ध्यानम् ॥ त्रिगुणितमणिपद्मं वज्रमाणिक्यदण्डं सितसुमशरपाशमिक्षुकोदण्डकाण्डं घृतमधुपात्रं बिभृतं हस्तपद्मैः हरिहरसुतमीडे चक्रमन्त्रात्ममूर्तिं ॥ ॐ ॥ महाशास्ता विश्वशास्ता लोकशास्तथैव च । धर्मशास्ता वेदशास्ता कालशस्ता गजाधिपः ॥ १ गजारूढो गणाध्यक्षो व्याघ्रारूढो महद्युतिः । गोप्तागीर्वाण संसेव्यो गतातङ्को गणागृणीः ॥ २ ऋग्वेदरूपो नक्षत्रं चन्द्ररूपो बलाहकः । दूर्वाश्यामो महारूपः क्रूरदृष्टिरनामयः ॥ ३ त्रिनेत्र उत्पलकरः कालहन्ता नराधिपः । खण्डेन्दु मौळितनयः कल्हारकुसुमप्रियः ॥ ४ मदनो माधवसुतो मन्दारकुसुमर्चितः । महाबलो महोत्साहो महापापविनाशनः ॥ ५ महाशूरो महाधीरो महासर्प विभूषणः । असिहस्तः शरधरो फालाहलधरात्मजः ॥ ६ अर्जुनेशोऽग्नि नयनश्चानङ्गमदनातुरः । दुष्टग्रहाधिपः श्रीदः शिष्टरक्षणदीक्षितः ॥ ७ कस्तूरीतिलको राजशेखरो राजसत्तमः । राजराजार्चितो विष्णुपुत्रो वनजनाधिपः ॥ ८ वर्चस्करोवररुचिर्वरदो वायुवाहनः । वज्रकायः खड्गपाणिर्वज्रहस्तो बलोद्धतः ॥ ९ त्रिलोकज्ञश्चातिबलः पुष्कलो वृत्तपावनः । पूर्णाधवः पुष्कलेशः पाशहस्तो भयापहः ॥ १० फट्काररूपः पापघ्नः पाषण्डरुधिराशनः । पञ्चपाण्डवसन्त्राता परपञ्चाक्षराश्रितः ॥ ११ पञ्चवक्त्रसुतः पूज्यः पण्डितः परमेश्वरः । भवतापप्रशमनो भक्ताभीष्ट प्रदायकः ॥ १२ कविः कवीनामधिपः कृपाळुः क्लेशनाशनः । समोऽरूपश्च सेनानिर्भक्त सम्पत्प्रदायकः ॥ १३ व्याघ्रचर्मधरः शूली कपाली वेणुवादनः । कम्बुकण्ठः कलरवः किरीटादिविभूषणः ॥ १४ धूर्जटीर्वीरनिलयो वीरो वीरेन्दुवन्दितः । विश्वरूपो वृषपतिर्विविधार्थ फलप्रदः ॥ १५ दीर्घनासो महाबाहुश्चतुर्बाहुर्जटाधरः । सनकादिमुनिश्रेष्ठ स्तुत्यो हरिहरात्मजः ॥ १६ इति श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णं ॥