अक्षर आकार:

हरिहरपुत्राष्टोत्तरशतनामावलिः २

hariharaputrAShTottarashatanAmAvaliH 2

हरिहरपुत्राष्टोत्तरशतनामावलिः २

द्विहस्तं पद्मसंस्थं च शुक्लयज्ञोपवीतिनम् । पूर्णाया पुष्कलादेव्या युक्तं शास्तारमाश्रये ॥ ॐ शास्त्रे नमः । हरिहरोद्भूताय । हरिहरपुत्राय । उन्मत्तगजवाहनाय । पुत्रलाभकराय । मदनोद्भवाय । शास्त्रार्थाय । चैतन्याय । चेतौद्भवाय । उत्तराय । रूपपञ्चकाय । स्थानपञ्चकाय । घृणये । वीराय । समुद्रवर्णाय । कालाय । परिग्रहाय । अमृताय । ब्रह्मरूपिणे । विष्णुरूपिणे नमः ॥ २० रुद्ररूपिणे नमः । वीररुद्राय । प्रभवे । स्त्रीरूपिणे । खड्गधारिणे । मातङ्गिने । मोहनाय । महामतये । कामितदाय । दिद्दक्षवे । गरलाशनाय । जातस्थाय । महाकोटये । मेधाविने । द्विनेत्राय । द्विभुजाय । भूषिताय । श्यामलाय । यक्षाय । नागयज्ञेपवीतधृते नमः ॥ ४० रक्ताम्बरधराय नमः । कुण्डलोज्ज्वलाय । सद्योजाताय । सर्वसिद्धिकराय । पाणिदेवाय । पीतरक्ताय । सम्यङ्नुताय । सर्वाभरणसंयुक्ताय । शक्तिपार्श्वाय । विद्वेषाय । मदनाय । आर्याय । कन्यासुताय । मानिने । विकृताय । अमृताय । विक्रमाय । वीराय । दाक्षिणात्याय । हस्तीशाय नमः ॥ ६० चक्रेशाय नमः । दण्डधारणाय । मथनेशाय । मङ्गलदाय । पल्लवेशाय । अस्त्रेशाय । कुञ्चिताय । व्यापकाय । भूतपालाय । बृहत्कुक्षये । नीलाङ्गाय । कविभूषिताय । धृतबाणाय । चापधराय । शक्त्यानन्दितमूर्तिमते । भूलोकाय । यौवनाय । भीमाय । तुङ्गभङ्गाय । कुन्तलाय नमः ॥ ८० सारस्वताय नमः । योगपट्टाय । बद्धपद्मासनाय । साम्ने । ईश्वराय । छागावृताय । श्वानावृताय । कुक्कुटावृताय । मेषावृताय । पीतरक्ताय । उत्पलाभाय । धर्मिणे । पद्मालयाय । क्षीबाय । भोगिने । योगिने । करालभूतास्त्राय । भूतलीलाधारिणे । भेतालसंवृताय । आवृतप्रमथाय नमः ॥ १०० जटामकुटधारिणे नमः । रुण्डमालाधराय । भूताय । भूताण्डाय । हुङ्कारभूताय । कालरात्राय । चामुण्डाय । पूर्णापुष्कलावल्लभाय नमः ॥ १०८ इति हरिहरपुत्राष्टोत्तरशतनामावलिः समाप्ता ।